Headlines

प्रेतश्राद्ध (एकादशाह) में वृषोत्सर्ग की अपरिहार्यता व विकल्प

प्रेतश्राद्ध (एकादशाह) में वृषोत्सर्ग की अपरिहार्यता व विकल्प प्रेतश्राद्ध (एकादशाह) में वृषोत्सर्ग की अपरिहार्यता व विकल्प

“बिना वृषोत्सर्ग के किया गया पिण्डदान निष्फल होता है।”

वृषोत्सर्ग को सामान्यतः श्राद्ध से ही जोड़कर देखा जाता है और यह एक भ्रम मात्र है। श्राद्ध में भी प्रेत के प्रेतत्वमुक्तिहेतु एकादशाह को वृषोत्सर्ग किया जाता है किन्तु यह नैमित्तिक प्रयोग है एवं काम्यप्रयोग भी होता है जहां कार्तिक पूर्णिमा आदि विशेष शुभ अवसरों पर करने का विधान है। वर्त्तमान काल में वृषोत्सर्ग ही लोकविरुद्ध सिद्ध हो रहा है इस कारण इसकी अस्वीकार्यता भी देखी जाती है तथापि इसका एक और पक्ष भी है वो यह कि वृषोत्सर्ग अनिवार्य (सक्षम होने पर) भी कहा गया है।

इस कारण इस विषय पर विस्तृत और गंभीर चिंतन की आवश्यकता है कि यदि लोकविरुद्ध है तो कैसे किया जा सकता है और यदि अनिवार्य है तो त्यागा कैसे जा सकता है? अथवा क्या दोनों में कोई संगति बैठायी जा सकती है जिससे वर्त्तमान काल में जो समर्थ है उसका वृषोत्सर्ग भी प्रामाणिक रूप से हो पाये और लोक में कोई हानि भी न हो ?

Table of Contents

प्रेतश्राद्ध (एकादशाह) में वृषोत्सर्ग की अपरिहार्यता व विकल्प

“वृष के वाम भाग में चक्र और दक्षिण भाग में त्रिशूल का अंकन साक्षात् रुद्रत्व और धर्म का विन्यास है।”

द्यूते च व्यवहारे च प्रब्रूते यज्ञकर्म्मणि । यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ॥
एकः कर्म्मनियुक्तः स्याद्द्वितीयस्तन्त्रधारकः। तृतीयः प्रब्रूयात् प्रश्नं ततः कर्म्म समाचरेत् ॥

यहां केवल प्रमाणों का संकलन किया जा रहा है जो “सिद्धं सुसिद्धं श्राद्धं” में भी उपलब्ध नहीं किया जा सकेगा और वृषोत्सर्ग विधि (“सम्पूर्ण कर्मकांड विधि”) में भी नहीं दिया जायेगा अपितु इसके निष्कर्षों को ग्रहण किया जायेगा। किन्तु प्रमाण यहां संकलित हैं यह समझना आवश्यक है और जो युगानुकूल वैकल्पिक वृषोत्सर्ग प्रयोग प्रकाशित किया जायेगा उसके लिये भी प्रमाण यहीं पर अवलोकनीय होंगे।

वृषोत्सर्ग के विषय में यहां एक और महत्वपूर्ण चर्चा पूर्वकृत है जिसका विषय था “मलमास में वृषोत्सर्ग किया जा सकता है या नहीं” यदि आलेख का अवलोकन करना चाहें तो यहां दिया गया है – अधिकमास में वृषोत्सर्ग करें या न करें प्रामाणिक सिद्धि

अथ वृषोत्सर्गः १ गोयज्ञेन व्याख्यातः २ कार्तिक्यां पौर्णमास्थां रेवत्यां वाश्वयुजस्य ३
मध्येगवां सुसमिद्धमग्निं कृत्वाज्यं संस्कृत्येहरतिरिति षट् जुहोति प्रतिमन्त्रम् ४
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा व्वाजं सनोतु नः स्वाहा इति पौष्णस्य जुहोति ५
रुद्रान् जपित्वैकवर्नं द्विवर्णं वा यो वा यूथं छादययि यं वा यूथं छादयेद्रोहितो वैव स्यात्सर्वाङ्गैरुपेतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपस्वित्तमः स्यात्तमलंकृत्य यूथे मुख्याश्चतस्रो वत्सतर्यस्ताश्चालंकृत्य एतं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण ।

मा नः साप्तजनुषाऽसुभगा रायस्पोषेण समिषा मदेमेत्येतयैवोत्सृजेरन् ६
नभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण ७
सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान्भोजयेत् ८
पशुमप्येके कुर्वन्ति ९
तस्य शूलगवेन कल्पो व्याख्यातः १०

पारस्करगृह्यसूत्रं/३/९

अथ तृतीयप्रश्ने षोडशो ऽध्यायः

अथ वृषोत्सर्गः कार्तिक्यां पौर्णमास्यां क्रियेतापि वा आश्वयुज्यां वैशाख्यां वा गोष्ठे गवां मध्ये ।१।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति पूषा गा अन्वेतु नः इति पुरोनुवाक्यामनूच्य शुक्रं ते अन्यतिति याज्यया जुहोति ।२।
अथाज्याहुतीरुपजुहोति इह धृतिस्स्वाहा ।इह विधृतिस्स्वाहा ।इह रन्तिस्स्वाहा ।इह रमतिस्स्वाहा इति उपसृजन्मात्रे वत्सं धारयन्धरुणो धयत्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा इति ।आ गावो अग्मन्नुत भद्रमक्रनित्येतेन सूक्तेन नमस्ते रुद्र मन्यवे इत्या ऽन्तादनुवाकस्य ।३।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।४।

अथ रुद्रं जपित्वा गोमिथुनमध्वर्यवे ददाति ।५।
लाजमन्त्रेण त्रिः प्रदक्षिणं परिक्रमयेदेकवर्णो द्विवर्णो वा यूधं छादयति ।यूधस्य मुख्याश्चतस्रो वत्सतर्यः स्नाप्याच्छाद्य तिलोदकं गृह्णाति ऋचां प्राची इति ।६।
अवधूनुयुर्जलबिन्दून्पीत्वा तृप्ता यान्तु पितरः इति ।७।
अथैनं मध्ये गोष्वपि सृजति एतं युवानं परि वो ददामि इति ।८।
अपियन्तमनुमन्त्रयते त्वां गावः इति ।९।
मध्यस्थमनुमन्त्रयते मयोभूर्वातो अमिवातूस्नाः इति ।१०।
सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान्संपूज्याशिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति ।११।

तिर्यग्योनिगतान्ज्ञातीन्जात्यन्तरे वर्तमानाम्दुष्कुलैरपरुद्धान्दशपूर्वान्दशापरानात्मानं चैकविंशतिं पङ्क्ति च पुनाति न च पुनरावर्तते न च पुनरावर्तते इति ।१२।
अथाप्युदाहरन्ति एष्टव्वा बवहः पुत्रा यद्येकोपि गयां व्रजेत्गौरीं वा वरयेत्कन्यां नीलं वा वृषत्मुसृजेत्।१३।
लोहितो यस्तु वर्णेन श्वेतलागूललक्षणः खुरे ककुदि च श्वेतस्स वै नीलवृषस्स्मृतः ।१४।
इत्याह भगवान्बोधायनः ।१५।

॥ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षोडशोऽध्यायः ॥

गरुडपुराण

निमित्तं दुर्मतिं कृत्वा यदि नारायणो बलिः । एकादशाहे कर्तव्यो वृषोत्सर्गोऽपि तत्र वै ॥
एकादशाहे प्रेतस्य यस्योत्सृज्येत नो वृषः । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥
अकृत्वा यद्वृषोत्सर्गं कृतं वै पिण्डपातनम् । निष्फलं सकलं विद्यात्प्रमीताय न तद्भवेत् ॥
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले । पुत्रः पत्न्यथ दौहित्रः पिता वा दुहिताथ वा ॥

मृतादनन्तरं तस्य ध्रुवं कार्यो वृषोत्सवः । चतुर्वत्सतरीयुक्तो यस्योत्सृज्येत वा वृषः ॥
अलङ्कृतो विधानेन प्रेतत्वं तस्य नो भवेत् । एकादशेऽह्नि सम्प्राप्ते वृषालाभो भवेद्यदि ॥
दर्भैः पिष्टैस्तु सम्पाद्य तं वृषं मोचयेद्वुधः । वृषोत्सर्जनवेलायां वृषाभाव कथञ्चन ॥
मृत्तिकाभिस्तु दर्भैर्वा वृषं कृत्वा विमोचयेत् । यदिष्टं जीवतस्तस्य दद्यादेकादशेऽहनि ॥

गरुडपुराण/प्रेतकाण्ड (धर्मकाण्ड)/५/३९ – ४६

एकादशाहे राजेन्द्र यस्य नोत्सूज्यते वृषः । प्रेतत्वं निश्चलं तस्य कृतैः श्राद्धैस्तु किं भवेत् ॥
गरुडपुराण/प्रेतकाण्ड (धर्मकाण्ड)/६/१४

अकृत्वा तु वृषोत्सर्गं कुरुते पिण्डपातनम् । नोपतिष्ठति तच्छ्रेयो दातुः प्रेतस्य निष्फलम् ॥
एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥

गरुडपुराण/प्रेतकाण्ड (धर्मकाण्ड)/१३/७ – ८

शुभे लग्ने मुहूर्ते वा शुचौ देशे समाहितः । ब्राह्मणं तु समाहूय विधिज्ञं शुभलक्षणम् ॥
जपहोमैस्तथा दानैः कुर्याद्दहेस्य शोधनम् । पुण्येऽभिजित्सुनक्षत्रे ग्रहान्देवान्समर्चयेत् ॥
होमं कुर्याद्यथाशक्ति मन्त्रैश्च विविधैरपि । ग्रहाणां स्थापनं कुर्यात्पूर्वं चैव खगेश्वर ॥
मातॄणां पूजनं कार्यं वसोर्धारां च पातयेत् । वह्निं संस्थाप्य तत्रैव पूर्णं होमं तु कारयेत् ॥
शालग्रामं च संस्थाप्य वैष्णवं श्राद्धमाचरेत् । वृषं सम्पूज्य तत्रैव वस्त्रालङ्कारभूषणैः ॥

चतस्रो वत्सतर्यश्च पूर्वं समधिवासयेत् । प्रदक्षिणं ततः कुर्याद्धोमान्ते च विसर्जनम् ॥
इमं मन्त्रं समुच्चार्य उत्तराभिमुखः स्थितः । धर्म त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा ॥
तवोत्सर्गप्रभावान्मामुद्धरस्वभवार्णावात् । अभिषिच्य शुभैर्मन्त्रैः पावनैर्विधिपूर्वकम् ॥
तनक्रीडन्तिमन्त्रेण वृषोत्सर्गं तु कारयेत् । अभिषिञ्चेत्ततो नीलं रुद्रकुम्भो दकेन तु ॥
नाभिमूले समास्थाय तदम्बु मूर्धनि न्यसेत् । अन्न श्राद्धं ततः कुर्याद्दद्याद्दानं द्विजोत्तमे ॥

उदकेचैव गन्तव्यं जलं तत्र प्रदापयेत् । यदिष्टं जीवतस्त्वासीत्तच्च दद्यात्स्वशक्तितः ॥
न्यूनं संपूर्णतां याति वृषोत्सर्गे कृते सति । सुतृप्तो दुस्तरे मार्गे मृतो याति न संशयः ॥
यमलोकं न पश्यन्ति सदा दानरता नराः । यावन्न दीयते जन्तोः श्राद्धं चैकादशाहिकम् ॥
स्वदत्तं परदत्तं वा नेहामुत्रोपतिष्ठति । त्रयोदशा तथा सप्त पञ्च त्रीणी क्रमेण तु ॥
पददानानि कुर्वीत श्रद्धाभक्तिसमन्वितः । तिलपात्राणि कुर्वीत सप्त पञ्च यथाक्रमम् ॥

ब्राह्मणान्भोजयेत्पश्चादेकां गां च प्रदापयेत् । वृषं हि शन्नोदेवीति वेदोक्तविधिना ततः ॥
चतसृभिर्वत्सतरीभिः परिणयनमाचरेत् । वामे चक्रं प्रदातव्यं त्रिशूलं दक्षिणे तथा ॥
मूल्यं दद्याद्वृषस्यापि तं वृषं च विसर्जयेत् । एकोद्दिष्टविधानेन स्वाहाकारेण बुद्धिमान् ॥
कुर्यादेकादशाहं च द्वादशाहं च यत्नतः । सपिण्डीकरणादर्वाक्कुर्याच्छ्राद्धानि षोडश ॥

गरुडपुराण/प्रेतकाण्ड (धर्मकाण्ड)/१४/२० – ३८

पात्रासादनं श्रपणमुपयमनकुशादिकम् । पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु ॥
आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत् । प्रथमेऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः ॥
आघारावाज्यभागौ तु पायसेनाङ्गदेवताः । अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय ॥
भवाय महादेवायेशानाय यमाय च। पिष्टकेन सकृद्धोमं पूषागा इति मन्त्रतः ॥

उभयोः स्विष्टिकूद्धोमश्चरुणा पायसेन च। प्रथमं व्याहृतिहोमः प्रायश्चित्तं प्रजापतिः ॥
संस्त्रवप्राशनं कुर्यात्प्रणीतापरिमोक्षणम्। पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणा ततः ॥
षडङ्गरुद्रजाप्येन प्रोतो मोक्षमवाप्नुयात्। एकवर्णं वृषञ्चैव सकृद्वत्सतरीं खग ॥
स्नापयित्वा ततः कुर्यात्सर्वालङ्कारभूषितम्। प्रतिष्ठाप्य च तद्युग्मं प्रेतो मोक्षमवाप्नुयात् ॥

पुच्छेच तर्पणं कार्यमुच्छ्रिते मन्त्रपूर्वकम् । ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥
ततः श्राद्धं समुद्दिष्टमेकोद्दिष्टं यथाविधि । जलमन्नं तथा देयं प्रेतोद्धरणहेतवे ॥
द्वादशाहे ततः कुर्यान्मासेमासे पृथक्पथक् । एवं विधिः समायुक्तः प्रेतमोक्षे करोति हि ॥

गरुडपुराण/प्रेतकाण्ड (धर्मकाण्ड)/४१/४ – १३

स्कन्दपुराण

एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः। प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥
पुनरेव सुसर्पंतं दृष्ट्वा नीलं महावृषम्। स्वल्पक्रोधसमाविष्टं द्विजाश्चक्रुस्तमं कितम् ॥
चक्रं च वामभागेषु शूलं पार्श्वे च दक्षिणे। उत्ससृजुर्गवां मध्ये तं देवैर्गोपितं तदा ॥

स्कन्दपुराण/६ (नागरखण्डः)/२५९/७१ – ७४

कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप । रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः ॥
वृषस्यैव समुत्सर्गं कारयेत्प्रीयतां हरः । सांनिध्ये कारयेत्पुत्र चतस्रो वत्सिकाः शुभाः ॥
दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः । प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः ॥
वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप । तावद्वर्षप्रमाणं तु शिवलोके महीयते ॥
शिवलोके वसित्वा तु यदा मर्त्येषु जायते । कुले महति सम्भूतिर्धनधान्यसमाकुले ॥
नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक्शुचिः । गोप्रेक्षेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर ॥

स्कन्दपुराण/५ (अवन्तीखण्डः)/रेवा खण्ड/७३/१८ – २३

विष्णुधर्मोत्तरपुराण

आश्वयुक्कृष्णपक्षस्य पञ्चदश्यां नराधिप । कार्तिकेप्यथवा मासि वृषोत्सर्गं तु कारयेत् ॥
ग्रहणे द्वे महापुण्ये तथा चैवायनद्वयम् । विषुवद्द्वितयं चैव मृताहो बान्धवस्य च ॥
मृताहो यस्य तस्यार्थे तस्मिन्नहनि शङ्करम् । सुसमिद्धे गवां मध्ये परिस्तीर्य हुताशनम् ॥
पयसा श्रपयेद्विद्वाँश्चरुं पौष्णं समाहितः । पूषा गा अन्वेतु नश्च पूष्णे हुत्वा नराधिप ॥
इह राडिति हुत्वा च जपेद्रुद्रान्समाहितः । तथैव पौरुषं सूक्तं कूष्माण्डानि नराधिप ॥

ततः कोष्णेन वृषभमयस्कारः सुशिल्पवान् । शूलेन दक्षिणे पार्श्वे वामे चक्रेण निर्दहेत् ॥
अङ्कितं स्नापयेत्पश्चात्स्नाने तस्य तथा पठेत् । हिरण्यवर्णेति ऋचश्चतस्रो मनुजेश्वर ॥
आपो हिष्ठेति तिस्रश्च शन्नोदेवीति चाप्यथ। वत्सतर्यश्चतस्रश्च तं वृषं च नराधिप॥
अलङ्कुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः। किङ्किणीभिश्च रम्याभिस्तथा चीनांशुकैः शुभः ॥
ततः कर्ता जपेन्मन्त्रमिमं प्रयतमानसः । वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ॥
वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥

एवं युवानं वृषभं ददामि गवां पतिं यूथपतिं सधर्मम् ।
अनेन सार्धं चरत प्रकामं यथा तथा प्राप्नुत वत्सतर्यः ॥
एवं युवानं गोपतिं वो ददामि अनेन क्रीडन्तीश्चरतीः प्रियेण ।
सहास्माभिः प्रजया मा तनूभिर्मा वधाम द्विषतं सोमराजन् ॥
मन्त्रं पिता वत्स इति प्रतीतं जपेत कर्णे वृषभस्य सव्ये ।
प्रचालयेत्तं वृषभं ततस्तु पूर्वां दिशं वत्सतर्यश्च सर्वाः ॥
वासोयुगं ग्रहीतुरथ प्रदेयं सुवर्णयुक्तं सघृतं च कांस्यम् ।
शिल्पप्रधानस्य तथैव सत्यं देयं यथा तुष्टिमुपैति राजन् ॥

विष्णुधर्मोत्तरपुराण/१/१४७/१ – १४

वृषोत्सर्ग विधान
वृषोत्सर्ग विधान

मत्स्यपुराण

चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारस सवर्णश्च तं नीलमिति निर्दिशेत्॥
वृष एष स मोक्तव्यो न सन्धार्यो गृहे भवेत् । तदर्थमेषा चरति लोके गाथा पुरातनी॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयांव्रजेत् । गौरीञ्चाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥

मत्स्यपुराण/२०७/३८ – ४१, विष्णुधर्मोत्तरपुराण/ खण्डः १/१४६

सूतकान्ताद्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम्। काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्विताम्॥
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः। वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा॥
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः। यावदब्दं नरश्रेष्ठ!। सतिलोदकपूर्वकम्॥

मत्स्यपुराण/१८/१२ – १५

भविष्यपुराण

मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ॥
मातृश्राद्धं ततः कुर्यात्सदाभ्युदयकारकम्। अकालमूलं कलशमश्वत्थदलशोभितम् ॥
तत्र विद्वाञ्जपित्वा तु स्थापयेद्रुद्रदेवताम् । सुसमिद्धं ततः कृत्वा वह्निमंत्रपुरःसरम् ॥
अथैनं जुहुयात्षड्भिः पृथगाहुतिसंज्ञितैः । पौष्यामंत्रैस्ततः पश्चाद्धुत्वा वह्निं यथाविधि ॥।
एकवर्णं द्विवर्णं वा रोहितं श्वेतमेव वा । जीवद्वत्सपयस्विन्याः ऽन्नं सर्वांगसुन्दरम् ॥

चतस्रो वत्सतर्यश्च ताभिः सार्धमलंकृतम्। तासां कर्णे जपेद्विप्रः पतिं वो बलिनं शुभम् ॥
समितास्तेन सहिताः क्रीडध्वं हृष्टमानसाः । ततो वामे त्रिशूलं च दक्षिणे चक्रमालिखेत्॥
अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना। पुष्पमालाकृतग्रीवं सितवस्त्रैश्च च्छादितम् ॥
विमुंचेद्वत्सकाभिश्च नीलाभिर्बलिनं वृषम् । देवालये गोकुले वा नदीनां संगमेऽथ वा ॥

भविष्यपुराण/४ (उत्तरपर्व)/१३१/४ – १२

अन्यान्य

सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते । दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥
तत्फलञ्चाक्षयं प्रोक्तं वृषभस्य तु मोक्षणे।
धर्मोऽसित्वञ्चतुष्पादश्चतस्रस्ते प्रिया इमाः ॥ नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ॥
त्वयिमुक्तेऽक्षयालोका मम सन्तुनिरामयाः । मा मे ऋणोऽस्तु दैवत्यो भौतः पैत्रोऽथमानुषः ॥
धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा । अङ्कयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ॥
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकात्तु षण्मासे चाब्दिकादिषु ॥

अग्निपुराण/२११/८ – १३

एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ॥
नारदपुराण/पूर्वार्द्ध/१४/८६

फलं वृषस्य वक्ष्यामि गदतो मे निबोधत। वृषोत्स्रष्टा पुनात्येव दशातीतान्दशावरान् ॥
यत्किञ्चित्स्पृश्यते तोयैरुत्तीर्णेन जलान्महीम्। वृषोत्सर्गे पितॄणां तु ह्यक्षयं समुदाहृतम् ॥
यद्यद्धि संस्पृशेत्तोयं लांगूलादिभिरन्ततः। सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ॥
श्रृङ्गैः खुरैर्वा यद्भूमिमिल्लिखत्य निशं वृषः। मधुकुल्याः पितॄंस्तस्य अक्षयास्ता भवन्ति वै ॥
सहस्रनल्वमात्रेण तडागेन यथा श्रुतिः। तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ॥

वायुपुराण/उत्तरार्ध/२१/१६ – २०

रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोषायै त्वातिसृजामि ॥ कौशिकसूत्र ३,७{२४}.२० ॥
एतं वो युवानम् (९.४.२४) इति पुराणं प्रवृत्य नवमुत्सृजते सम्प्रोक्षति ॥ कौशिकसूत्र ३,७{२४}.२१ ॥]

अभ्यातानान्तं कृत्वाऽइन्द्रस्य कुक्षिःऽ इत्यृचा ऋषभं सम्पात्य विवाहवतग्निपरिणयनं कृत्वा सह वत्सतरीभिर्विसर्जयति ।ऽरेतोधायैऽ इति षट् ।ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणम् । ततः प्रोक्षणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वाऽसाहस्रःऽ इत्यर्थसूक्तेन वृषभं सम्पात्य विवाहवत्सर्वं कृत्वा विसर्जयति ।ऽरेतोधायैऽ इत्येतैः ।ऽएतं वो युवानम्ऽ इत्यृचाभिमन्त्रणं वत्सस्य । अभ्यातानाद्युत्तरतन्त्रम् । यदा एकादशाहे वृषोत्सर्गं करोति तदा शान्त्युदकं कृत्वा ततो वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वाऽदेवपितृऋषिभ्योऽहं ददे ऋषभम्ऽ उच्चारयति ॥
कौशिक पद्धतिः/वृषोत्सर्गविधि

स्मृति मुक्ताफल

“स्मृति मुक्ताफल” में वृषोत्सर्ग विषयक ढेरों प्रमाणों का संकलन मिलता है :

उत्सृजेत् वृषभं नीलं लोहितं कृष्णमेव वा । मृतो न पश्येन्नरकं गोघाती ब्रह्महा ह्यपि ॥
पुत्रो वा भ्रातृपुत्रो वा मृतस्यैकादशेऽहनि । उत्सृज्येत् वृषभं नीलं यथावर्णमसंभवे ॥
प्रेतत्वात्प्रतिमुच्यंते महापातकिनो नराः ॥

(स्मृति मुक्ताफल)

एकादशेऽन्हि संप्राप्ते प्रेतस्य स्वर्गसाधनम् । वृषमेकं समुत्सृज्य श्राद्धे विप्रांस्तु भोजयेत् ॥
व्यास (स्मृति मुक्ताफल)

नीलं वाऽप्यथ वा कृष्णं मृतस्यैकादशेऽहनि ॥
वृषं पापविशुध्यर्थं रुद्राणामनुशासनात् । होमकर्मसमायुक्तं रुद्रप्रीतिकरं त्यजेत् ॥
एकादशेऽन्हि संप्राप्ते यस्य नोत्सृज्यते वृषः । प्रेतत्वान्न विमुच्येत दत्तैः श्रर्द्धशतैरपि ॥
विप्रो वा क्षत्रियो वाऽपि वैश्यः शूद्रोऽपि वा तथा । वृषहीनो मृतो याति रौरवं तमसावृतम् ॥
सप्तजन्मकृतं पापं यद्बाल्ये यच्च वार्धके । तत्क्षणादेव नश्येत वृषोत्सर्गे पितुः कृते ॥
पितृनुद्दिश्य रुद्राय होमकर्मसमन्वितम् । उत्सर्गमात्रे रुद्रस्य लोकं यात्यत्र मानवः ॥

काश्यप (स्मृति मुक्ताफल)

एकादशेऽन्हि संप्राप्ते स्नात्वा पुण्याहवाचनम् । कृत्वा चरेद्वृषोत्सर्गं कुर्याच्छ्राद्धं ततः परम् ॥
शूलं चक्रमथान्यद्वा लांछनं कारयेत्ततः । यस्य देवस्य यो भक्तस्तस्य चिन्हं समालिखेत्॥
स्वस्वेष्टदेवताचिह्नं पश्चिमद‌क्षिणपादमूले तप्तेनायसेन विलिखेत् ॥

हेमाद्रि (स्मृति मुक्ताफल)

अथ वृषोत्सर्जनम् । तच्च द्विविधं काम्यं नैमित्तिकमिति । नैमित्तिकमेकादशाह्निकमिति ॥
काम्यं कार्तिक्यां वैशाख्यां ग्रहणे संक्रमे वा
; इति ॥
बौधायन (स्मृति मुक्ताफल)

एकादशाहे षण्मासे त्रिपक्षेऽब्दे तथैव च । वृषोत्सर्गं तु कुर्वीत परस्तादुक्तकालिकः ॥
पूर्वभागेऽथवा मध्ये दिनस्य वृषमुत्सृजेत् ॥
कार्तिक्यां पौर्णमास्यां वा वैशाख्या वाऽपि वा वृषम् । उत्सृजेल्लक्षणैर्युक्तं देवर्षिपितृतृप्तये ॥
उत्सृजेद् वृषभं नीलं पौर्णमास्यां तु वत्सकम् । कार्तिक्यामाश्वयुज्यां वा वैशाख्यां प्रातरेव तु ॥
एकादशाहादन्यत्र प्रोक्तकालेषु यत्नतः । वृषोत्सर्गे तदा शुक्रबाल्यमौढ्यं न दोषकृत् ॥
प्रेतस्य वत्सरार्वाग्यदा संस्कारमिच्छति । न कालनियमो ज्ञेयो न मौढ्यं गुरुशुकयोः ॥
पतिपुत्रवती नारी म्रियते चोभयाग्रतः । वृषं नैवोत्सृजेत्पुत्रो यावत्स्वपितृजीवितम् ॥

(स्मृति मुक्ताफल)

पतिव्रता सुशीला च पुत्रिणी सुभगा मृता । नोत्सृजेद् वृषमेकं तु सह गामुत्सृजेद्वृषम् ॥
पुत्रादन्यो यदा तस्याः श्राद्धकर्ता भवेद्यदि । तदैव वृषमुत्सृज्य पश्चाच्छ्राद्धं समाचरेत् ॥

जाबालि (स्मृति मुक्ताफल)

या नारी भर्तृसुतयोरग्रे तु प्रमितिं गता । तस्या अपि वृषोत्सर्गः कर्तव्यस्तु यथाविधि ॥
अपुत्रा तु यदा नारी म्रियते भर्तुरग्रतः । वृषोत्सर्गो न कर्तव्यः एका गौर्दीयते तदा ॥
पतिपुत्रवती नारी मृता चेज्जीवभर्तृका । पातिव्रत्येन तल्लोकं वृषहीना न गच्छति ॥

जीवभर्त्र्यास्तु कर्तव्यं संकल्पश्राद्धमेव हि। पार्वणं च वृषोत्सर्गं कुर्यादायुःक्षयो भवेत् ॥
पितुरुर्ध्वविधिं सम्यक् कृत्वा मातुस्तु पुत्रकः । वृषमुत्सृज्य पश्वाद्धिं । पित्रा सह सपिंडनम् ॥

(स्मृति मुक्ताफल)

स्वर्गकामो वृषोत्सर्गे नांदीमुखविधानतः । श्राद्धं कुर्यात्तदन्यस्तु न कुर्यात्प्रेतमोचकः ॥
एकादशसु विप्रेषु रुद्रानुद्दिश्य भोजयेत् । प्रेतत्वस्य विमोकार्थं मधुक्षीरघृताशनैः ॥
प्रेतत्वस्य विमोक्षार्थं रुद्रान्वा विधिरूपतः । ब्राह्मणान्भोजयेदष्टौ हिरण्येनौदनेन वा ॥

(स्मृति मुक्ताफल)

वृषहीनो मृतो याति रौरवं तमसा वृतम् । उत्सर्गमात्रे रुद्रस्य लोकं यात्यत्र मानवः ॥

कांक्षंति पितरः पुत्रा नरके पातभीरवः । गयां यास्यति यः कश्चित्सोऽस्मान् संतारयष्यति। करिष्यति वृषोत्सर्गमिष्टापूर्तं तथैव च ॥
बृहस्पति (स्मृति मुक्ताफल)

अत्र वृषालाभे प्रचेताः –विहिते च वृषोत्सर्गे त्वलामे शक्त्यसंभवे । प्रेतत्वस्य विमोकार्थं रुद्रानेकादशाशयेत् ॥
(स्मृति मुक्ताफल)

बोधायनश्च (३।१७११) “तासां पयसि पायसं श्रपयित्वा पृथगेकादश ब्राह्मणान्भोजयेत्” इति ।
(स्मृति मुक्ताफल)

एकादशभ्यो विप्रेभ्यो दद्यादेकादशेऽहनि । रुद्रानुद्दिश्य कर्तव्यं रुद्रप्रीतिकरं हि तत् ॥
व्यास (स्मृति मुक्ताफल)

निषेध और विकल्प

अब आगे निषेध और विकल्प का भी विषय आता है और इसके प्रमाणों का भी अवलोकन करना आवश्यक है। क्योंकि यदि निषेध का ज्ञान न हो तो विहित का ज्ञान होना अधूरा ही रहता है और ऐसा ज्ञान भयावह होता है। निषेध प्रकरण में मुख्य पक्ष जो है वो पति और पुत्र से युक्त स्त्री की मृत्यु होने पर वृषोत्सर्ग का नहीं करे ऐसा है अर्थात भाव यह है कि जिसका पिता जीवित हो वह वृषोत्सर्ग न करे और उसकी माता की मृत्यु होने पर वह पुत्र ही श्राद्ध करेगा न कि पति, यदि पुत्र न हो तो पति श्राद्ध करेगा और तब वृषोत्सर्ग हो सकता है।

वृषोत्सर्ग निषेध और विकल्प
वृषोत्सर्ग निषेध और विकल्प

किन्तु पुत्र होने पर पति श्राद्ध नहीं कर सकता और इस अवस्था में वृषोत्सर्ग होगा ही नहीं एवं इसका विकल्प यह कहा गया है कि वृषोत्सर्ग की भांति ही अन्यान्य सभी क्रिया करे केवल वृष के स्थान पर पयस्विनी गोदान करे और चिह्न हेतु चंदनादि का प्रयोग करे। इसी प्रकार अन्यत्र (काम्य) वृषोत्सर्ग हो तो वहां वृद्धिश्राद्ध भी होगा किन्तु एकादशाह को जो नैमित्तिक वृषोत्सर्ग होता है एवं अनिवार्यता से नित्य भी सिद्धि होती है उसमें वृद्धिश्राद्ध नहीं होगा।

पतिपुत्रवती नारी भर्तुरग्रे मृता यदि । वृषोत्सर्गं न कुर्वीत गां दद्याच्च पयस्विनीम् ॥
गरुडपुराण/प्रेतकाण्ड (धर्मकाण्ड)/६/१३१

यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥
विष्णुपुराण (वीरमित्रोदय – समयप्रकाश)

न युक्तश्च वृषोत्सर्गः पिता यावत् तु जीवति । चन्दनेनाङ्कितां धेनुमाचार्य्याय प्रदापयेत् ॥
वशिष्ठ (वाचस्पत्यम्)

पतिपुत्रवती नारी म्रियते भर्त्तुरग्रतः । चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत् ॥
जीवद्भत्रीतु या नारी पुत्रिणी म्रियते यदि । सवत्सामङ्कितां धेनुमाचार्य्याय निवेदयेत् ॥
साध्वी पतिव्रता नारी म्रियते याग्रतस्तयोः । वृषं नैवोत्सृजेत्पुत्रः पिता यावत्तु जीवाति ॥
मृतपुत्रा च या नारी संगृहीता तु या भवेत् । तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते ॥

अपुष्पिता मृता काचित्तस्या धेनुर्विगर्हिता । दद्याद्धेनुं सुतो ज्येष्ठः कनिष्ठो वृषमुत्सृजेत् ॥
ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं विधानतः । हेमशृङ्गींस्मुरै रूप्यैः सुशीलां वस्त्रसंयताम् ॥
कांस्योदरीं ताम्रपृष्ठां घण्टाचामरभूषिताम् । प्रबाल षालिकां दद्यात्कर्णयोरुभयोरपि ॥
चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत् । गवां लोकमवाप्नोतिदिवि देवैश्च मोदते ॥

चन्दनेनाङ्कितां धेनुं दत्त्वागच्छेत्सुरालयम् । तावत्तिष्ठति स्वर्लोके यावदाहूलसंप्लवम् ॥
नचोत्सर्गो वृषस्यात्र वत्सतर्य्यत्वितस्य च । वृषोत्सर्ग विधानेन कर्त्तव्यं सर्वकर्म च ॥
मानस्तोकेति मन्त्रेण दक्षे वषोऽज्यसीति च । धेनोश्च सक्थिदेशे तु त्रिशूलाङ्कं समालिखेत् ॥
वामभागे विशेषोऽयं दक्षे चक्रं समालिखेत् । तत्रान्यद्वर्जयेद्विद्वानाचार्य्यस्तु विधानवित् ॥
ततो वैसंलिखेच्चकं पञ्चाङ्गुलप्रमाणकम् । शूलं षड़ङ्गुलं कार्य्यं दक्षे वामे यथाविधि ॥

पूर्वाशाभिमुखीं धेनुं यजमानोत्तरामुखः। मस्तकादि क्रमेणैव प्रतिमन्त्रः प्रपूजयेत् ॥
एवंविशिष्टां तां धेनुं दत्त्वा तर्पणमारभेत् । पुच्छंगृहीत्वा पित्रादीन् वृर्षोत्सर्गविधानतः ॥
ऐशान्यां चालयेत्किञ्चिदाचार्य्याय च दक्षिणाम् । वृषभञ्च ततो दद्यादाचार्य्याय गुणान्वितम् ॥
पूजयेत् ब्राह्मणांश्चैव वस्त्रमाल्यादिभिस्ततः । कांस्यपात्रं वस्त्रयुग्मं सुवर्णञ्च विशेषतः ॥
एकादशाहे प्रेतायाः षण्मासे चाब्दिके तथा । त्रिपक्षे मासिके वापि दद्याद्गां चन्द्रनाङ्किताम् ॥

वाचस्पत्यम्

युगानुकूल वैकल्पिक वृषोत्सर्ग प्रयोग

निष्कर्ष

निष्कर्ष यह है कि वृषोत्सर्ग केवल एक कर्मकांडी प्रदर्शन नहीं, अपितु मृत आत्मा के प्रेतत्व निवारण का सर्वोपरि और अकाट्य शास्त्रीय साधन है। वर्तमान काल में साक्षात् वृष (सांढ) का लोक में परित्याग करना जहाँ ‘लोकविरुद्ध’ और व्यवस्था के लिए हानिकारक सिद्ध हो रहा है, वहीं शास्त्रों का “नीर-क्षीर विवेक” इसका अत्यंत सुदृढ़ और प्रामाणिक विकल्प प्रदान करता है।

गरुड़ पुराण के वचनानुसार, वृषालाभ या व्यावहारिक असमर्थता की स्थिति में “मृत्तिका (मिट्टी) अथवा दर्भ (कुश) या पिष्ट (चावल का आटा) से वृष की सुंदर आकृति बनाकर” वेदोक्त मन्त्रों से तांत्रिक व मानसिक उत्सर्ग करना ही वर्तमान युग का सर्वश्रेष्ठ शास्त्रसम्मत समन्वय है। इसके अतिरिक्त, पिता के जीवित रहने पर माता की मृत्यु होने पर वृषोत्सर्ग के स्थान पर “चन्दनाङ्किता धेनु” का जो नियम वशिष्ठ और जाबालि स्मृतियों से सिद्ध है, वह इस पद्धति को सर्वथा निर्दोष और लोक-कल्याणकारी बनाता है।

F&Q :

FAQ

प्रश्न १: वृषोत्सर्ग को सामान्यतः श्राद्ध से ही क्यों जोड़कर देखा जाता है, और इसका वास्तविक भेद क्या है

उत्तर: यह जनमानस का भ्रम है कि वृषोत्सर्ग केवल मृत्यु के बाद ही होता है। शास्त्रों में इसके दो भेद हैं—प्रथम ‘काम्य वृषोत्सर्ग’ जो व्यक्ति स्वयं के पुण्य के लिए कार्तिक-वैशाख की पूर्णिमा को गोशाला में करता है, और द्वितीय ‘नैमित्तिक वृषोत्सर्ग’ जो एकादशाह को मृत जीव की प्रेतत्व योनि से मुक्ति के लिए किया जाता है।

प्रश्न २: यदि साक्षात् वृष (सांड) का रास्ते पर परित्याग करना वर्तमान में लोकविरुद्ध और दण्डनीय है, तो इसका क्या शास्त्रीय समाधान है?

वृषोत्सर्ग निषेध और शास्त्रीय समाधान

उत्तर: गरुड़ पुराण के प्रेतकाण्ड (अध्याय ५) में इसका स्पष्ट और प्रामाणिक विकल्प दिया गया है कि वृषाभाव या असमर्थता की स्थिति में दर्भ (कुश), पिष्ट (चावल का आटा) अथवा मृत्तिका (मिट्टी) से वृष की सुंदर आकृति बनाकर वेदोक्त विधि से उसका उत्सर्ग (मोचन) कर देना चाहिए। इससे लोक की रक्षा भी होती है और शास्त्र की मर्यादा भी सुरक्षित रहती है।

प्रश्न ३: यदि मृतका कोई स्त्री (माता) हो और उसका पति जीवित हो, तो क्या पुत्र को वृषोत्सर्ग करना चाहिए?

उत्तर: वशिष्ठ स्मृति और गरुड़ पुराण के अनुसार, यदि पति-पुत्रवती नारी अपने पति से पूर्व मृत्यु को प्राप्त होती है, तो पुत्र साक्षात् वृष का उत्सर्ग नहीं करेगा। उसके स्थान पर चन्दनाङ्किता धेनु (चंदन से अंकित सवत्सा गाय) का आचार्य को दान करने का विधान है।

प्रश्न ४: ‘चन्दनाङ्किता धेनु’ दान की शास्त्रीय विधि क्या है?

उत्तर: इसमें ‘मानस्तोके’ मन्त्र से धेनु के दाहिने भाग पर त्रिशूल और बाएँ भाग पर चक्र का अंकन चन्दन (या रोली) से किया जाता है और वृषोत्सर्ग की ही भाँति पुच्छ-तर्पण आदि समस्त कृत्य करके आचार्य को दान दिया जाता है।

प्रश्न ५: क्या अधिकमास (मलमास) में एकादशाह का वृषोत्सर्ग वर्जित है?

उत्तर: कदापि नहीं। अधिकमास में केवल ‘काम्य वृषोत्सर्ग’ का निषेध है। एकादशाह का वृषोत्सर्ग मृत्यु के निमित्त होने के कारण ‘नैमित्तिक’ कर्म है, जो मलमास में भी पूर्णतः विहित और आवश्यक है।

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply