शास्त्रों में स्पृश्यास्पृश्यता विचार: शुद्धि-मर्यादा, स्पर्श-निषेध और प्रायश्चित्त का संपूर्ण शास्त्रीय प्रमाण संग्रह

शास्त्रों में स्पृश्यास्पृश्यता विचार: शुद्धि-मर्यादा, स्पर्श-निषेध और प्रायश्चित्त का संपूर्ण शास्त्रीय प्रमाण संग्रह शास्त्रों में स्पृश्यास्पृश्यता विचार: शुद्धि-मर्यादा, स्पर्श-निषेध और प्रायश्चित्त का संपूर्ण शास्त्रीय प्रमाण संग्रह

“म्लेच्छ के साथ एक सभा में बैठने या स्पर्श होने पर सचैल स्नान और एक दिन के उपवास का नियम है।” – देवल स्मृति

संकलित प्रमाणों के आधार पर प्रस्तुत आलेख “शास्त्रों में स्पृश्यास्पृश्यता: प्रामाणिक श्लोक एवं प्रायश्चित्त संग्रह” सनातन आचार-मीमांसा, काय-शुद्धि और स्पर्श-अस्पर्श के शास्त्रीय नियमों की एक अत्यंत सूक्ष्म और अमूल्य संकलन शृंखला है। सनातन परंपरा में ‘स्पर्श’ केवल भौतिक क्रिया नहीं, बल्कि सूक्ष्म तरंगों, आध्यात्मिक तेज और ऊर्जा के विनिमय का विज्ञान है, जिसे ऋषियों ने स्मृतियों (मनु, अत्रि, आपस्तम्ब, देवल, पराशर आदि) में अत्यंत विस्तार से प्रतिपादित किया है। शास्त्रों में इस विषय को सर्वत्र गंभीरता से स्पष्ट किया गया है किन्तु नारकीय प्राणी विधर्मियों के कुचक्र स्वयं ही नहीं फंसते औरों को भी फंसाते रहते हैं।

शास्त्रों में स्पृश्यास्पृश्यता विचार: शुद्धि-मर्यादा, स्पर्श-निषेध और प्रायश्चित्त का संपूर्ण शास्त्रीय प्रमाण संग्रह

इस विषय से संबंधित प्रमाणों को संकलित करने का उद्देश्य यह है कि वर्त्तमान में ढेरों ऐसे कुकर्मी-नारकीय प्राणी देखने को मिलते हैं जो कहते हैं कि शास्त्रों में ऐसा कहीं नहीं लिखा है। ये सब अंग्रेजों ने समाज को तोड़ने के लिये क्या था क्योंकि उसकी नीति “फूट डालो – राज करो” थी।

जो भी ऐसे धूर्त हैं वो प्रथम तो अज्ञानी हैं अथवा यदि शास्त्रों का अध्ययन करके बोलते हैं तो शास्त्रदस्यु हैं। अधिकांश लोग ऐसे शास्त्रदस्युओं के कहे-सुने को लेकर कूद जाते हैं। ऐसे लोगों के लिये इस विषय के कुछ प्रमाणों का यहां संकलन किया गया है और जब कहें कि कहां लिखा है तो उनके तत्काल ही पूछना चाहिये कि तुमने कहां निषेध देखा है। क्योंकि शास्त्रों में प्रमाण हो भरे-पड़े हैं कुछ अध्ययन नहीं किया तो तुम्हारी अज्ञानता है न, यदि तुम स्वयं अज्ञानी हो तो दूसरों को ज्ञान की घूंटी क्यों पिलाने लगते हो ?

शास्त्रों में स्पृश्यास्पृश्यता विचार: शुद्धि-मर्यादा, स्पर्श-निषेध और प्रायश्चित्त का संपूर्ण शास्त्रीय प्रमाण संग्रह

मनु स्मृति

चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च । रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ॥
होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते । दैवे हविषि पित्र्ये वा तद्गच्छत्ययथातथम् ॥
घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः । श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥

मनु स्मृति/३/२३९ – २४१

नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् । नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ॥

मनु स्मृति/४/६० – ६१

न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः ॥
केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् । शिरःस्नातश्च तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥

मनु स्मृति/४/८२ – ८३

अत्रि संहिता

शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते । तदुच्छिष्टं तु संप्राश्य षण्मासान्कृच्छ्रमाचरेत् ॥
असंस्पृष्टेन संस्पृष्टः स्नानं तेन विधीयते । तस्य चोच्छिष्टमश्नीयात्षण्मासान्कृच्छ्रमाचरेत् ॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमहन्ति त्रयो वर्णा द्विजातयः ॥
वपनं मेखलादण्डं भैक्षचर्यव्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥

गृहशुद्धिं प्रवक्ष्यामि अत्यश्वशवदूषिताम् । प्रायोज्यं मृन्मयं भाण्डं सिद्धमन्नं तथैव च ॥
गृहान्निष्क्रम्य तत्सर्वं गोमयेनोपलेपयेत् । गोमयेनोपलिप्याथ च्छागेनाऽऽघ्रापयेत्पुनः ॥
ब्राह्मैर्मन्त्रैस्तु पूतंतु हिरण्यकुशवारिभिः । तेनैवाभ्युक्ष्य तद्वेश्म शुध्यते नात्र संशयः ॥
अत्रि संहिता ७३ – ७९

मृतसंजर्ननादूर्ध्वं सूतकादौ विधीयते । स्पर्शनाचमनाच्छुद्धिः सूतिकां चेन्न संस्पृशेत् ॥
पञ्चमेऽहनि विज्ञेयः संस्पर्शः क्षत्रियस्य तु । सप्तमेऽहनि वैश्यस्य विज्ञेयं स्पर्शनं बुधैः ॥
दशमेऽहनि शूद्रस्य कर्तव्यं स्पर्शनं बुधैः । मासेनैवाऽऽत्मशुद्धिः स्यात्सूतके मृतके तथा ॥
अत्रि संहिता ९९ – १०१

केशकीटनखस्नायु अस्थिकण्टकमेव च । स्पृष्ट्वा नद्युदके स्नात्वा घृतं प्राश्य विशुध्यति ॥ 
मत्स्यास्थिजम्बुकास्थीनि नखशुक्तिकपर्दिकाः । स्पृष्ट्वा स्नात्वा हेमतप्तघ्घृतं पीत्वा विशुध्यति ॥

अत्रि संहिता १९० – १९१

देवयात्राविवाहेषु यज्ञप्रकरणेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते ॥
अत्रि संहिता २४९

महापातकसंस्पृष्टः स्नानमेव विधीयते । संस्पृष्टस्य यदा भुङ्क्ते स्नानमेव विधीयते ॥
अत्रि संहिता २५९

उच्छिष्टेन तु संस्पृष्टो ब्राह्मणो ब्राह्मणेन यः । भोजने मूत्रचारे च शङ्खस्य वचनं यथा ॥
स्नानं ब्राह्मणसंस्पर्शे जपहोमौ तु क्षत्रिये । वैश्ये नक्तं च कुर्वीत शूद्रे चैव उपोषणम् ॥
चर्मको रजको वैण्यो धीवरो नटकस्तथा । एतान्स्पृष्ट्वा द्विजो मोहादाचामेत्प्रयतोऽपि सन् ॥
एतैः स्पृष्टो द्विजो नित्यमेकरात्रं पयः पिवेत् । उच्छिष्टैस्तैस्त्रिरात्रं स्याद्घृतं प्राश्य विशुध्यति ॥
यस्तुच्छायां श्वपाकस्य ब्राह्मणस्त्वधिगच्छति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥

अत्रि संहिता २८४ – २८९

बृहद्यम स्मृति

ब्राह्मणस्तु शुना दष्टो जम्बूकेन वृकेण वा । उदिते ग्रहनक्षत्रे दृष्ट्वा सद्यः शुचिर्भवेत् ॥
बृहद्यम स्मृति १/२

अस्तं गते यदा सूर्ये चाण्डालमृतुमत्स्त्रियः । संस्पृशेत्तु यदा कश्चित्प्रायश्चित्तं कथं भवेत् ॥
जातरूप्यं सुवर्णं तु दिवाऽऽहृतं च यज्जलम् । तेन स्नात्वा च पीत्वा च गामालभ्य विशुध्यति ॥

बृहद्यम स्मृति ३/८ – ९

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥
उच्छिष्टभाजनं येन विप्रेण चान्नवर्जितम् । स्पृष्टं तेन प्रमादाच्च प्राजापत्यं समाचरेत् ॥
उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन हि । दशरुद्रीं जपेत्पश्चागायत्र्या शोधनं परम् ॥
उच्छिष्टोच्छिष्टसंस्पृष्टः क्षत्रियो वैश्य एव च । प्रमादोच्छिष्टसंस्पृष्टः शूद्रेण तु यदा द्विजः ॥
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति । श्वानकुक्कुटमार्जाराः काको वा स्पृशते यदि ॥

उच्छिष्टं तं द्विजं यस्तु अहोरात्रेण शुध्यति । पञ्चगव्येन शुद्धिः स्यादित्याह भगवान्यमः ॥
रजस्वलां स्पृशेद्यस्तु त्रिरात्रं तत्र कारयेत् । उपोष्य द्विजसंस्कारं पञ्चगव्येन शुध्यति ॥
उदक्यादृष्टिपातेन श्रुतशब्देन चैव हि । स्नानं देवार्चनं दानं हवनं च प्रणश्यति ॥
रक्तवस्त्रस्य विक्रेता लाक्षारजकमेव च । वेणुजीवनकैवर्ततक्षचर्मोपजीविनः ॥
एतेषां स्पर्शनात्पापं तथा चैव तु मोहितः । प्रतिग्रहाच्च विप्रो वै नरकं प्रतिगच्छति ॥
उदक्याः स्पर्शने चैव ब्राह्मणो वै प्रमादतः । षड्रात्रोपोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥

बृहद्यम स्मृति ३/४४ – ५४

स्पृष्ट्वा रजस्वलाऽन्योन्यं सगोत्रा चान्यगोत्रका । कामादकामतो वाऽपि त्रिरात्राच्छुद्धिरिष्यते ॥
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा । अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्रे तथोत्तरा ॥
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यिनी तथा । पादहीनं चरेत्पूर्वा पादमेकं तथोत्तरा ॥
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रिणी तथा । कृच्छ्रेण शुध्यते शूद्री ब्राह्मी दानेन शुध्यति ॥
विप्रः स्पृष्टो निशायां तूदक्यया पतितेन वा । दिवाऽऽनीतेन तोयेन स्नापयेदग्निसंनिधौ ॥
दिवा चैवार्कसंस्पृष्टं रात्रौ नक्षत्रदर्शनात् । संध्ययोरुभयोर्वाऽपि पवित्रं सर्वदा जलम् ॥

बृहद्यम स्मृति ३/६५ – ७०

वृद्धशातातप स्मृति

चाण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे कुरुते द्विजः । त्रिरात्रं तत्र कुर्वीत भुक्तोच्छिष्टस्तदाचरेत् ॥
उदक्या सूतिका चैव ह्यन्त्यजा स्पृशति द्विजम् । त्रिरात्रेणैव शुध्येत इति शातातपोऽब्रवीत् ॥
रजस्वला यदा स्पृष्टा चाण्डालान्त्यजवायसैः । तावतिष्ठेन्निराहारा स्नात्वा कालेन शुध्यति ॥
रजस्वले च द्वे नार्यावन्योन्यं स्पृशतो यदि । सुवर्णपञ्चगव्येन स्नात्वा शुद्धिमवाप्नुयात् ॥

रजस्वलायाः प्रेतायाः संस्कारादीनि नाऽऽचरेत्। ऊर्ध्वं त्रिरात्रतः स्नातां शवधर्मेण दाहयेत् ॥
चाण्डालं पतितं व्यङ्गमुन्मत्तं शवमन्त्यजम् । शृगालं सूतिकां नारीं रजसा च परिप्लुताम् ॥
श्वकुक्कुटवराहांश्च ग्राम्यान्स्पृशति मानवः । सचैलं सशिरः स्नात्वा तदानीमेव शुध्यति ॥
अशुद्धः स्वयमप्येतानशुद्धांश्च यदा स्पृशेत् । विशुध्यत्युपवासेन शातातपवचो यथा ॥

उच्छिष्टं स्पृशते विप्रो यदाऽशुद्धं च मानवः । अहोरात्रोषितः स्नात्त्वा पञ्चगव्येन शुध्यति ॥
आदित्येऽस्तमिते रात्रावस्पृश्यं स्पृशते यदि । भगवन्येन शुद्धिः स्यात्तन्मे ब्रूहि विनिश्चितम् ॥
अनस्तमित आदित्ये संगृहीतं तु यज्जलम् । तेन सर्वात्मना शुद्धिः शवस्पृष्टं न शुध्यति ॥
स्वाभिप्रायकृतं कर्म यत्किञ्चिज्ज्ञानवर्जितम् । क्रीडाधर्मेण बालानां तत्सर्वं निष्प्रयोजनम् ॥
विना धर्मेण शास्त्रेण प्रायश्चित्तं प्रदीयते । न तेन शुद्धिमामोति प्रायश्चित्ते कृते सति ॥

अनधीत्य धर्मशास्त्रं प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतस्तत्पापं पर्षदं व्रजेत् ॥
गोभूहिरण्यहरणे स्त्रीसंबन्धकृतेषु च । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥
अथ कश्चित्प्रमादेन म्रियतेऽग्न्युदकादिभिः । तस्याऽऽशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥
ऋतौ तु गर्भशङ्कायां स्नानं मैथुनिनः स्मृतम् । ऋतुं विना यदा गच्छेच्छौचं मूत्र पुरीषवत् ॥
तावदेवाशुची स्यातां दंपती शयनं गतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥

उच्छिष्टं संस्पृशेद्यस्तु ह्येक एव स दुष्यति । तं स्पृष्ट्वाऽन्यं न दुष्येत सर्ववर्णेष्वयं विधिः ॥
शोधितार्ना तु पात्राणां यद्येकमुपहन्यते । तावन्मात्रस्य तच्छौचं नेतरेषामिति स्थितिः ॥
पिण्याकाश्चैव तेक्राम्बु सक्तवः प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रसौम्योऽयमुच्यते ॥
एषामेव त्रिरभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥

वृद्धशातातप स्मृति १७ – ३८

यम स्मृति

यो भुञ्जानोऽशुचिर्वाऽपि चण्डालं पतितं स्पृशेत् । क्रोधादज्ञानतो वाऽपि तस्य वक्ष्यामि निष्कृतिम् ॥
षड्रात्रं वा त्रिरात्रं वा यथासंख्यं समाचरेत् । स्नात्वा त्रिषवणं विप्रः पञ्चगव्येन शुध्यति ॥

यम स्मृति २ – ३

चण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे तु कृते द्विजः । त्रिरात्रं तु प्रकुर्वीत भुक्त्वोच्छिष्टः षडाचरेत् ॥
उदक्यां सूतिकां वाऽपि संस्पृशेदन्त्यजो यदि । त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ॥
रजस्वला तु संस्पृष्टा श्वमातङ्गगादिवायसैः । निराहारा शुचिस्तिष्ठेत्कालस्नानेन शुध्यति ॥

रजस्वले यदा नार्यावन्योन्यं स्पृशते क्वचित् । शुध्यतः पञ्चगव्येन ब्रह्मकूर्चेन चोपरि ॥
उच्छिष्टेन च संस्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुद्धिमाप्नोति शूद्रा दानोपवासतः ॥
अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥

यम स्मृति १० – १५

चण्डालश्वपचेः स्पृष्टे निशिस्नानं विधीयते । न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुध्यति ॥
अथ वसेद्यदा रात्रावज्ञानादविचक्षणः । तदा तस्य तु तत्पापं शतधा परिवर्तते ॥

यम स्मृति ६४ – ६५

चण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे तु कृते द्विजः । त्रिरात्रं तु प्रकुर्वीत भुक्त्वोच्छिष्टः षडाचरेत् ॥
उदक्यां सूतिकां वाऽपि संस्पृशेदन्त्यजो यदि । त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ॥
रजस्वला तु संस्पृष्टा श्वमातङ्गगादिवायसैः । निराहारा शुचिस्तिष्ठेत्कालस्नानेन शुध्यति ॥

रजस्वले यदा नार्यावन्योन्यं स्पृशते क्वचित् । शुध्यतः पञ्चगव्येन ब्रह्मकूर्चेन चोपरि ॥
उच्छिष्टेन च संस्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुद्धिमाप्नोति शूद्रा दानोपवासतः ॥
अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥

यम स्मृति १० – १५

लिखित स्मृति

उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणन्तु कदाचन । तत्क्षणात्कुरुते स्नानमाचमेन शुचिर्भवेत् ॥
लिखित स्मृति ७८

चण्डालोदकसंस्पर्शे स्नानं येन विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥
लिखित स्मृति ८३

रजस्वला यदा स्पृष्टा श्वानसूकरवायसैः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥
आजानुतः स्नानमात्रमानाभेस्तु विशेषतः । अत ऊर्ध्वं त्रिरात्रं स्यान्मदिरा स्पर्शने मतम् ॥

लिखित स्मृति ८७ – ८८

संवर्त स्मृति

कृत्वा मूत्रपुरीषे तु भुक्तोच्छिष्टस्तथा द्विजः । श्वादिस्पृष्टो जपेद्देव्याः सहस्रं स्नानपूर्वकम् ॥
चण्डालं पतितं स्पृष्ट्वा शवमन्त्यजमेव च । उदक्यां सुतिकां नारीं सवासाः स्नानमाचरेत् ॥
स्पृष्टेन संस्पृशेद्यस्तु स्नानं तस्य विधीयते । ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥
चण्डालाद्यैस्तु संस्पृष्टः उच्छिष्टश्चे‌द्विजोत्तमः । गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ॥

शुना पुष्पवती स्पृष्टा पुष्पवत्याऽन्यया तथा। शेषाण्यहान्युपवसेत्स्नात्वा शुध्येद्घृताशनात् ॥
चाण्डालभाण्डसंस्पृष्टं पिबेत्कृपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्रेण विशुध्यति ॥
अन्त्यजैः स्वीकृते तीर्थे तडागेषु नदीषु च । शुध्यते पञ्चगव्येन पीत्वा तोयमकामतः ॥
सुराघटप्रपातोयं पीत्वा नासाजलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं पिबेद्विजः ॥

संवर्त स्मृति/१८० – १८७

बौधायन स्मृति

नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्षं नित्यं मेध्यमिति श्रुतिः ॥
वत्सः प्रस्रवणे मेध्यः शकुनिः फल पातने । स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥
आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् । अदूष्याः सतता धारा वातोद्धूताश्च रेणवः ॥
अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः । तेषामपि न दुष्यन्ति पुष्पाणि च फलानि ॥

चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम् । एतानि ब्राह्मणः स्पृष्ट्वा सचैलो जलमाविशेत् ॥
आत्मशय्याऽऽसनं वस्त्रं जायाऽपत्यं कमण्डलुः । शुचीन्यात्मन एतानि परैषामशुचीनि तु ॥
आसनं शयनं यानं नावः पथि तृणानि च । श्वचण्डालपतितस्पृष्टं मारुतेनैव शुध्यति ॥

बौधायन स्मृति/१/५/५६ – ६२

न पतितैः संव्यवहारो विद्यते ॥
बौधायन स्मृति/२/२/४७

पाराशर स्मृति

“चांडाल का दर्शन होने पर सूर्य का अवलोकन करें, संभाषण होने पर द्विज-संभाषण व गायत्री जप करें, और स्पर्श होने पर सचैल स्नान करें।” — पराशर स्मृति

श्वपाकं वापि चण्डालं विप्रः संभाषते यदि । द्विजसंभाषणं कुर्यात्सावित्रीं तु सकृज्जपेत् ॥
चण्डालैः सह सुप्तं तु त्रिरात्रमुपवासयेत् । चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः ॥
चण्डालदर्शने सद्य आदित्यमवलोकयेत् । चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत् ॥

पाराशर स्मृति/६/२२ – २४

अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति । विज्ञाते तूपपन्नस्य द्विजाः कुर्वन्त्यनुग्रहं ॥
मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः । पतन्तं उद्धरेयुस्तं धर्मज्ञाः पापसंकरात् ॥
दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् । भुञ्जीत सह सर्वैश्च त्रिसंध्यं अवगाहनं ॥
त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा । त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥

पाराशर स्मृति/६/३४ – ३७

चण्डालैः सह संपर्कं मासं मासार्धमेव वा । गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥
रजकी चर्मकारी च लुब्धकी वेणुजीविनी । चातुर्वर्ण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति ॥
ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धं एव च । गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् ॥
गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् । तं अगाराद्विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ॥
रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन । गोमयेन तु संमिश्रैर्जलैः प्रोक्षेद्गृहं तथा ॥

पाराशर स्मृति/६/४३ – ४७

अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम् । सूतिकां स्पृशतश्चैव कथं शुद्धिर्विधीयते ॥
जातवेदः सुवर्णं च सोममार्गं विलोक्य च । ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुध्यति ॥

पाराशर स्मृति/७/९ – ११

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा । तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । अर्धकृच्छ्रं चरेत्पूर्वा पादमेकमनन्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा । पादहीनं चरेत्पूर्वा पादमेकमनन्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति ॥

पाराशर स्मृति/७/४ – ८

अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते । तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् ॥
पाराशर स्मृति/७/२१

अन्यान्य

यद्यपि ऊपर पर्याप्त प्रमाण प्रस्तुत किये जा चुके हैं तथापि कुछ अन्य महत्वपूर्ण प्रमाण भी अन्यत्र हैं जिनमें से कुछ आगे प्रस्तुत किया जा रहा है। इस विषय में पुराणों के प्रमाणों को संकलित करना कठिन कार्य है क्योंकि अत्यधिक हैं केवल समझने के उद्देश्य मात्र से अग्निपुराण और कूर्मपुराण के कुछ वचन प्रस्तुत किये गए हैं। उन लोगों के लिये संभवतः इन प्रमाणों का भी कोई औचित्य नहीं है जो नास्तिक हैं और अहर्निश चिल्लाते हैं कि शास्त्रों में ऐसा कहीं नहीं लिखा है।

स्पृश्यास्पृश्यता विचार

अब यदि वो देखेंगे तो धृष्टता कहें या नास्तिकता ये कहने से भी पीछे नहीं हटेंगे कि “बनाबटी हैं, अंग्रेजों ने लिख दिया, मैं नहीं मानता” आदि। अरे धूर्तों अंग्रेजों के बाप भी सभी शास्त्रों को बदल दें ऐसा संभव नहीं और शास्त्रों के नियम व्यवहार में भी परम्परा से ही विद्यमान देखने को मिलते हैं।

म्लेच्छान्नं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः। वत्सरं वत्सरादूर्ध्वं त्रिरात्रेण विशुध्यति ॥
देवल स्मृति/४४

सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत्। कुर्यात्स्नानं सचैलं तु दिनमेकमभोजनम् ॥
देवल स्मृति/५८

संग्रामे अट्टमार्गे च यात्रादेवगृहेषु च । महोत्साहे महोत्पाते स्पृष्टास्पृष्टिर्न दुःष्यति ॥
दाल्भ्य स्मृति : १६३

उच्छिष्टस्तु यदा विप्रः स्पृशेन्मद्यं रजस्वलाम् । मद्यं स्पृष्ट्वा चरेत्कृच्छ्रं तदर्धे तु रजस्वलाम् ॥
आपस्तम्ब स्मृति ७/१७

केशकीटावपन्नं च पादस्पृष्टञ्च कामतः। भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया ॥
काकाद्यैरवलीढं च शुनासंस्पृष्टमेव च। गवाद्यैरन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् ॥

अग्निपुराण/१७३/३३ – ३४

महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि । बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥

कूर्म पुराण/उत्तर भाग/३४/३९ – ४०

वेदधर्मपुराणानां चण्डालस्य तु भाषणे । चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥
कूर्म पुराण/उत्तर भाग/३४/६१

चण्डालपतितादींस्तु कामाद्यः संस्पृशेद्द्विजः । उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥
चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्वा स्नायाद्विशुद्ध्यर्थं तत्स्पृष्टपतितितास्तथा ॥
चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद्यदि । प्रमादात्तत आचम्य जपं कुर्यात् समाहितः ॥
तत्स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । आचमेत्तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥

भुञ्जानस्य तु विप्रस्य कदाचित्संस्पृशेत्यदि। कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद्व्रतम् ॥
चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद्विशुद्धये । स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥
सुरां स्पृष्ट्वा द्विजः कुर्यात्प्राणायामत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥
ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥

कूर्म पुराण/उत्तर भाग/३४/६५ – ७२

ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥
कूर्म पुराण/उत्तर भाग/३४/८१

सनातन में पुनर्जन्म का सिद्धांत है और पुनर्जन्म के सिद्धांत में पूर्व जन्मों का कर्म भी आधार बनता है। किसी व्यक्ति का जन्म उसके पूर्व कर्मों के आधार पर ही निर्धारित होता है और तदनुसार कर्तव्याकर्तव्य निर्धारित होता है। वर्ण और जाति व्यवस्था इसी सिद्धांत को स्थापित करते हैं। आत्मकल्याण का अवसर सबको प्राप्त होता है ये समानता है किन्तु सबका सामर्थ्य समान नहीं होता इस कारण सबके लिये योग्यतानुसार साधन का भेद है।

आत्मकल्याणकामी को अहर्निश पवित्र रहने का प्रयास करना चाहिये और पवित्र रहने में यह भी आवश्यक है कि अपवित्र से संसर्ग भी न करे क्योंकि अपवित्र का संसर्ग होने से अपवित्रता का भी संचरण होता है। उपरोक्त प्रमाणों के अनुसार यदि कुछ महत्वपूर्ण तथ्य सारणीबद्ध करके अवलोकन करना चाहें तो इस प्रकार है :

स्पर्श / परिस्थिति (Contact / Situation)शास्त्रीय प्रभाव / दोष (Scriptural Effect / Dosha)अनिवार्य शुद्धि / प्रायश्चित्त (Required Purification)
१. चांडाल, शव, पतित संस्पृष्टतीव्र शारीरिक व आध्यात्मिक अशुद्धि।सचैल सशिर स्नान, गायत्री जप, गोमूत्र-यावक आहार (६-१० दिन)
२. रजस्वला स्त्री संस्पर्शपूजा, दान और हवन का तत्काल लोप।सचैल स्नान, त्रिरात्र उपवास (३ दिन) या पञ्चगव्य प्राशन।
३. म्लेच्छ संपर्क व सह-आसनमतिभ्रम और तेज का ह्रास।सचैल स्नान और एक दिन का पूर्ण उपवास (अभोजन)
४. श्वान, कुक्कुर, वराह स्पर्शदृष्टिपात से अन्न व प्रत्यक्ष स्पर्श से देह दूषित।सचैल स्नान, १००० बार गायत्री मन्त्र का जप (उच्छिष्ट होने पर प्राजापत्य)।
५. उच्छिष्ट (जूठे मुँह) स्पर्शस्वयं का या पर-संस्पर्श से अन्न का विष्ठा तुल्य होना।तत्काल शौच, स्नान, आचमन और एकरात्र उपवास
६. व्यावसायिक व मार्ग स्पर्शसामान्य लोक-व्यवहार में स्पर्श की शंका।केवल सामान्य आचमन या जल का प्रोक्षण।

अब यदि संक्षेप में समझना चाहें तो वो लोग जो अहर्निश म्लेच्छादि के संसर्ग में रहते हैं वो क्या कहेंगे ? यही न कि मैं शास्त्रों को नहीं मानता ये तो वास्तविकता ही है कि वो नास्तिक/पतित होते हैं। यहां पर गंभीर प्रश्न उन लोगों से है जो स्वतंत्रता-समानता आदि का राग अलापते रहते हैं :

  • भारत कर्मभूमि है और यहां जन्म लेने वाले को आत्मकल्याण का अधिकार है अथवा नहीं ?
  • यदि स्वतंत्रता की ही बात करें तो ये स्वतंत्रता आत्मकल्याण के विषय में है अथवा नहीं ?
  • यदि समानता की बात करें तो समान अवसर आती है तो क्या आत्मकल्याण हेतु सबको समान (शास्त्रसम्मत) अधिकार है अथवा नहीं ?

निष्कर्ष

सनातन शास्त्रों में ‘स्पृश्यास्पृश्यता’ (छुआछूत) का आधार सामाजिक विद्वेष नहीं, बल्कि ‘आध्यात्मिक ऊर्जा, शुद्धि और स्वास्थ्य विज्ञान’ है। शास्त्रों ने जहाँ एक ओर उच्छिष्ट (जूठे), म्लेच्छ, चांडाल या रजस्वला स्त्री के संस्पर्श पर सचैल स्नान (कपड़ों सहित स्नान), उपवास या पञ्चगव्य प्राशन जैसे कड़े प्रायश्चित्तों का विधान किया है, वहीं दूसरी ओर सनातन धर्म की व्यापकता और व्यावहारिकता को सिद्ध करने वाले ‘सार्वभौमिक अपवाद’ भी दिए हैं।

अत्रि संहिता और दाल्भ्य स्मृति का यह अकाट्य उद्घोष कि — “देवयात्राविवाहेषु यज्ञप्रकरणेषु च। उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते” — यह प्रमाणित करता है कि उत्सव, मेला, तीर्थयात्रा, युद्धभूमि और विवाह जैसे सामूहिक स्थलों पर स्पर्श का कोई दोष नहीं लगता। अतः, आत्मकल्याण हेतु वैयक्तिक साधना में शुद्धि का कड़ाई से पालन करना चाहिए, किन्तु सामूहिक उत्सवों में शास्त्रों के अपवादों को सहर्ष स्वीकार करना ही वास्तविक सनातन मार्ग है।

डिस्क्लेमर (Disclaimer)

महत्वपूर्ण सूचना: यह आलेख पूर्णतः सनातन धर्म के प्राचीन स्मृति ग्रंथों और पुराणों के मूल श्लोकों व शास्त्रीय प्रमाणों के संकलन पर आधारित है। शास्त्रों में वर्णित स्पर्श-अस्पर्श के नियम आध्यात्मिक ऊर्जा के संरक्षण, काय-शुद्धि और पवित्रता को केंद्र में रखकर बनाए गए हैं। इसे आधुनिक सामाजिक या विधिक चश्मे से देखने के स्थान पर विशुद्ध धार्मिक साधना और कर्मकांडीय शुद्धि के दृष्टिकोण से ही समझा जाना चाहिए।

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply