“मनुष्यों के पाप उनके अन्न में निवास करते हैं, जो जिसका अन्न खाता है, वह उसके पापों को भी खाता है।”
विद्वदग्रणी, आपके द्वारा संकलित “भक्ष्याभक्ष्य विचार – प्रमाण संकलन” सनातन धर्मशास्त्रों के ‘अन्न-शुद्धि’ और ‘आहार-मर्यादा’ विषय पर एक अत्यंत व्यापक, प्रामाणिक और अमूल्य निधि है। शास्त्रों में स्पष्ट उद्घोष है— “योऽन्ने शुचिर्हि स शुचिः” अर्थात् जिसका अन्न शुद्ध है, वही वास्तव में शुद्ध है, केवल मिट्टी और जल से शरीर मलने वाला नहीं। सर्वप्रथम स्मृति पुराणादि से ढेरों प्रमाण संकलित किये गए हैं तदुपरांत सारणी में संक्षिप्त संकलन किया गया है।
अन्न दोष और आध्यात्मिक पतन: स्मृतियों और पुराणों के आलोक में आहार-शुद्धि के सूक्ष्म नियम
“परान्न (दूसरे का अन्न), परवस्त्र और परायण — इन्द्र की लक्ष्मी को भी क्षण भर में हर लेते हैं।”
भक्ष्याभक्ष्य विषय को समझना अत्यावश्यक है और ये कहा ही नहीं जा सकता है कि वर्त्तमान में कौन पालन करेगा ? जो आत्मकल्याण चाहेगा वो करेगा, जो पतन चाहता है वो नहीं करेगा, किन्तु इसका तात्पर्य यह नहीं कि विषय का विमर्श ही न हो, जाने-समझें भी नहीं।
यह भक्ष्याभक्ष्य विषयक शास्त्रीय विमर्श पूर्णतः उन दुष्टों की भावना के विरुद्ध है जो भारतीय संस्कृति और सनातन के शत्रु हैं। जो स्वतंत्रता-समानता आदि का राग अलापते रहते हैं, भेद-भाव चिल्लाते रहते हैं उनका मुख्य ध्येय सनातन को नष्ट-भ्रष्ट करना है और दुस्साहस व धृष्टता देखिये यदि इस विमर्श में प्रमाण न रखे जायें तो अपराध भी सिद्ध कर दिया जाय। जिसका तात्पर्य यह है कि भारत का कानून भी भारतीयता के विरुद्ध ही है।
अरे दुष्टों यदि किसी को समानता आदि चिल्लाकर पतनोन्मुखी होने की स्वतंत्रता है तो जो ऊर्ध्वगमन चाहता है उसकी स्वतंत्रता को कैसे बाधित कर सकते हो। जो कानून बनाये गए हैं और आधुनिकता आदि कहे जाते हैं वो आसुरी/तामसी प्रवृत्ति का पोषण करते हैं एवं सात्विकता, दिव्यता आदि को नष्ट करना चाहते हैं। तुम्हारी समानता-स्वतंत्रता का सिद्धांत सही हो सकता है किन्तु किसी एक भी व्यक्ति की इच्छा यदि आत्मकल्याण की है तो उसकी स्वतंत्रता का क्या, उसके अधिकारों का क्या ?
गूगल आदि मंचों की तो बात ही क्या करें इनके तो एल्गोरिदम ही इस प्रकार निर्द्दिष्ट हैं कि शास्त्रोचित और प्रामाणिक तथ्यों की रिच कम कर देते हैं एवं भ्रामक तथ्यों को, सनातन विरुद्ध मनगढंत कुतर्कों को प्रचारित-प्रसारित करते हैं। भारतीय संस्था-संगठन भी सामान्यतः शास्त्र के विरुद्ध भी वर्ताव करते हैं। इस आलेख में जो तथ्य हैं वो इन राष्ट्रीय-अंतरराष्ट्रीय मंचों के दुराग्रह के विरुद्ध है क्योंकि सनातन शास्त्रों से संकलित है। इससे यह भी सिद्ध होता है कि जो रात-दिन नाना प्रकार के कुतर्क गढ़ते रहते हैं वो सनातन को रत्तीभर नहीं जानते।

मनु स्मृति
“अज्ञानावश किए गए अभक्ष्य भक्षण की शुद्धि हेतु संवत्सर के अंत में कम से कम एक कृच्छ्र व्रत अवश्य करना चाहिए।”
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥
अश्लीकं एतत्साधूनां यत्र जुह्वत्यमी हविः । प्रतीपं एतद्देवानां तस्मात्तत्परिवर्जयेत् ॥
मत्तक्रुद्धातुराणां च न भुञ्जीतकदाचन । केशकीटावपन्नं च पदास्पृष्टं च कामतः ॥
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया । पतत्रिणावलीढं च शुना संस्पृष्टंमेव च ॥
गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥
स्तेनगायनयोश्चान्नं तक्ष्णोवार्धुषिकस्य च । दीक्षितस्यकदर्यस्य बद्धस्यनिगडस्य च ॥
अभिशस्तस्यषण्ढस्य पुंश्चल्यादाम्भिकस्य च । शुक्तंपर्युषितंचैव शूद्रस्योच्छिष्टमेव च ॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः । उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ॥
अनर्चितं वृथामांसमवीरायाश्च योषितः । द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥
पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा । शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥
कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥
भुक्त्वातोऽन्यतं अस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वाचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः । आददीतामं एवास्मादवृत्तावेकरात्रिकम् ॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥
मनु स्मृति/४/२०५ – २२४
आर्धिकः कुलमित्रं च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥
मनु स्मृति/४/२५३
अनभ्यासेन वेदानामाचारस्य च वर्जनात् । आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥
लोहितान्वृक्षनिर्यासान्वृश्चनप्रभवांस्तथा । शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥
वृथा कृसरसंयावं पायसापूपमेव च । अनुपाकृतमांसानि देवान्नानि हवींषि च ॥
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥
आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् । यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥
क्रव्यादाञ्शकुनान्सर्वांस्तथा ग्रामनिवासिनः । अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥
कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् । सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥
प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् । निमज्जतश्च मत्स्यादान्सौनं वल्लूरमेव च ॥
बकं चैव बलाकां च काकोलं खञ्जरीटकम् । मत्स्यादान्विड्वराहांश्च मत्स्यानेव च सर्वशः ॥
यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् ॥
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान्सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥
न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान्सर्वान्पञ्चनखांस्तथा ॥
श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ॥
अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायाणं वापि शेषेषूपवसेदहः ॥
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः ॥
यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥
बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥
यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् ।
तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥
चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥
एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस्तु प्राणानां एव चात्यये ॥
मनु स्मृति/५/४ – २७

अंगिरा स्मृति
पिबतः पतते तोयं भाजने मुखनिःसृतम् । अभोज्यं तद्भवेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥
शुष्कमन्नमविद्यस्य सप्तरात्रेण जीर्यति । अन्नं व्यञ्जनसं युक्तमर्धमासेन जीर्यति ॥
पयो दधि तु मासेन षण्मासेन घृतं तथा । तैलं संवत्सरेणैव कोष्ठे जीर्यति वा न वा ॥
यस्तु भुञ्जीत शुद्रान्नं मासमेकं निरन्तरम् । स जीवन्नेव शूद्रः स्यान्मृतः श्वानोऽभिजायते ॥
शूद्गान्नरसपुष्टस्य त्वधीयानस्य नित्यशः । यजतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते ॥
शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥
शूद्रान्नेनोदरस्थेन यस्तु प्राणान्विमुञ्चति । स भवेत्सूकरो ग्रामे तस्य वा जायते कुले ॥
शूद्रान्नं पच्यते येन शूद्रा च गृहमेधिनी। वर्जितः पितृभिर्देवै रौरवं नरकं व्रजेत् ॥
शुद्रप्रेक्षणकारी यो ब्राह्मणो ज्ञानदुर्बलः। भूमौ देयं तु तस्यान्नं यथैव श्वा तथैव सः ॥
शूद्रान्नं शूद्रसंपर्कः शूद्रेणैव सहासनम् । शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ॥
शूद्रे कृतप्रणामे तु स्वस्ति चेत्क्रियते द्विजैः। शूद्रोऽग्रे नरकं याति ब्राह्मणस्तदनन्तरम् ॥
अग्निहोत्री तु यो विप्रः शूद्रान्नान्न निवर्तते । पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥
शुद्रोच्छिष्टस्तु संरपृष्टः प्रमादाद्रव्यपाणिना । तद्द्विजेन न भोक्तव्यमापस्तम्बोऽब्रवीन्मुनिः ॥
भुञ्जीत ब्राह्मणस्यान्नं क्षत्रियस्य तु पर्वणि । सकृद्वैश्यस्य भुञ्जीत न शूद्रस्य कथंचन ॥
अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् । वैश्यान्नमन्नमेव स्याच्छूद्रस्य रुधिरं स्मृतम् ॥
ब्राह्मणान्ने पवित्रत्वं क्षत्रान्ने पशुता स्मृता । वैश्यान्ने चापि शूद्रत्वं शूद्रान्ने नरकं व्रजेत् ॥
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यस्यान्नं च समश्नाति भुङ्क्ते तस्य च किल्विषम् ॥
सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः । पिबेत्पानीयमज्ञानाद्भुङ्क्ते चान्नं स्पृशेत्तथा ॥
पानीयपाने कुर्वीत पञ्चगव्यस्य प्राशनम् । त्रिरात्रोपोषितो भूत्वा स्पृष्ट्वा स्नानेन शुध्यति ॥
अंगिरा स्मृति ६४ – ८२
जन्मप्रभृतिसंस्कारे श्मशानान्ते तथैव च । गणान्ने गणकान्ने वा चौरस्य वृषलीपतेः ॥
पाचकान्ने नवश्राद्धे सग्रहे चन्द्रसूर्ययोः । स्त्रीणां प्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ॥
अन्यदत्ता तु या कन्या पुनरन्त्यत्र दीयते । तस्याश्चैव न भोक्तव्यं पुनर्भूः कीर्तिता बुधैः ॥
पूर्वं तु स्रवते गर्भो यस्याश्चैवाथ संस्कृतः । द्वितीयो गर्भसंस्कारः पुनरेता तु सोच्यते ॥
या चाऽऽदौ दशभिर्वर्षैर्जीवत्तिष्ठति गर्भिणी । धारितं तु न रेतो वै रेतोधा सा तथोच्यते ॥
भर्तुः शयनमुल्लङ्घय या चान्येषु प्रवर्तते । तस्या अन्नं न भोक्तव्यं विज्ञेया कामचारिणी ॥
पुनर्भूः पुनरेता च रेतोधा कामचारिणी । तासां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत् ॥
अनपत्या तु या नारी नाश्नीयादेव तद्गृहे । अथ भुञ्जीत मोहात्मा पूयसं नरकं व्रजेत् ॥
स्त्रीधनानि च ये मोहादुपजीवन्ति बान्धवाः । नारीयानानि वस्त्राणि ते पापा यान्त्यधोगतिम्॥
राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् । सूतकान्नं तु यो भुङ्क्ते स भुङ्गे पृथिवी मलम् ॥
रात्रावरतमिते सूर्ये चण्डाली स्पृशते स्त्रियः । ताः स्पृष्टास्तु यदा किंचित्प्रायश्चित्तं कथं भवेत् ॥
जातरूपं स्पृशेदापो दिवाऽऽनीतं तु यज्जलम् । तेन स्नात्वा च पीत्वा च सर्वे स्पृष्ट्वा शुचिर्भवेत् ॥
दासनापितगोपालकुलमित्रार्थसीरिणः । एते शूद्रेषु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् ॥
अन्यशुद्रेषु अन्नाद्यं ये भुञ्जन्ति क्षुधा द्विजाः । प्रायश्चित्तं च संप्राप्तं चरेचान्द्रायणं व्रतम् ॥
अंगिरा स्मृति १०८ – १२१
पाराशर स्मृति
“शूद्र के घर से आया हुआ सूखा अन्न (सीधा), दूध या घी, यदि ब्राह्मण के घर में पकाया जाए तो वह भोज्य है।”
चण्डालखातवापीषु पीत्वा सलिलमग्रजः । अज्ञानाच्चैकभक्तेन त्वहोरात्रेण शुध्यति ॥
चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात् ॥
चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः । तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥
यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ॥
चरेत्सांतपनं विप्रः प्राजापत्यमनन्तरः । तदर्धं तु चरेद्वैश्यः पादं शूद्रस्तदाचरेत् ॥
भाण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः । शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥
भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन । गोमूत्रयावकाहारो दशरात्रेण शुध्यति ॥
एकैकं ग्रासमश्नीयाद्गोमूत्रयावकस्य च । दशाहं नियमस्थस्य व्रतं तत्तु विनिर्दिशेत् ॥
पाराशर स्मृति/६/२५ – ३३
भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । दधिक्षीरस्य त्रिपलं पलं एकं घृतस्य तु ॥
पाराशर स्मृति/६/३८
स्वमुच्छिष्टमसौ भुङ्क्ते पाणिना मुक्तभाजने । पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितोऽपि वा ॥
श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् । यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च ॥
पाराशर स्मृति/६/६६ – ६७
शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नमेव च । शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥
यदि भुक्तं तु विप्रेण अज्ञानादापदापि वा । ज्ञात्वा समाचरेत्कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ॥
बालैर्नकुलमार्जारैरन्नं उच्छिष्टितं यदा । तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः ॥
एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने । यद्येकोऽपि त्यजेत्पात्रं शेषं अन्नं न भोजयेत् ॥
मोहाद्भुञ्जीत यस्तत्र पङ्क्तावुच्छिष्टभोजने । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सांतपनं तथा ॥
पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने । पलाण्डुवृक्षनिर्यास देवस्वकवकानि च ॥
उष्ट्रीक्षीरमविक्षीरं अज्ञानाद्भुञ्जते द्विजः । त्रिरात्रं उपवासेन पञ्चगव्येन शुध्यति ॥
मण्डूकं भक्षयित्वा तु मूषिकामांसं एव च । ज्ञात्वा विप्रस्त्वहोरात्रं यावकान्नेन शुध्यति ॥
क्षत्रियश्चापि वैश्यश्च क्रियावन्तौ शुचिव्रतौ । तद्गृहे तु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः ॥
घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम् । गत्वा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनं ॥
मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् । तं शूद्रं वर्जयेद्विप्रः श्वपाकं इव दूरतः ॥
द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान् । स्वकर्मणि रतान्नित्यं न तान्शूद्रान्त्यजेद्द्विजः ॥
पराशर स्मृति ११/४ – १५
शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् । पक्वं विप्रगृहे भुक्तं भोज्यं तन्मनुरब्रवीत् ॥
आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत द्रुपदां वा जपेच्छतम् ॥
दासनापितगोपाल कुलमित्रार्धसीलिणः । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥
पराशर स्मृति ११/१९ – २१
अत्रि संहिता
मद्यसंस्पृष्टकुम्भेषु यत्तोयं पिबति द्विजः । कृच्छ्रपादेन शुध्येत पुनः संस्कारमहति ॥
अन्त्यजस्य तु ये वृक्षा बहुपुष्पफलोपगाः । उपभोग्यास्तु ते सर्वे पुष्पेषु च फलेषु च ॥
चाण्डालेन तु संस्पृष्टं यत्तोयं पिवति द्विजः । कृच्छ्रपादेन शुध्येत आपस्तम्बोऽब्रवीन्मुनिः ॥
अत्रि संहिता २०४ – २०६
उष्ट्रीक्षीरं खरीक्षीरं मानुषीक्षीरमेव च । प्रायश्चित्तं चरेत्पीत्वा तप्तकृच्छ्रं द्विजोत्तमः ॥
अत्रि संहिता २३५
आरनालं तथा क्षीरं कन्दुकं दधिसक्तवः । स्नेहपक्कं च तक्रं च शूद्रस्यापि न दुष्यति ॥
आर्द्रमांसं घृतं तैलं स्नेहाश्च फलसंभवाः । अन्त्यभाण्डस्थिता एते निष्क्रान्ताः शुद्धिमाप्नुयुः ॥
अत्रि संहिता २५० – २५१
ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥
राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् । स्वसुतान्नं च यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् ॥
स्वसुता अप्रजा तावन्नाश्नीयात्तद्गृहे पिता । अन्नं भुङ्क्ते तु यो मोहात्पूयं स नरकं व्रजेत् ॥
अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित् । नरेन्द्रभवने भुक्त्वा विष्ठायां जायते कृमिः ॥
नवश्राद्धे त्रिपक्षे च षण्मासे मासिकेऽब्दिके । पतन्ति पितरस्तस्य यो भुङ्क्तेऽनापदि द्विजः ॥
चान्द्रायणं नवश्राद्धे पराको मासिके तथा । त्रिपक्षे चैव कृच्छ्रः स्यात्षण्मासे कृच्छ्रमेव च ॥
आब्दिके पादकृच्छ्रे स्यादेकाहः पुनराब्दिके । ब्रह्मचर्यमनाधाय मासश्राद्धेषु पर्वसु ॥
द्वादशाहे त्रिपक्षेऽब्दे यस्तु भुङ्क्ते द्विजोत्तमः । पतन्ति पितरस्तरय ब्रह्मलोके गता अपि ॥
अत्रि संहिता ३०३ – ३१०
अङ्गुल्या दन्तकाष्ठं च प्रत्यक्षं लवणं तथा । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ॥
अत्रि संहिता ३१७
प्रजापति स्मृति
पायसं शुद्रतो ग्राह्यं यद्यम्बुरहितं भवेत् । नव्यमृत्पात्रपक्कं चेत्पित्रर्थेऽपि न दुष्यति ॥
पायसं सक्तवो घानास्तिलपिष्ट तथौषधम् । नाम्बून्येतानि गृह्णीयादपि शूद्रान्न दुष्यति ॥
प्रजापति स्मृति १३४ – १३५
भक्ष्यं भक्ष्यविधौ यत्तु गर्हितं तद्विवर्जयेत् । अभक्ष्यमपि भक्ष्यं स्याद्देशधर्मेण वै मुने ॥
प्रजापति स्मृति १५४
बृहद्यम स्मृति
चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगतं जलम् ।
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ॥
चाण्डालघटभाण्डस्थं यस्तोयं पिबति द्विजः ।
तत्क्षणात्क्षिपते यस्तु प्राजापत्येन शुध्यति ॥
यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रे सांतपनादिकम् ॥
बृहद्यम स्मृति १/८ – १०

सुरायाः संप्रपानेन गोमांसभक्षणे कृते । तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीहोमेन शुध्यति ॥
गोक्षत्रियं तथा वैश्यं शूद्रं चाप्यनुलोमजम् । ज्ञात्वा विशेषेण ततश्चरे चान्द्रायणं व्रतम् ॥
बृहद्यम स्मृति २/३ – ४
दासनापितगोपालकुलमित्रार्धसीरिणः । एते शूद्रास्तु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् ॥
असच्छूद्रेषु अन्नाद्यं ये भुञ्जन्त्यबुधा द्विजाः । प्रायश्चित्तं तथा प्राप्तं चरेच्चान्द्रायणव्रतम् ॥
बृहद्यम स्मृति ३/१० – ११
आपस्तम्ब स्मृति
भुञ्जते ये तु शूद्रानं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं जायन्ते ते मृताः शुनि॥
शूद्रान्नं शूद्रसंपर्कः शूद्रेणैव सहाऽऽसनम् । शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ॥
आहिताग्निस्तु यो विप्रः शूद्रान्नान्न निवर्तते । तथा तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥
शुद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रस्य संभवः ॥
शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः । स भवेत्सूकरो ग्राम्यरतस्य वा जायते कले॥
ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य तु पर्वणि । वैश्यस्य यज्ञ दीक्षायां शुद्रस्य न कदाचन ॥
अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् । वैश्यस्याप्यन्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ॥
आपस्तम्ब स्मृति ८/६ – १३
आममांसं मधुघृतं धानाक्षीरं तथैव च । गुडस्तक्रं रसा ग्राह्या निवृत्तेनापि शूद्रतः ॥
शाकं मांसं मृणालानि तुम्बुरुः सक्तवस्तिलाः । रसाः फलानि पिण्याकं प्रतिग्राह्याणि सर्वतः ॥
आपस्तम्ब स्मृति ८/१७ – १९
अन्ने भोजनसंपन्ने मक्षिकाकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भस्मना स्पृशेत् ॥
शुष्कमांसर्मयं चान्नं शूद्रान्नं वाऽप्यकामतः । भुक्त्वा कृच्छ्रं चरेद्विप्रो ज्ञानात्कृच्छ्रत्रयं चरेत् ॥
आपस्तम्ब स्मृति ९/१५ – १६
जन्मप्रभृतिसंस्कारे श्मशानान्ते च भोजनम् । असपिण्डैर्न कर्तव्यं चूडाकार्ये विशेषतः ॥
याजकान्नं नवश्राद्धं सग्रहे चैव भोजनम् । स्त्रीणां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत् ॥
ब्रह्मौदनेऽवसाने च सीमन्तोन्नयनेऽथ वा । अन्नश्राद्धे मृतश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥
अप्रजा या तु नारी स्यान्नाश्नीयादेव तद्गृहे । अथ भुञ्जीत मोहाद्यः पूयसं नरकं व्रजेत् ॥
आपस्तम्ब स्मृति ९/२२ – २५
लघु शातातप स्मृति
स्पन्दिते बुद्धिजातीनां भिन्नभाजनभोजने । पञ्चगव्येन शुद्धिः स्यादिति शातातपोऽब्रवीत् ॥
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् । तथैव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम् ॥
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥
लघु शातातप स्मृति ६२ – ६४
उपनिक्षेपधर्मेण शुद्रान्नं पचति द्विजः । अभोज्यं तु भवेदन्नं स च विप्रः पुरोहितः ॥
शूद्रान्नं शूद्रसंकल्पः शूद्रेण सह वासनम् । शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ॥
शूद्रान्नोपहता विप्रा बिह्वला रतिलालसाः। धारिताः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥
शूद्रादाहृत्य निर्वापं ये पचन्ति द्विजातयः। ते यान्ति नरकं घोरं ब्रह्मतेजोविवर्जिताः ॥
अग्निहोत्रफलं नित्यं वैश्वदेवतरोर्गतम् । सर्वं तु नश्यते चैव शूद्रान्नपचने कृते ॥
लघु शातातप स्मृति ६६ – ७०
हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः । दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्षिम् ॥
आयसेन तु पात्रेण यदन्नप्नुपनीयते । भोक्ता विष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत् ॥
दन्तधावनमङ्गुल्या प्रत्यक्षलवणं च यत् । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः ॥
मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः । तस्मात्सर्वप्रयत्नेन भक्षयेद्दन्तपावनन् ॥
लघु शातातप स्मृति ७१ – ७८
लिखित स्मृति
चान्द्रायणं नवश्राद्धे पराको मासिके तथा । पक्षत्रये तु कृच्छ्रे स्यात्षण्मासे कृच्छ्रमेव च ॥
ऊनाब्दिके त्रिरात्रं स्यादेकहः पुनराब्दिके । शावे मासस्तु भुक्त्वा वा पादकृच्छ्रो विधीयते ॥
लिखित स्मृति ६४ – ६५
पतितान्नं यदा भुङ्क्ते भुङ्क्ते चण्डालवेश्मनि । स मासार्धं चरेद्वारि मासं कामकृतेन तु ॥
लिखित स्मृति ७३
यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो गायत्र्यष्ट शतं जपेत् ॥
लिखित स्मृति ९६
वशिष्ठ स्मृति
आशौचे यस्तु शूद्रस्य सूतके वाऽपि भुक्तवान् । स गच्छेन्नरकं घोरं तिर्यग्योनिषु जायते । इति ॥
अनिर्दशाहे पक्वान्नं नियोगाद्यस्तु भुक्तवान् । कृमिर्भूत्वा स देहान्ते तद्विद्यामुपजीवति ॥
वशिष्ठ स्मृति ४/२५ – २६
शूद्रान्नरसपुष्टाङ्गो ह्यधीयानोऽपि नित्यशः । जुह्वन्वाऽपि जपन्वाऽपि गतिमूर्ध्वा न विन्दति ॥
शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः । स भवेत्सूकरो ग्राम्यस्तस्य वा जायते कुले ॥
शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा न च स्वर्गार्हको भवेत् ॥
वशिष्ठ स्मृति ६/२५ -२७
अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥
चिकित्सकमृगयुपुंश्चलीदण्डिक स्तेनाभिशस्तषण्ढपतितानामन्नमभोज्यम् ॥
कर्दर्यदीक्षितवद्धातुरसोमविक्रयितक्षकरजकशौण्डिकसूचक वार्धुषिकचर्मावकृत्तानां, शूद्रस्य चास्त्रभृतश्चोपपत्तेर्यश्चोपपत्तिं मन्यते, यश्च गृहान्दहेत्, यश्च वर्धाहं नोपहन्यात्को भक्ष्यत इति ॥
वाचाऽभिघुष्टं गणान्नं गणिकान्नं चेति ॥
अथाप्युदाहरन्ति ॥
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः । भार्याजितस्य नाश्नन्ति यस्य चोपपतिगृहे, इति ॥
एवोदकयवसकुशलाजाभ्युद्यतयानावसथशफरीप्रियङ्गुस्रग्गन्धमधुमांसानीत्येतेषां प्रतिगृह्णीयात् ॥
अथाप्युदाहरन्ति ॥
गुर्वर्थं दारमुज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः, इति ॥
न मृगयोरिषुचारिण परिवर्जमन्नम् ॥
विज्ञायते ह्यगम्त्यो वर्षसाहस्रिके सत्रे मृगयां चकार, तस्याऽऽसंस्तु रसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ॥
उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् । भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ॥
श्रद्दधानस्य भोत्तव्यं चोरस्यापि विशेषतः । न त्वेव बहुयाज्यस्य यश्चोपनयते बहुन् ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥
चिकित्सकस्य मृगयोः शल्यहस्तस्य पापिनः । षण्डस्य कुलटायाश्च उद्यताऽपि न गृह्यते, इति ॥
उच्छिष्टमगुरोरभोज्यं, स्वमुच्छिष्टोपहतं च ॥
यदशनं केशकीटोपहतं च ॥
कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनाऽवकीर्य वाचा प्रशस्तमुपभुञ्जीत ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥
देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च । काकैः श्वभिश्च संस्पृष्टमनं तन्न विसर्जयेत् ॥
तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति । द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन तु । मार्जारमुखसंस्पृष्टं शुचि एव हि तद्भवेत् ॥
अन्नं पर्युषितं भावदुष्टं सकृल्लेखं पुनःसिद्धमाममांसं पकं च कामं तु दध्ना घृतेन वाऽभिघारितमुपयुञ्जीत ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ॥
हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च । दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् ॥
प्रदद्यान्न तु हस्तेन नाऽऽयासेन कदाचन, इति ॥
लशुनपलाण्डुकेमुकगृञ्जन श्लेष्मातकवृक्षनिर्या सलोहितव्रश्चनश्वका कावलीढशुद्रोच्छिष्टभोजनेषु कृच्छ्रातिकृच्छ्र इतरेऽप्यन्यत्र मधुमांसफलविकर्षेष्वग्राम्यपशव विषयः ॥
संधिनीक्षीरमवत्साक्षीरं गोमहिष्यजानामनिर्दशाहानामन्तर्नाव्युदकमपूपधानाकरम्भसक्तुवटकतेलपायसशाकानि शुक्तानि वर्जयेत्, अन्यांश्च क्षीरयवषिष्टविकारान् ॥
श्वाविच्छेल्लकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ॥
अनुष्ट्रा पशूनामन्यतोदन्ताश्च मत्स्यानां वा चेट गवयशिशुमारनक्रकुलीरा विकृतरूपाः ॥
सर्पशीर्षाश्च ॥
गौरगवयशरभाश्चानुदिष्टाः ॥
तथा धेन्वनडुहो मेध्यौ वाजसनेयके विज्ञायेते ॥
खड्गे तु विवदन्त्यन्तेऽग्राम्यसूकरे च ॥
शकुनानां च विषुविष्किरजालपादाः ॥
कलविङ्कप्लवहंस चक्रवाक भासवायस पारावतककुक्कुटसा रङ्गः पाण्डुकपोतक्रौञ्चक्रकरकङ्कगृध्रश्येनवकबलाकमद्गुटिट्टिभमान्धालनक्तं चरदार्वाघाटचटकरैलातहारीतखञ्जरीटग्राम्यकुक्कुटशुकसारिकाकोकिलक्रव्यादा ग्रामचारिणश्चाग्रामचारिणश्चेति ॥
वशिष्ठ स्मृति १४/१ – ३७
शङ्कास्थाने समुत्पन्ने अभोज्याभोज्यसंज्ञके । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥
अक्षारलवणां रूक्षां पिबेद्राह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पं च ब्राह्मणः पयसा सह ॥
पालाशबिल्वपत्राणि कुशान्पद्मानुदुम्बरान् । काथयित्वा पिबेदापस्त्रिरात्रेणैव शुध्यति ॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा । पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥
यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति । विशुद्धभावे शुद्धाः स्युरशुद्धे तु सरागिणः ॥
हविष्यान्प्रातराशां स्त्रीन्सायमाशांस्तथैव च । अयाचितं तथैव स्यादुपवासत्रयं भवेत् ॥
अथ चेत्त्वरते कर्तुं दिवसं मारुताशनः । रात्रौ जलाशये व्युष्टः प्राजापत्येर्न तत्समम् ॥
सावित्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ । मुच्यते पातकैः सर्वैयर्यादि नो ब्रह्महा भवेत् ॥
या वै स्तेनः सुरापो वा भ्रूणहा गुरुतल्पगः । धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः ॥
दुरितानां दुरिष्टानां पापानां महतां तथा। कृच्छ्रंचान्द्रायणं चैव सर्वपापप्रणाशनम् ॥
एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिरेवं चान्द्रायणो विधिरिति॥
वशिष्ठ स्मृति २७/१० – २१
वेदव्यास स्मृति
नापितान्वयमित्रार्धसीरिणो दासगोपकाः । शूद्राणामप्यमीषां तु भुक्त्वाऽन्नं नैव दुष्यति ॥
वेदव्यास स्मृति ३/५५
धर्मेणान्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः । स्ववृत्त्योपार्जितं मेध्यमकेशकृमिमक्षिकम् ॥
अश्वलीढमगो घ्रातमरपृष्टं शूद्रवायसैः । अनुच्छिष्टमसंघुष्टमपर्युषितमेव च ॥
अम्लानवाष्पमन्नाद्यमद्यान्नित्यं सुसंस्कृतम् । कृसरापूपसंयावपायसं शष्कुलीति च ॥
नाश्नीयाद्ब्राह्मणो मांसमनियुक्तः कथंचन । ऋतौ श्राद्धे नियुक्तो वा अनश्नन्पतति द्विजः ॥
मृगयोपार्जितं मांसमभ्यर्च्य पितृदेवताः । क्षत्रियो द्वादशोनं तत्क्रीत्वा वैश्योऽपि धर्मतः ॥
द्विजो जग्ध्वा वृथा मांसं हत्वाऽप्यविधिना पशून् । निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम् ॥
वेदव्यास स्मृति ३/५६ – ६१
द्विजभोज्यानि गव्यानि माहिषाणि पयांसि च । निर्दशासंधिसंबन्धिवत्सवन्तीपयांसि च ॥
अलाबुशिग्रुकवकच्छत्राक लशुनानि च । पलाण्डुश्वेतदृन्ताक रक्तमूल कमेव च ॥
गृञ्जनारुणवृक्षासृग्जन्तुगर्भफलानि च । अकालकुसुमादीनि द्विजो जग्ध्वैन्दवं चरेत् ॥
वेदव्यास स्मृति ३/६३ – ६५
मृतसूतकपुष्टाङ्गं द्विजं शूद्रान्नभोजिनम् । अहमेवं न जानामि कां योनिं स गमिष्यति ॥
शूद्रान्नेनोदरस्थेन यदि कश्चिन्म्रियेत यः । स भवेत्सूकरो नूनं तस्य वा जायते कुले ॥
गृधो द्वादश जन्मानि सप्त जन्मानि सूकरः । श्वा चैव सप्त जन्मानि इत्येवं मनुरब्रवीत् ॥
अमृतं ब्राह्मणान्नैस्तु दारिद्र्यं क्षत्रियस्य च । वैश्यान्नेन तु शूद्रत्वं शुद्रान्ने नरकं ब्रजेत् ॥
यस्तु भुञ्जति शुद्रान्नं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं मृतः श्वा चोपजायते ॥
यस्य शूद्रा पचेन्नित्यं शूद्रा च गृहमेधिनी । वर्जितः पितृदेवैस्तु रौरवं याति स द्विजः ॥
वेदव्यास स्मृति ४/६५ – ७०
याज्ञवल्क्यस्मृति
अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । गोघ्रातं शकुनोच्छिष्टं पदास्पृष्टं च कामतः ॥
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहामपि गोधूम यवगोरसविक्रियाः ॥
संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥
देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च ॥
क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् । सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः ॥
कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् । वृथाकृसरसंयाव पायसापूपशष्कुलीः ॥
कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥
चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥
पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥
तथा पाठीनराजीव सशल्काश्च द्विजातिभिः । अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥
वसेत्स नरके घोरे दिनानि पशुरोमभिः । सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥
सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् ॥
याज्ञवल्क्यस्मृति/१/१६७ – १८१
शंखलिखित स्मृति
परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वाऽन्नं द्विजश्चान्द्रायणं चरेत् ॥
परान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥
अन्नात्तेजो मनः प्राणाश्चक्षुः श्रोत्रं यशो बलम् । धृतिं श्रुतिं तथा शुक्रं परान्नं वर्जयेद्बुधः ॥
परान्नं परवस्त्रं च परयानं परस्त्रियः । परवेश्मनि वासश्च शक्रस्यापि श्रियं हरेत् ॥
आहिताग्निस्तु यो विप्रो मत्स्यमांसानि भोजयेत् । कालरूपी कृष्णसर्पो जायते ब्रह्मराक्षसः ॥
आहिताग्निस्तु यो विप्रः शूद्रान्नानि च भुञ्जते । पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥
शंखलिखित स्मृति/१४ – १९
स्वयं मृतं वृथा मांसं माहिषं त्वाजमेव च । गोश्च क्षीरं विवत्सायाः संधिन्याश्च तथा पयः ॥
संधिन्यमेध्यं भक्षित्वा पक्षं तु व्रतमाचरेत् । क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ॥
सप्तरात्रं व्रतं कुर्याद्यदेतत्परि कीर्तितम् ।
शङ्ख स्मृति/१७/२९ – ३०
यवगोधूमजाः सर्वे विकाराः पयसश्च ये । राजवाडवकुल्यं च भक्ष्यं पर्युषितं भवेत् ॥
सजीवपक्वमांसं च सर्वं यत्नेन वर्जयेत् । संवत्सरं व्रतं कुर्यात्प्राश्यैताञ्ज्ञानतस्तु तान् ॥
शुद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः । चिकित्सकस्य क्षुद्रस्य तथा स्त्रीमृगजीविनः ॥
षण्डस्य कुलटायाश्च तथा बन्धनचारिणः । बद्धस्य चैव चोरस्य अवीरायाः स्त्रियस्तथा ॥
चर्मकारस्य वेणस्य क्लीबस्य पतितस्य च । रुक्मकारस्य धूर्तस्य तथा वार्धुषिकस्य च ॥
कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च । गणान्नं भूमिपालान्नमन्नं चैव श्वजीविनाम् ॥
मौञ्जिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् । शूद्रस्य सततं भुक्त्वा षण्मासान्व्रतमाचरेत् ॥
वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् । क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् ॥
ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रतं चरेत् । अपः सुराभाजनस्थाः पीत्वा पक्षं व्रतं चरेत् ॥
मद्यभाण्डगताः पीत्वा सप्तरात्रं व्रतं चरेत्। शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः ॥
क्षत्रियस्य तु सप्ताहं ब्राह्मणस्य तथा दिनम् । अग्रश्राद्धाशने विद्वान्मासमेकं व्रती भवेत् ॥
शङ्ख स्मृति/१७/३४ – ४४
वृथा कृसरसंयावपायसापूपशष्कुलीः। भुक्त्वा त्रिरात्रं कुर्वीत व्रतमेतत्समाहितः ॥
शङ्ख स्मृति/१७/४७
अन्यान्य स्मृति
शूद्रोऽपि द्विविधो ज्ञेयः श्राद्धी चैवेतरस्तथा । श्राद्धी भोज्यस्तयोरुक्तो ह्यभोज्यो हीतरः स्मृतः ॥
प्राणानर्थांस्तथा दारान्ब्राह्मणाय निवेदयेत् । स शूद्रजातिर्भोज्यः स्यादभोज्यः शेष उच्यते ॥
कुर्याच्छूद्रस्तु शुश्रूषां ब्रह्मक्षत्रविशां क्रमात् । कुर्यादुत्तरयोर्वैश्यः क्षत्रियो ब्राह्मणस्य तु ॥
लघु विष्णु स्मृति ५/१०-१२
चाण्डालभाण्डसंस्पृष्टं पिबेत्कृपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्रेण विशुध्यति ॥
अन्त्यजैः स्वीकृते तीर्थे तडागेषु नदीषु च । शुध्यते पञ्चगव्येन पीत्वा तोयमकामतः ॥
सुराघटप्रपातोयं पीत्वा नासाजलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं पिबेद्विजः ॥
संवर्त स्मृति/१८५ – १८७
स्त्रीक्षीरमाविकं पीत्वा संधिन्याश्चैव गोः पयः । तस्य शुद्धिस्त्रिरात्रेण द्विजानां चैव भक्षणे ॥
संवर्त स्मृति/१९०
पतितेन तु संपर्के मासं मासार्धमेव च । गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥
पतिताद्द्रव्यमादते भुङ्क्ते वा ब्राह्मणो यदि । कृत्वा तस्य समुत्सर्गमतिकृच्छ्रं चरेद्द्विजः ॥
संवर्त स्मृति/१९९ – २००
खलक्षेत्रेषु यद्धान्यं कूपवापीषु यज्जलम् । अभोज्यादपि तद्भोज्यं यच्च गोष्ठगतं पयः ॥
बौधायन स्मृति/१/५/६३
वक्त्रेणैवाम्बुपानं च सुरापस्त्रीनिषेवणम् । गवां निष्पीडनं क्षीरं ताम्रस्थं गव्यमेव च ॥
सलवणं क्षीरपानं निषिद्धानां च भक्षणम् । योन्यास्वादः पञ्चयज्ञराहित्यं मलिनं तथा ॥
पात्रान्तरगतं यत्तु नारिकेलफलाम्बु च । तालहिन्तालमाधूकफलानां रसमेव च ॥
खरोष्ट्रमानुषीक्षीरं सुरापानसमानि वै ॥
वृद्धहारीत स्मृति/९/१८३ – १८५
नारिकेलरसं पीत्वा वायुवत्ताडितं द्विजः । जग्ध्वा तालं शलायंटुं वा करनिर्मथितं दधि ॥
ताम्रपात्रगतं गव्यं क्षीरं च लवणान्वितम् । कराग्रेणैव यद्दत्तं घृतं लवणैमम्बु च ॥
सूतकान्नं च शूद्रान्नं कदर्याद्यन्नमेव च । श्वस्पृष्टं सूतिकादृष्टमुदायादृष्टमेव च ॥
पाषण्डभाण्डचाण्डाल वृषलीपतिवीक्षितम् । दत्त्वाऽवशिष्टं यक्षाणां भूतानां रक्षसां तथा ॥
उद्धृत्य वामहस्तेन वक्त्रेणैव पिवेदपैः । यच्चान्नमाद्यैकोद्दिष्टे उच्छिष्टमगुरोरपि ॥
हरेरनर्पितं भुक्त्वा न भुक्त्वा देवतार्पितम् । कामतस्तु चरेद्धर्मं चरेद्वेदमकामतः ॥
अकामतः सकृज्जग्ध्वा चरेचान्द्रायणं व्रतम् । म्लेच्छचण्डालपतित पाषण्डान्नमकामतः ॥
उदक्या सह भुक्त्वा च चरेद्धर्मव्रतं द्विजः । चण्डालकूपभाण्डस्थं मद्यभाण्डस्थमेव च ॥
पीत्वा समाचरेत्पादं कामतोऽर्धं समाचरेत् । मद्यगन्धं समाघ्राय कामतो व्रतमाचरेत् ॥
अकामतस्तु निष्ठीव्य चरेदाचमनं द्विजः । अभिमन्त्र्य जलं प्राश्य सावित्र्या च समन्वितम् ॥
वृथामांसाशनं चैव भावदुष्टादिभक्षणे । चरेत्सांतपनं कृच्छ्रे चान्द्रायणमथापि वा ॥
कामतस्तु चरेत्पादमभ्यासे पूर्णमाचरेत् । कामतस्तु सुरां पीत्वा सततं चाग्निसंनिभम् ॥
गोमूत्रमम्बु वा पीत्वां मरणाच्छुद्धिमृच्छति । सुरायाः प्रतिषेधस्तु द्विजानामेव कीर्तितः ॥
वृद्धहारीत स्मृति/९/२६५ – २७७
अग्निपुराण
पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं। मध्वीकं टङ्कमाध्वीकं मैरेयं नारिकेलजं ॥
न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता। त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः ॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि। सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी ॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च। पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥
मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती। चाण्डालस्य तु पानीयं पीत्वा स्यात्षड्दिनं व्रती ॥
चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत्। पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः ॥
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान्। पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ॥
शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति। अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ॥
आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति। शूद्रभाजनभुक्विप्रः पञ्चगव्यादुपोषितः ॥
कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः। शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं ॥
अग्निपुराण/१७३/२१ – ३१
कूर्म पुराण
नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् । काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ॥
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति । क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ॥
गोगोमायुकपीनां च तदेव व्रतमाचरेत् । शिशुमारं तथाचाषं मत्यमांसं तथैव च ॥
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद्घृतम् । नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् ॥
श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति । व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥
बकं चैव बलाकाञ्च हंसं कारण्डवं तथा । चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥
कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च । उलूकं जालपादं च जग्ध्वाऽप्येतद् व्रतं चरेत् ॥
शिशुमारं तथा चाषं मत्स्यमांसं तथैव च । जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥
कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥
जलेचरांश्च जलजान् प्रणुदानथविष्किरान् । रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥
शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥
वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा । प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥
पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥
अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति । प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥
अलाबु किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् । उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥
वृथा कृसरसंयावं पायसापूपसंकुलम् । भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥
पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥
अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च । संधिन्याश्च विवत्सायाः पिबन्क्षीरमिदं चरेत् ।
एतेषां च विकाराणि पीत्वा मोहेन वा पुनः। गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ॥
भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा। चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ॥
यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते। चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ॥
अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम्। अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् । बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ॥
असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् । अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ॥
विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् । अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ॥
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥
क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् । महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः ॥
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत्। प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने ॥
क्षत्रिये तप्तकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् । शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ॥
सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् । समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ॥
गोमूत्रयावकाहारः पीतशेषं च वा गवाम्। अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।
तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥
चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् । चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥
चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥
महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि । बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥
स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति । बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥
शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः । भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥
संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥
कूर्म पुराण/उत्तर भाग/३४/८ – ४३
ब्रह्माण्डपुराण
संयोगजं तु यत्पापं तच्चतुर्धा निगद्यते । कर्ता प्रधानः सहकृन्निमित्तोऽनुमतः क्रमात् ॥
क्रमाद्दशांशतोऽघं स्याच्छुद्धिः पूर्वोक्तमार्गतः ॥
मद्यं कलञ्जं निर्यासं छत्राकं गृञ्जनं तथा । लशुनं च कलिङ्गं च महाकोशातकीं तथा ॥
बिंबीं च कवकं चैव हस्तिनीं शिशुलंबिकाम् । औदुंबरं च वार्ताकं कतकं बिल्वमल्लिका ॥
क्रमाद्दशगुणं न्यूनमघमेषां विनिर्दिशेत् । पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी ॥
सेवकः पुरसंस्थश्च कुग्रामस्थोऽभिशस्तकः । वैद्यो वैखानसः शैवो नारीजीवोऽन्नविक्रयी ॥
शस्त्रजीवी परिव्राट्च वैदिकाचारनिन्दकः । क्रमाद्दशगुणान्न्यूनमेषामन्नादने भवेत् ॥
स्वतन्त्रं तैलकॢप्तं तु ह्युक्तार्थं पापमादिशेत् । तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेत् ॥
ब्रह्मक्षत्रविशां चैव सशूद्राणां यथौदनम् । तैलपक्वमदृष्टं च भुञ्जन्पादमघं भवेत् ॥
द्विजात्मदासीकॢप्तं च तया दृष्टे तदर्धके । वेश्यायास्तु त्रिपादं स्यात्तथा दृष्टे तदोदने ॥
शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् । तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति ॥
वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन। ब्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् ॥
अथवान्तर्जले जप्त्वाद्रुपदां वा त्रिवारकम् ॥
इदं विष्णुस्त्र्यंबकं वा तथैवान्तर्जले जपेत् । उपोष्य रजनीमेकां ततः पापाद्विशुध्यति ॥
अथवा प्रोक्षयेदन्नमब्लिङ्गैः पावमानिकैः । अन्नसूक्तं जपित्वा तु भृगुर्वै वारुणीति च ॥
ब्रह्मार्पणमिति श्लोकं जप्त्वा नियममाश्रितः । उपोष्य रजनीमेकां ततः शुद्धो भविष्यति ॥
स्त्री भुक्त्वा तु ब्रुवाद्यन्नमेकाद्यान्भोजयेद्द्विजान् । आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक् ॥
इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् । सोऽहंभावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते ॥
अथवा शङ्करं ध्यायञ्जप्त्वा त्रैय्यंबकं मनुम् । सोऽहंभावेन तज्ज्ञानान्न दोषैः प्रविलिप्यते ॥
ब्रह्माण्डपुराण/उत्तरभागः/८/३९ – ५७
वराहपुराण
चान्द्रायणं पराकं च पतितान्नस्य भक्षणात् । चान्द्रायणं पराकं च प्राजापत्यं तथैव च ॥
गोप्रदानं च भोज्यं च अभक्षस्य च भक्षणे । उपवासस्तु पंचाहं पंचगव्येन शुद्ध्यति ॥
सोपानत्कश्चरेत्पाद कृच्छ्रस्य द्विरभोजनम्। पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शं च कारयन् ॥
अनिर्माल्यनमस्कारं स्नानं पंचामृतेन तु । सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम् ॥
वराहपुराण/१७९/१३ – १६
संक्षेप में समझें
“अज्ञानभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः” अर्थात् जाने-अनजाने में जो भी अन्न दोष हमारे जीवन में आ रहे हैं, उनसे हमारे जप और तप का क्षय होता है। इस सारणी का मुख्य उद्देश्य यजमानों को यह बोध कराना है कि कलयुग के व्यावहारिक जीवन में जहाँ पूर्ण शुद्धि अत्यंत कठिन है, वहाँ कम से कम ज्ञानावस्था में (जानबूझकर) इन महादोषों से बचा जाए।
| श्रेणी (Category) | पूर्णतः वर्जित / अभक्ष्य (Strictly Forbidden) | शास्त्र सम्मत विकल्प / ग्राह्य (Permitted / Options) | मार्जन / प्रायश्चित्त विधान (Remedy / Penance) |
| १. शाक व वनस्पति (Vegetables & Fungi) | लहसुन, प्याज, गृञ्जन (लाल गाजर), कवक (मशरूम), अलाबु (विशेष जंगली लौकी), कुष्मांड (पेठा – विशेष स्थिति में), वृक्षों के लाल निर्यास (गोंद)। | यव (जौ), गोधूम (गेहूं) के विकार, और वे सभी फल-मूल जो मांगलिक कार्यों में विहित हैं। | अज्ञानावश भक्षण पर: त्र्याह उपवास (३ दिन) या पञ्चगव्य प्राशन। मतिपूर्वक भक्षण पर चान्द्रायण व्रत। |
| २. गोरस व दुग्ध विकार (Milk & Dairy) | बछड़े को जन्म देने के १० दिन के भीतर का दूध (पेयूष), बिना बछड़े वाली या जुड़वां बछड़े वाली गाय का दूध, ऊँटनी, घोड़ी, भेड़ और स्त्री का दूध। | शुद्ध गाय, भैंस और बकरी का दूध, दही, घृत (घी) और तक्र (मट्ठा)। | वर्जित दूध पीने पर: त्रिरात्र उपवास और पञ्चगव्य सेवन द्वारा काय-शुद्धि। |
| ३. अन्न व बासी भोजन (Grains & Stale Food) | बिना घी-तेल का सूखा बासी अन्न, लोहे (आयस) के पात्र में परोसा गया अन्न, चांडाल, कुक्कुर, या रजस्वला द्वारा देखा या छुआ गया भोजन। | घी या तेल में पके हुए पदार्थ (जैसे पूड़ी, पुआ) भले ही चिरकाल के रखे हों, दही और सक्तु (सत्तू) के विकार। | अशुद्ध अन्न भक्षण पर: कृच्छ्र सांतपन व्रत या ब्रह्मकूर्च विधान। |
| ४. शूद्रान्न विचार (Food from Lower Varna) | शूद्र के घर का पका हुआ सादा अन्न (पक्वान्न), अशौच या सूतक काल में किसी के घर का भोजन, बिना संतान वाली (अप्रजा) स्त्री के घर का अन्न। | शूद्र के यहाँ से आया सूखा सीधा (कच्चा), फल, गुड़, दूध और घी जिसे ब्राह्मण अपने घर लाकर स्वयं पकाए। | निरंतर एक मास शूद्रान्न खाने पर: चान्द्रायण व्रत और पुनः संस्कार (उपनयन) की आवश्यकता। |
| ५. मांस व जलीय जीव (Meat & Fish) | वृथा मांस (बिना यज्ञीय प्रोक्षण के), मांसभक्षी पक्षी, कौआ, श्वान, ग्राम्य कुक्कुट (मुर्गा) और विड्वराह (सूअर)। | यज्ञीय कार्यों हेतु विहित मृग या पक्षी (श्राद्ध या प्राणात्यय की स्थिति में) और केवल सशल्क मछलियाँ (पाठीन, रोहितादि)। | वृथा मांस भक्षण पर: तप्तकृच्छ्र या चान्द्रायण व्रत। |
| ६. व्यावहारिक क्रियाएँ (Daily Habits) | अंगुली से दन्तधावन करना, प्रत्यक्ष नमक (बिना अन्न में मिलाए) खाना, मिट्टी खाना (ये तीनों गोमांस भक्षण तुल्य हैं), खड़े होकर (बुफे) भोजन। | दातुन (काष्ठ) द्वारा मुख शुद्धि, अन्न में सम्मिश्रित लवण, बैठकर पश्चिमाभिमुख या पूर्वाभिमुख भोजन। | इन प्रमादों के होने पर: एकरात्र उपवास या १०८ बार गायत्री जप पूर्वक तिल से होम। |
निष्कर्ष
“जिस अन्न पर चांडाल, कुक्कुर, रजस्वला या कौवे की दृष्टि पड़ जाए, वह अन्न देव और पितृ कार्य हेतु सर्वथा वर्जित है।”
मूल निष्कर्ष यह है कि ‘अन्न’ केवल शरीर का पोषण नहीं करता, बल्कि मनुष्य के विचार, बुद्धि और तेज का निर्माण करता है। अंगिरा स्मृति का यह वचन विशेष विचारणीय है कि “अन्नाच्छुक्रं प्रवर्तते”— अर्थात् जैसा अन्न होगा, वैसी ही संतान और बुद्धि होगी। वर्तमान युग में जहाँ ‘बुफे सिस्टम’, होटलों के तामसिक भोजन और ‘शूद्रान्न’ (अभोज्य वर्ग के अन्न) का अंधाधुंध चलन है, वहाँ ब्राह्मणत्व और आध्यात्मिक तेज का सुरक्षित रहना असंभव है।
वृथा-मांस (बिना यज्ञ के), लहसुन, प्याज, छत्रक (मशरूम) और अशुद्ध पात्रों में परोसा गया अन्न मनुष्य को पतित और नरकगामी बनाता है। स्वेच्छाचारियों हेतु आहार-शुद्धि कठिन है, तथापि आत्मकल्याण के इच्छुक प्रत्येक आस्तिक के लिंये नहीं।
डिस्क्लेमर (Disclaimer)
महत्वपूर्ण सूचना: यह आलेख पूर्णतः सनातन धर्म की विभिन्न स्मृतियों और पुराणों (मनु, अंगिरा, पराशर, याज्ञवल्क्य, कूर्म, ब्रह्मांड आदि) के मूल श्लोकों और प्रमाणों पर आधारित है। इसका उद्देश्य किसी व्यक्ति, समाज या आधुनिक जीवनशैली को आहत करना नहीं, बल्कि धर्म-जिज्ञासुओं और कर्मकांडियों हेतु ‘आहार-शुद्धि’ के शास्त्रीय मानकों को प्रस्तुत करना है। आलेख का उद्देश्य ज्ञानवर्द्धन करना है पाठक किसी भी निर्णय हेतु विद्वान ब्राह्मणों का सुझाव ग्रहण अवश्य ही ग्रहण करें।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।








