भगवान विष्णु की अनेकानेक स्तुतियां नारायण नाम से भी पुराणों में वर्णित है क्योंकि भगवान विष्णु का ही एक प्रमुख नाम नारायण भी है। यहां तीन प्रमुख नारायण स्तुति (narayan stuti) संस्कृत में दिया गया है जो इस प्रकार हैं नरसिंहपुराणोक्त ब्रह्मा कृत, मुद्गल पुराणोक्त प्रचेता कृत और वराह पुराणोक्त राजा अश्वशिरसा कृत।
नारायण स्तुति संस्कृत में – narayan stuti
नारद उवाच
किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा ।
एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥
ब्रह्मोवाच
यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।
स एव सर्वभूतानां नर इत्यभिधीयते ॥
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥
नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।
नारायणः परं ज्योतिरात्मा नारायणः परः ॥
परादपि परश्चासौ तस्मान्नातिपरं मुने ।
यच्च किञ्चिज्जगत्यस्मिन् द्ऱृश्यते श्रूयतेऽपि वा ॥
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥
नमो नारायणायेति ध्यात्वा चानन्यमानसाः ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ।
एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥
परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः ।
बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥
तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम् ।
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥
जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः ।
विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥
वासुदेवो जगद्वासः पुराणः कविरव्ययः ।
यस्मात्प्राप्तं स्थितिं क्ऱृत्स्नं त्रैलोक्यं सचराचरम् ॥
तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते ।
यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥
तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः ।
तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥
विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा ।
केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥
केचिच्च परमात्मानं केचिच्चैवमनामयम् ।
केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ॥
अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् ।
एते चान्ये च मुनिभिः संज्ञाभेदाः पृथग्विधाः ॥
शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः।
एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥
बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।
त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥
अनन्यचेता ध्यायस्व नारायणमतन्द्रितः ।
एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥
क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः ।
श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥
ततोऽहमासं विप्रेन्द्र नारायणपरायणः ।
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥
अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् ।
तस्मान्नारायणस्तात परमात्मा सनातनः ॥
अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः ।
नारायणो जगद्व्यापी परमात्मा सनातनः ॥
जगतां सृष्टिसंहारपरिपालनतत्परः ।
श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥
आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा ।
निः स्पृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥
निर्ममा निरहंकारा रागद्वेषविवर्जिताः ।
अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥
ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् ।
त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥
कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् ।
तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥
तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ।
हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥
अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च ।
तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥
किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥
चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा ।
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥
ये नृशंसा दुरात्मानः पापाचाररताः सदा ।
तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥
जन्मान्तरसहस्रेषु यस्य स्यद्बुद्धिरीद्ऱृशी ।
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिनः ॥
प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतपुराणः पुरुषः संयतेन्द्रियः ॥
॥ इति ब्रह्मोक्त नरसिंहपुराणे नारायणस्तुतिः संपूर्णा ॥
मुद्गल पुराणोक्त प्रचेता कृत नारायण स्तुति
प्रचेतस ऊचुः
नमस्ते केशवायैव नमस्ते भूतभावन ।
निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥
आदिमध्यान्तहीनाय वासुदेवाय ते नमः ।
सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥
लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥
भुक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः ।
नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥
वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः ।
वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥
एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः ।
सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥
तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः ।
यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां चैव मत्प्रसादकरं परम् ॥
॥ इति प्रचेतसकृता नारायणस्तुतिः सम्पूर्णा ॥
वराह पुराणोक्त राज्ञा अश्वशिरसा कृत नारायण स्तुति
श्रीवराहः – (राजा अश्वशिरा) उवाच
नमामि याज्यं त्रिदशाधिपस्य भवस्य सूर्यस्य हुताशनस्य ।
सोमस्य राज्ञो मरुतामनेकरूपं हरिं यज्ञनरं नमस्ये ॥
सुभीमदंष्ट्रं शशिसूर्यनेत्रं संवत्सरे चायनयुग्मकुक्षम् ।
दर्भाङ्गरोमाणमथेध्मशक्तिं सनातनं यज्ञनरं नमामि ॥
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं शरीरेण दिशश्च सर्वाः ।
तमीड्यमीशं जगतां प्रसूतिं जनार्दनं तं प्रणतोऽस्मि नित्यम् ॥
सुरासुराणां च जयाजयाय युगे युगे यः स्वशरीरमाद्यम् ।
सृजत्यनादिः परमेश्वरो यस्तं यज्ञमूर्तिं प्रणतोऽस्मि नाथम् ॥
दधार मायामयमुग्रतेजा जयाय चक्रं त्वमलांशुशुभ्रम् ।
गदासिशार्ङ्गादिचतुर्भुजोऽयं तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥
क्वचित् सहस्रं शिरसां दधार क्वचिन्महापर्वततुल्यकायम् ।
क्वचित्स एव त्रसरेणुतुल्यो यस्तं सदा यज्ञनरं नमामि ॥
चतुर्मुखो यः सृजते समग्रं रथाङ्गपाणिः प्रतिपालनाय ।
क्षयाय कालानलसन्निभो यस्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥
संसारचक्रक्रमणक्रियायै य इज्यते सर्वगतः पुराणः ।
यो योगिभिर्ध्यायते चाप्रमेयस्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥
सम्यङ्मनस्यर्पितवानहं ते यदा सुदृश्यं स्वतनौ नु तत्त्वम् ।
न चान्यदस्तीति मतिः स्थिरा मे यतस्ततो मावतु शुद्धभावम् ॥
इतीरितस्तस्य हुताशनार्चिः प्रख्यं तु तेजः पुरतो बभूव ।
तस्मिन् स राजा प्रविवेश बुद्धिं कृत्वा लयं प्राप्तवान् यज्ञमूर्तौ ॥
॥ इति श्रीवराहपुराणे पञ्चमाध्यायान्तर्गता राज्ञा अश्वशिरसा कृता नारायणस्तुतिः सम्पूर्णा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।