भगवान श्रीकृष्ण गोपालन करते थे और इसी कारण उनका एक नाम है गोपाल। भगवान के विषय में कहा गया है “गो द्विज धेनु देव हितकारी”, कर्मकांड में बिना गव्य प्रयोग के कुछ भी संभव नहीं है। यज्ञ का मूल गो है और गो के पालक भगवान स्वयं ही हैं एवं इसी कारण भगवान का एक नाम गोपाल है। स्तोत्रों में जो बहुत ही महत्वपूर्ण होता है उसे स्तवराज कहा जाता है। यहां भगवान कृष्ण के गोपाल नाम से जो स्तवराज है वह श्री गोपाल स्तवराज (Shri Gopala Stavaraja) संस्कृत में दिया गया है। प्रथम गोपाल स्तवराज शाण्डिल्यसंहितोक्त है और द्वितीय नारदपञ्चरात्रोक्त है।
श्री गोपाल स्तवराज – Shri Gopala Stavaraja
स्तवराजं प्रवक्ष्यामि श्रीगोपालस्य भावतः ।
भुक्तिमुक्तिप्रदं दिव्यं भक्तानामभिवर्द्धनम् ॥१॥
नवीननीरदश्यामो गाम्भीर्यादृष्ट्यगोचरः ।
पीतवासानुरागेण लावण्येकपरावधिः ॥२॥
सच्चिदानन्दमन्त्रैको नित्याखण्डात्मविग्रहः ।
सदा सकामः सर्वात्मा निगमागमसंस्तुतः ॥३॥
द्विभुजो भुक्तिमुक्तिभ्यां वाप्या पीयूषवर्षणः ।
नवकञ्जदलाक्षिभ्यां सृष्टिस्थितिकरः प्रभुः ॥४॥
भक्तिभिर्भूषितो देव आपादतलमस्तकम् ।
क्रीडन्नेव सदा बालैर्गोपालो लोकपालकः ॥५॥
वेदवेत्रेण शास्ते गा लोकानुग्रहकाम्यया ।
स्वानन्दे गोपिकावृन्दे वृन्दारण्ये परात्मनि ॥६॥
मन्दस्मितेन भक्तान्स्वान्हर्षयन्मोहयन्परान् ।
सदात्मराधसा दासो भजतां कामधुग्घरिः ॥७॥
अक्लिष्टकर्मा निर्दोषो निर्गुणो निरपाश्रयः ।
अप्राकृतगुणोदारो नित्यानन्दगुणात्मकः ॥८॥
गोपीभिः श्रुतिभिर्गीतः लीलानुग्रहविग्रहः ।
लीलया योगमायां यस्तया सर्वं करोति च ॥९॥
तपसः सुकृतस्यापि योगविज्ञानयोरपि ।
भक्तेरनुग्रहस्याक्ष्णा दर्शनं ह्यस्य सत्फलम् ॥१०॥
देहि तद्दर्शनं नाथ लोचने कुरु शीतले ।
संसारतापजनितमज्ञानतिमिरं हरे ॥११॥
सर्वतः साधनैर्हीनं शिश्नोदरपरायणम् ।
दम्भार्थमखिलारम्भं पाहि मां करुणानिधे ॥१२॥
साम्प्रतं रमसे ह्यस्मिन् व्रजे वृन्दावने वने ।
अज्ञानतिमिरान्धानामस्माकं नावभाससे ॥१३॥
देहवाक्कायवृत्तीनामासुरीणां सुरेश्वर ।
न शक्यसे ह्यवस्थानं त्वयि कल्पशतैरपि ॥१४॥
न चोत्पादयितुं शक्या त्वयि प्रीतः सुखात्मनि ।
प्रसादं भवतो हित्वा त्वां प्राप्तुं को भवेत्प्रभुः ॥१५॥
नित्याखण्डसुखस्थस्य पूर्णकामस्य नित्यशः ।
स्वलाभपरितुष्टस्य कथं तोषो विधीयताम् ॥१६॥
सर्वत्र समभावेन पश्यतः परमात्मनः ।
कया युक्त्या प्रसादः स्यात्प्रसन्नस्यैव नित्यदा ॥१७॥
तथापि तस्य देवस्य लीलालीलस्य बालवत् ।
प्रसादा निजभक्तेषु प्रवर्तन्ते स्वयं प्रभोः ॥१८॥
न रागो वा विरागो वा क्रीडितुः क्रीडने शिशोः ।
यथा तथा कल्पतरोः प्रसादः संश्रिते स्वयम् ॥१९॥
अथवा जगतामीशे किं कुतर्को गिरां मिते ।
विशिष्टेष्टैरुपदिष्टेऽस्मिन् वर्तना युज्यते पथि ॥२०॥
कदा यशोदातनयः कदा श्रीनन्दनन्दनः ।
कदा श्रीराधिकाकान्तो दीनेहां पूरयिष्यति ॥२१॥
यथा द्रुपदजा दीना कुन्तिका महिला यथा ।
अनुग्रहीता भवतां यथा मां स्वीकुरु प्रभो ॥२२॥
यदि मां कुकृतिं वीक्ष्य उदास्तेऽथ भगवन्विभो ।
तदा धरण्यां रुष्टायां क्व यामि शरणं वद ॥२३॥
रङ्गेण सार्वभौमस्य न शक्योपकृतिः क्वचित् ।
तथाप्ययं मलाङ्केन तेन सम्भाव्यते न किम् ॥२४॥
असारेऽस्मिन्नु संसारे कारागारे स्थितं जनम् ।
मामुद्धर मुरारे श्रीकंसारे शरणं गतम् ॥२५॥
श्रीमच्चरणराजीवरजोलिप्सुर्मुखम्पच ।
सुरतं समुपासीनोऽभग्नशक्तिं भवामि भोः ॥२६॥
तिर्यक्षु नाथ यादस्सु नारकेषु नरेषु वा ।
जनिर्मे भ्रमतो नाथ भवतान्नासुरेषु च ॥२७॥
यत्र न श्रीमतः सेवा कथा नो भक्तसङ्गतिः ।
न तत्र मे जनिर्भूयादिति याचे पुनः पुनः ॥२८॥
मनसा वपुषा वाचा नान्यं येन समाश्रये ।
तथा मां कुरु कल्याण श्रीमन् श्याम मनोहर ॥२९॥
विहाय सकलं विश्वं विश्वेशानपि सर्वशः ।
त्यामेवाहं प्रपन्नोऽस्मि त्वमेव परमा गतिः ॥३०॥
वृन्दारण्ये तरणितनयातीरजे दिव्यकुञ्जे
पीठे चिन्तामणिवरमये वेणुमापूरयन्तम् ।
नीलाम्भोदद्युतिमनुपमं पीतवासो वसानं
वन्दे मुक्ताभरणकुसुमैर्भूषितं नन्दनन्दम् ॥३१॥
स्तवराजमिमं पुण्यं श्रीकृष्णस्य परात्मनः ।
भगवान् भजतोऽमुष्य वश्यो भवति भूतले ॥३२॥
॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे स्तोत्रनिरूपणं नाम षोडशोऽध्याये श्रीगोपालस्तवराजः सम्पूर्णः ॥
नारदपञ्चरात्रोक्त गोपाल स्तवराज
विनोयोग : ॐ अस्य श्रीगोपालस्तवराजमन्त्रस्य श्रीनारद ऋषिः । अनुष्टुप् छन्दः । श्रीकृष्णः परमात्मा देवता । श्रीकृष्णप्रीत्यर्थे जपे विनोयोगः ॥
॥ अथ ध्यानम् ॥
सजलजलदनीलं दर्शितोदारशीलं
करतलधृतशैलं वेणुवाद्यै रसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
तरुणतुलसिमालं नौमि गोपालबालम् ॥
श्रीनारद उवाच
नवीननीरदश्यामं नीलेन्दीवरलोचनम् ।
बल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥१॥
स्फुरद्बर्हिदलोद्बद्धनीलकुञ्चितमूर्धजम् ।
कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ॥२॥
गण्डमण्डलसंसर्गिचलत्कुञ्चितकुन्तलम् ।
स्थूलं मुक्ताफलोदारहारोद्योतितवक्षसम् ॥३॥
हेमाङ्गदतुलाकोटिकिरीटोज्ज्वलविग्रहम् ।
मन्दमारुतसंक्षोभचलिताम्बरसञ्चयम् ॥४॥
रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः ।
लसद्गोपालिकाचेतो मोहयन्तं पुनः पुनः ॥५॥
बल्लवीवदनाम्भोजमधुपानमधुव्रतम् ।
क्षोभयन्तं मनस्तासां सस्मेरापाङ्गवीक्षणैः ॥६॥
यौवनोद्भिदेहाभिः संसक्ताभिः परस्परम् ।
विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥७॥
प्रभिन्नाञ्जनकालिन्दीजलकेलिकलोत्सुकम् ।
योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम् ॥८॥
कालिन्दीजलसंसर्गिशीतलानिलसेविते ।
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥९॥
रत्नभूधरसंलग्नरत्नासनपरिग्रहम् ।
कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥१०॥
वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे ।
गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥११॥
सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् ।
खण्डिताखण्डलोन्मुक्तमुक्तासारघनाघनम् ॥१२॥
वेणुवाद्यमहोल्लासकृतहुङ्कारनिःस्वनैः ।
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥१३॥
कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः ।
दण्डपाशोद्यतकरैर्गोपालैरूपशोभितम् ॥१४॥
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगैः ।
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥१५॥
य एवं चिन्तयेद्देवं भक्त्या संस्तौति मानवः ।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥१६॥
राजवल्लभतामेति भवेत्सर्वजनप्रियः ।
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥१७॥
॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे गोपालस्तवराजः सम्पूर्णः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।