भगवान श्रीकृष्ण वसुदेव पुत्र होने के कारण वासुदेव नाम से जाने जाते हैं। वासुदेव नाम कितना महत्वपूर्ण है इसे इस तथ्य से सरलतापूर्वक समझा जा सकता है कि विष्णु भगवान का जो सबसे प्रसिद्ध और प्रशस्त मंत्र है वह द्वादशाक्षर मंत्र है जिसमें वासुदेव नाम को ही ग्रहण किया गया है। यहां वासुदेव स्तुति (vasudev stuti) संस्कृत में दिया गया है। प्रथम वासुदेव स्तुति स्कन्द पुराणोक्त है और द्वितीय मत्स्य पुराणोक्त।
वासुदेव स्तुति – vasudev stuti
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥
नमो विज्ञानमात्राय परमानन्दमूर्तये ।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥
आत्मानन्दानुरुद्धाय सम्यक्तयक्तोर्मये नमः ।
हृषीकेशाय महते नमस्तेऽनन्तशक्तये ॥
वचस्युपरते प्राप्यो य एको मनसा सह ।
अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः ॥
यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते ।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥
यं न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम् ॥
देहेन्द्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरन्ति कर्मसु ।
नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते ॥
चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् ।
पूर्वापरापरयुगे शास्तारं परमीश्वरम् ॥
हित्वा गतीर्मोक्षकामा यं भजन्ति दशात्मकम् ।
तं परं सत्यममलं त्वां वयं पर्युपास्महे ॥
ॐ नमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकल सात्वतपरिवृढनिकर करकमलोत्पलकुड्मलोपलालितचरणारविन्द युगल परमपरमेष्ठिन्नमस्ते ॥
तवाग्निरास्यं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे ।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥
जन्मानि तावन्ति न सन्ति देव निष्पीड्य सर्वाणि च सर्वकालम् ।
भूतानि यावन्ति मयात्र भीमे पीतानि संसारमहासमुद्रे ॥
सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक् ।
देहाननेकाननुगृह्णतो मे प्राप्तास्ति सम्पन्महती तथेश ॥
न सन्तिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ।
भूत्वा मया येषु न जन्तवश्च सम्भक्षितो वा न च भूतसङ्घैः ॥
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु ।
तावत्प्रमाणं न जलं पयोदा मुञ्चन्ति दिव्यैरपि वर्षलक्षैः ॥
मन्ये धरित्रीपरमाणुसङ्ख्यामुपैति पित्रोर्गणना न मह्यम् ।
मित्राव्यमित्राण्यनुजीव्यबन्धून्सङ्ख्यातुमीशोऽस्मिन देवदेव ॥
त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि ।
कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि ॥
सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो ।
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि ॥
परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ।
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव ॥
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ।
मामुद्धरास्मादुरुदुःखसङ्घात्संसारगर्तात्स्वपरिग्रहेण ॥
क्षृत्तृट्त्रिधातुभिरिमं मुहुरर्द्यमानं
शीतोष्ण वातसलिलैरितरेतराच्च ।
कामाग्निनाच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मम उरुक्रम सीदतो हि ॥
भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य ।
मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे ॥
ये भूतले ये दिवि चान्तरिक्षे रसातले प्राणिगणाश्च केचित् ।
भवन्तु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे ॥
अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः ।
मया च विश्वम्भरणे ह्यनन्ते स्तुते जगद्धातरि वासुदेवे ॥
शृण्वन्ति ये मे स्तुवतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम् ।
देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ॥
ये चापि मूका विकलेन्द्रियत्वात्पठन्ति नो नैव विलोकयन्ति ।
पश्वादयः कीटपिपीलिकाद्या भवन्तु तेऽप्यच्युतयोगभाजः ॥
नश्यन्तु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः ।
यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः ॥
संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते ।
संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ॥
पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा ।
शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे ॥
यथा हि वा वासुदेवेति प्रोक्ते सङ्कीर्त्तने विष्णुभक्तस्य वापि ।
स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम् ॥
मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं
क्लिष्टं मनोऽपि विषयैर्मयि न प्रसङ्गि ।
इत्थं कृपां कुरु मयि प्रणतेऽखिलेश
त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥
स त्वं प्रसीद भगवन्कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनन्त दीन-
मुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि ॥
॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतेरेयब्राह्मणचरित्रवर्णनं नाम द्विचत्वारिंशोऽध्याये वासुदेवस्तुतिः सम्पूर्णा ॥
मत्स्य पुराणोक्त वासुदेव स्तुति
अदितिरुवाच
नमः सर्वार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याणकल्याणायादिवेधसे ॥१॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ॥२॥
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ।
नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥३॥
तथात्मज्ञानविज्ञान योगिचिन्त्यात्मयोगिने ।
निर्गुणायाविशेषाय हरये ब्रह्मरूपिणे ॥४॥
जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥५॥
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगत्यत्र न देवो हृदि संस्थितः ॥६॥
यस्मिन्नेव विनश्येत यस्यैतदखिलं जगत् ।
तस्मै समस्तजगतामाधाराय नमो नमः ॥७॥
आद्यः प्रजापतिपतिर्यः प्रभूणां पतिः परः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥८॥
यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥९॥
यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय पराय हरिवेधसे ॥१०॥
यं बुद्ध्वा सर्वभूतानि देवदेवेशमव्ययम् ।
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥११॥
यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंज्ञितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥१२॥
गीयते सर्वदेवेषु वेदविद्भिर्विदां पतिः ।
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥१३॥
यतो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति ।
विश्वागम प्रतिष्ठाय नमस्तस्मै महात्मने ॥१४॥
ब्रह्मादि स्तम्बपर्यन्तं येन विश्वमिदं ततम् ।
मायाजालं समुत्तर्तुं तमुपेन्द्रं नमाम्यहम् ॥१५॥
यस्तु तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥१६॥
यमाराध्य विशुद्धेन मनसा कर्मणा गिरा ।
तरन्त्यविद्यामखिलां तमुपेन्द्रं नमाम्यहम् ॥१७॥
विषादतोषरोषाद्यैःर्योऽजस्रं सुखदुःखजैः ।
नृत्यत्यखिलभूतस्थस्तमुपेन्द्रं नमाम्यहम् ॥१८॥
मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः ।
रात्रिजं सूर्यरूपीव तमुपेन्द्रं नमाम्यहम् ॥१९॥
कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः ।
हन्ति ज्ञानप्रदानेन तमुपेन्द्रं नमाम्यहम् ॥२०॥
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततमुपेन्द्रं तं नमाम्यहम् ॥२१॥
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभवाप्ययम् ॥२२॥
यच्च तत्सत्यमुक्तं मे भूयांश्चातो जनार्दनः ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥२३॥
एवं स्तुतः स भगवान् वासुदेव उवाच ताम् ।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥२४॥
मनोरथां स्त्वमदिते यानिच्छस्यभिवाङ्छितान् ।
तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥२५॥
शृणुष्व सुमहाभागे वरो यस्ते हृदि स्थितः ।
तमाशु व्रियतां कामं श्रेयस्ते सम्भविष्यति ।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥२६॥
॥ इति मत्स्यपुराणे अदितिकृता वासुदेवस्तुतिः सम्पूर्णा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।