महाविद्या साधना प्रकरण में दस महाविद्या में से कमला महाविद्या/Kamla Mahavidya स्वयं में ही उच्चकोटि की साधना है। जो व्यक्ति अपने जीवन में दरिद्रता से मुक्ति चाहते हों, तो उनको लक्ष्मी के मूल स्वरूप महाविद्या कमला की साधना को अवश्य ही करना चाहिए। इस साधना को जो पूर्ण विधि-विधान से करता है, उसके जीवन में गरीबी नाम की कोई चीज़ नहीं होती, दरिद्रता स्वत: ही समाप्त हो जाती है, उसका दुर्भाग्य शीघ्र ही सौभाग्य में परिवर्तित हो जाता है। यहां कमला स्तोत्र (Kamla Stotra) संस्कृत में दिया गया है।
यहां पढ़ें मां कमला स्तोत्र संस्कृत में – Kamla Stotra
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः
हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् ।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्षौमाबद्ध नितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ॥१॥
माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैः
हस्ताग्राहितरत्नकुम्भसलिलैरासिच्यमानां मुदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतीर्दधानां हरेः
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम् ॥२॥
आसीना सरसीरुहेस्मितमुखी हस्ताम्बुजैर्बिभ्रती
दानं पद्मयुगाभये च वपुषा सौदामिनीसन्निभा ।
मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी
पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥३॥
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारान्निधिं
कोटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।
हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शौ वहन्तीं परां
आवीतां परिचारिकाभिरनिशं सेवे प्रियां शार्ङ्गिणः ॥४॥
बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारोज्ज्वलां
रत्नाकल्पविभूषितां कुचनतां शालेः करैर्मञ्जरीम् ।
पद्मं कौस्तुभरत्नमप्यविरतं सम्बिभ्रतीं सस्मितां
फुल्लाम्भोजविलोचनत्रययुतां वन्दे परां देवताम् ॥ ५॥
॥ इति श्रीकमला कमलात्मिका ध्यानम् ॥
श्री शङ्कर उवाच
अथातः सम्प्रवक्ष्यामि लक्ष्मीस्तोत्रमनुत्तमम् ।
पठनात् श्रवणाद्यस्य नरो मोक्षमावाप्नुयात् ॥१॥
गुह्याद्गुह्यतरं पुण्यं सर्वदेवनमस्कृतम् ।
सर्वमन्त्रमयं साक्षाच्छृणु पर्वतनन्दिनि ॥२॥
अनन्तरूपिणी लक्ष्मीरपारगुणसागरी ।
अणिमादिसिद्धिदात्री शिरसा प्रणमाम्यहम् ॥३॥
आपदुद्धारिणी त्वं हि आद्या शक्तिः शुभा परा ।
आद्या आनन्ददात्री च शिरसा प्रणमाम्यहम् ॥४॥
इन्दुमुखी इष्टदात्री इष्टमन्त्रस्वरूपिणी ।
इच्छामयी जगन्मातः शिरसा प्रणमाम्यहम् ॥५॥
उमा उमापतेस्त्वन्तु ह्युत्कण्ठाकुलनाशिनी ।
उर्वीश्वरी जगन्मातर्लक्ष्मि देवि नमोऽस्तु ते ॥६॥
ऐरावतपतिपूज्या ऐश्वर्याणां प्रदायिनी ।
औदार्यगुणसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ॥७॥
कृष्णवक्षःस्थिता देवि कलिकल्मषनाशिनी ।
कृष्णचित्तहरा कर्त्री शिरसा प्रणमाम्यहम् ॥८॥
कन्दर्पदमना देवि कल्याणी कमलानना ।
करुणार्णवसम्पूर्णा शिरसा प्रणमाम्यहम् ॥९॥
खञ्जनाक्षी खञ्जनासा देवि खेदविनाशिनी ।
खञ्जरीटगतिश्चैव शिरसा प्रणमाम्यहम् ॥१०॥
गोविन्दवल्लभा देवी गन्धर्वकुलपावनी ।
गोलोकवासिनी मातः शिरसा प्रणमाम्यहम् ॥११॥
ज्ञानदा गुणदा देवि गुणाध्यक्षा गुणाकरी ।
गन्धपुष्पधरा मातः शिरसा प्रणमाम्यहम् ॥१२॥
घनश्यामप्रिया देवि घोरसंसारतारिणी ।
घोरपापहरा चैव शिरसा प्रणमाम्यहम् ॥१३॥
चतुर्वेदमयी चिन्त्या चित्ताचैतन्यदायिनी ।
चतुराननपूज्या च शिरसा प्रणमाम्यहम् ॥१४॥
चैतन्यरूपिणी देवि चन्द्रकोटिसमप्रभा ।
चन्द्रार्कनखरज्योतिर्लक्ष्मि देवि नमाम्यहम् ॥१५॥
चपला चतुराध्यक्षी चरमे गतिदायिनी ।
चराचरेश्वरी लक्ष्मि शिरसा प्रणमाम्यहम् ॥१६॥
छत्रचामरयुक्ता च छलचातुर्यनाशिनी ।
छिद्रौघहारिणी मातः शिरसा प्रणमाम्यहम् ॥१७॥
जगन्माता जगत्कर्त्री जगदाधाररूपिणी ।
जयप्रदा जानकी च शिरसा प्रणमाम्यहम् ॥१८॥
जानकीशप्रिया त्वं हि जनकोत्सवदायिनी ।
जीवात्मनां च त्वं मातः शिरसा प्रणमाम्यहम् ॥१९॥
झिञ्जीरवस्वना देवि झञ्झावातनिवारिणी ।
झर्झरप्रियवाद्या च शिरसा प्रणमाम्यहम् ॥२०॥
अर्थप्रदायिनीं त्वं हि त्वञ्च ठकाररूपिणी ।
ढक्कादिवाद्यप्रणया डम्फवाद्यविनोदिनी॥
डमरूप्रणया मातः शिरसा प्रणमाम्यहम् ॥२१॥
तप्तकाञ्चनवर्णाभा त्रैलोक्यलोकतारिणी ।
त्रिलोकजननी लक्ष्मि शिरसा प्रणमाम्यहम् ॥२२॥
त्रिलोक्यसुन्दरी त्वं हि तापत्रयनिवारिणी ।
त्रिगुणधारिणी मातः शिरसा प्रणमाम्यहम् ॥२३॥
त्रैलोक्यमङ्गला त्वं हि तीर्थमूलपदद्वया ।
त्रिकालज्ञा त्राणकर्त्री शिरसा प्रणमाम्यहम् ॥२४॥
दुर्गतिनाशिनी त्वं हि दारिद्र्यापद्विनाशिनी ।
द्वारकावासिनी मातः शिरसा प्रणमाम्यहम् ॥२५॥
देवतानां दुराराध्या दुःखशोकविनाशिनी ।
दिव्याभरणभूषाङ्गी शिरसा प्रणमाम्यहम् ॥२६॥
दामोदरप्रिया त्वं हि दिव्ययोगप्रदर्शिनी ।
दयामयी दयाध्यक्षी शिरसा प्रणमाम्यहम् ॥२७॥
ध्यानातीता धराध्यक्षा धनधान्यप्रदायिनी ।
धर्मदा धैर्यदा मातः शिरसा प्रणमाम्यहम् ॥२८॥
नवगोरोचना गौरी नन्दनन्दनगेहिनी ।
नवयौवनचार्वङ्गी शिरसा प्रणमाम्यहम् ॥२९॥
नानारत्नादिभूषाढ्या नानारत्नप्रदायिनी ।
निताम्बिनी नलिनाक्षी लक्ष्मि देवि नमोऽस्तु ते ॥३०॥
निधुवनप्रेमानन्दा निराश्रयगतिप्रदा ।
निर्विकारा नित्यरूपा लक्ष्मि देवि नमोऽस्तु ते ॥३१॥
पूर्णानन्दमयी त्वं हि पूर्णब्रह्मसनातनी ।
परा शक्तिः परा भक्तिर्लक्ष्मि देवि नमोऽस्तु ते ॥३२॥
पूर्णचन्द्रमुखी त्वं हि परानन्दप्रदायिनी ।
परमार्थप्रदा लक्ष्मि शिरसा प्रणमाम्यहम् ॥३३॥
पुण्डरीकाक्षिणी त्वं हि पुण्डरीकाक्षगेहिनी ।
पद्मरागधरा त्वं हि शिरसा प्रणमाम्यहम् ॥३४॥
पद्मा पद्मासना त्वं हि पद्ममालाविधारिणी ।
प्रणवरूपिणी मातः शिरसा प्रणमाम्यहम् ॥३५॥
फुल्लेन्दुवदना त्वं हि फणिवेणिविमोहिनी ।
फणिशायिप्रिया मातः शिरसा प्रणमाम्यहम् ॥३६॥
विश्वकर्त्री विश्वभर्त्री विश्वत्रात्री विश्वेश्वरी ।
विश्वाराध्या विश्वबाह्या लक्ष्मि देवि नमोऽस्तु ते ॥३७॥
विष्णुप्रिया विष्णुशक्तिर्बीजमन्त्रस्वरूपिणी ।
वरदा वाक्यसिद्धा च शिरसा प्रणमाम्यहम् ॥३८॥
वेणुवाद्यप्रिया त्वं हि वंशीवाद्यविनोदिनी ।
विद्युद्गौरी महादेवि लक्ष्मी देवि नमोऽस्तु ते ॥३९॥
भुक्तिमुक्तिप्रदा त्वं हि भक्तानुग्रहकारिणी ।
भवार्णवत्राणकर्त्री लक्ष्मि देवि नमोऽस्तु ते ॥४०॥
भक्तप्रिया भागीरथी भक्तमङ्गलदायिनी ।
भयादा भयदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥४१॥
मनोऽभीष्टप्रदा त्वं हि महामोहविनाशिनी ।
मोक्षदा मानदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥४२॥
महाधन्या महामान्या माधवस्यात्ममोहिनी ।
मुखराप्राणहन्त्री च लक्ष्मि देवि नमोऽतु ते ॥४३॥
यौवनपूर्णसौन्दर्या योगमाया तथेश्वरी ।
युग्मश्रीफलवृक्षा च लक्ष्मि देवि नमोऽस्तु ते ॥४४॥
युग्माङ्गदविभूषाढ्या युवतीनां शिरोमणिः ।
यशोदासुतपत्नी च लक्ष्मि देवि नमोऽस्तु ते ॥४५॥
रूपयौवनसम्पन्ना रत्नालङ्कारधारिणी ।
राकेन्दुकोटिसौन्दर्या लक्ष्मि देवि नमोऽस्तु ते ॥४६॥
रमा रामा रामपत्नी राजराजेश्वरी तथा ।
राज्यदा राज्यहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ॥४७॥
लीलालावण्यसम्पन्ना लोकानुग्रहकारिणी ।
ललना प्रीतिदात्री च लक्ष्मि देवि नमोऽस्तु ते ॥४८॥
विद्याधरी तथा विद्या वसुदा त्वन्तु वन्दिता ।
विन्ध्याचलवासिनी च लक्ष्मि देवि नमोऽस्तु ते ॥४९॥
शुभकाञ्चनगौराङ्गी शङ्खकङ्कणधारिणी ।
शुभदा शीलसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ॥५०॥
षट्चक्रभेदिनी त्वं हि षडैश्वर्यप्रदायिनी ।
षोडशी वयसा त्वन्तु लक्ष्मि देवि नमोऽस्तु ते ॥५१॥
सदानन्दमयी त्वं हि सर्वसम्पत्तिदायिनी ।
संसारतारिणी देवि शिरसा प्रणमाम्यहम् ॥५२॥
सुकेशी सुखदा देवि सुन्दरी सुमनोरमा ।
सुरेश्वरी सिद्धिदात्री शिरसा प्रणमाम्यहम् ॥५३॥
सर्वसङ्कटहन्त्री त्वं सत्यसत्त्वगुणान्विता ।
सीतापतिप्रिया देवि शिरसा प्रणमाम्यहम् ॥५४॥
हेमाङ्गिनी हास्यमुखी हरिचित्तविमोहिनी ।
हरिपादप्रिया देवि शिरसा प्रणमाम्यहम् ॥५५॥
क्षेमङ्करी क्षमादात्री क्षौमवासोविधारिणी ।
क्षीणमध्या च क्षेत्राङ्गी लक्ष्मि देवि नमोऽस्तु ते ॥५६॥
॥ फलश्रुति ॥
श्री शङ्कर उवाच
अकारादि क्षकारान्तं लक्ष्मीदेव्याः स्तवं शुभम् ।
पठितव्यं प्रयत्नेन त्रिसन्ध्यञ्च दिने दिने ॥५७॥
पूजनीया प्रयत्नेन कमला करुणामयी ।
वाञ्छाकल्पलता साक्षाद्भुक्तिमुक्ति प्रदायिनी ॥५८॥
इदं स्तोत्रं पठेद्यस्तु शृणुयात् श्रावयेदपि ।
इष्टसिद्धिर्भवेत्तस्य सत्यं सत्यं हि पार्वति ॥५९॥
इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिसंयुतः ।
तञ्च दृष्ट्वा भवेन्मूको वादी सत्यं न संशयः ॥ ६०॥
शृणुयाछ्रावयेद्यस्तु पठेद्वा पाठयेदपि ।
राजानो वशमायान्ति तं दृष्ट्वा गिरिनन्दिनि ॥६१॥
तं दृष्ट्वा दुष्टसङ्घाश्च पलायन्ते दिशो दश ।
भूतप्रेतग्रहा यक्षा राक्षसाः पन्नगादयः॥
विद्रवन्ति भयार्ता वै स्तोत्रस्यापि च कीर्तनात् ॥६२॥
सुराश्च ह्यसुराश्चैव गन्धर्वकिन्नरादयः ।
प्रणमन्ति सदा भक्त्या तं दृष्ट्वा पाठकं मुदा ॥६३॥
धनार्थी लभते चार्थ पुत्रार्थी च सुतं लभेत् ।
राज्यार्थी लभते राज्यं स्तवराजस्य कीर्तनात् ॥६४॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महापापोपपापञ्च तरन्ति स्तवकीर्तनात् ॥६५॥
गद्यपद्यमयी वाणी मुखात्तस्य प्रजायते ।
अष्टसिद्धिमवाप्नोति लक्ष्मीस्तोत्रस्य कीर्तनात् ॥६६॥
वन्ध्या चापि लभेत् पुत्रं गर्भिणी प्रसवेत्सुतम् ।
पठनात्स्मरणात् सत्यं वच्मि ते गिरिनन्दिनि ॥६७॥
भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु ।
भक्त्या सम्पूजयेद्यस्तु गन्धपुष्पाक्षतैस्तथा ॥६८॥
धारयेद्दक्षिणे बाहौ पुरुषः सिद्धिकाङ्क्षया ।
योषिद्वामभुजे धृत्वा सर्वसौख्यमयी भवेत् ॥६९॥
विषं निर्विषतां याति अग्निर्याति च शीतताम् ।
शत्रवो मित्रतां यान्ति स्तवस्यास्य प्रसादतः ॥७०॥
बहुना किमिहोक्तेन स्तवस्यास्य प्रसादतः ।
वैकुण्ठे च वसेन्नित्यं सत्यं वच्मि सुरेश्वरि ॥७१॥
॥ अथ लक्ष्मीकवच ॥
लक्ष्मीर्मे चाग्रतः पातु कमला पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥७२॥
रामपत्नी प्रत्यङ्गे तु सदावतु रमेश्वरी ।
विशालाक्षी योगमाया कौमारी चकिणी तथा ॥७३॥
जयदात्री धनदात्री पाशाक्षमालिनी शुभा ।
हरिप्रिया हरिरामा जयङ्करी महोदरी ॥७४॥
कृष्णपरायणा देवी श्रीकृष्णमनोमोहिनी॥
जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥७५॥
सुखदा मोक्षदा देवी चित्रकूटवासिनी ।
भयं हरेत्सदा पायाद् भवबन्धाद्विमोचयेत् ॥७६॥
कवचन्तु महापुण्यं यः पठेत् भक्तिसंयुतः ।
त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ॥७७॥
पठनं कवचस्यास्य पुत्रधनविवर्धनम् ।
भीतिविनाशनञ्चैव त्रिषु लोकेषु कीर्तितम् ॥७८॥
भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु ।
धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥७९॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥८०॥
गर्भिणीं लभते पुत्रं वन्ध्या च गर्भिणी भवेत् ।
धारयेद्यदि कण्ठे च अथवा वामबाहुके ॥८१॥
यः पठेन्नियतो भक्त्या स एव विष्णुवद्भवेत् ।
मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ॥८२॥
पठेद्वा पाठयेद्वापि शृणुयाछ्रावयेदपि ।
सर्वपापविमुक्तस्तु लभते परमां गतिम् ॥८३॥
विपदि सङ्कटे घोरे तथा च गहने वने ।
राजद्वारे च नौकायां तथा च रणमध्यतः ।
पठनाद्धारणाद्यस्य जयमाप्नोति निश्चितम् ॥८४॥
अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयादपि ।
सुपुत्रं लभते सा तु दीर्घायुष्यं यशस्विनम् ॥८५॥
शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्रतः ।
सर्वान्कामानवाप्नोति सर्वबन्धाद्विमुच्यते ॥८६॥
मृतवत्सा जीववत्सा त्रिमासं शृणुयाद्यदि ।
रोगी रोगाद्विमुच्येत पठनान्मासमध्यतः ॥८७॥
लिखित्वा भूर्जपत्रे च ह्यथवा ताडपत्रके ।
स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् ॥८८॥
शृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि ।
यः पुमान्सततं तस्मिन्प्रसन्ना सर्व देवताः ॥८९॥
बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी ।
आद्या शक्तिः सदा लक्ष्मीर्भक्तानुग्रहकारिणी ।
धारके पाठके चैव निश्चला निवसेद् ध्रुवम् ॥९०॥
॥ इति श्रीकमला स्तोत्रं सम्पूर्णम् ॥
॥ श्रीकमलाष्टक ॥
न्यङ्कावरातिभयशङ्काकुले धृतदृगङ्कायतिः प्रणमतां
शङ्काकलङ्कयुतपङ्कायताश्मशितटङ्कायितस्वचरिता ।
त्वं कालदेशपदशङ्कातिपातिपतिसङ्काश वैभवयुता
शं काममातरनिशं कामनीयमिह सङ्काशयाशु कृपया ॥१॥
आचान्तरङ्गदलिमोचान्तरङ्गरुचिवाचां तरङ्गगतिभिः
काचाटनाय कटुवाचाटभावयुतनीचाटनं न कलये ।
वाचामगोचरसदाचारसूरिजनताचातुरीविवृतये
प्राचां गतिं कुशलवाचां जगज्जननि याचामि देवि भवतीम् ॥२॥
चेटीकृतामरवधूटीकराग्रधृतपेटीपुटार्घ्यसुमनो-
वीटीदलक्रमुकपाटीरपङ्कनवशाटीकृताङ्गरचना ।
खेटीकमानशतकोटीकराब्जजजटाटीरवन्दितपदा
या टीकतेऽब्जवनमाटीकतां हृदयवाटीमतीव कमला ॥३॥
स्वान्तान्तरालकृतकान्तागमान्तशतशान्तान्तराघनिकराः
शान्तार्थकान्तवकृतान्ता भजन्ति हृदि दान्ता दुरन्ततपसा ।
यां तानतापभवतान्तातिभीतजगतां तापनोदनपटुं
मां तारयत्वशुभकान्तारतोऽद्य हरिकान्ताकटाक्षलहरी ॥४॥
यां भावुका मनसि सम्भावयन्ति भवसम्भावनापहृतये
त्वं भासि लक्ष्मि सततं भाव्ययद्भवनसम्भावनादिविधये ।
जम्भारिसम्पदुपलम्भादिकारणमहं भाव्यमङ्घ्रियुगलं
सम्भावये श्रुतिषु सम्भाषितं वचसि सम्भाष्य तस्य तव च ॥५॥
दूरावधूतमधुधारागिरोच्चकुचभारानताङ्गलतिका-
साराङ्गलिप्तघनसारार्द्रकुङ्कुमरसा राजहंसगमना ।
वैराकरस्मरविकारापसंसरणवाराशिमग्रमनसः
श्रीराविरस्तु धुरि ताराय मे गुरुभिरारधिता भगवती ॥६॥
श्रीवासधूपकनदावासदीपरुचिरावासभूपरिसरा
श्रीवासदेशलसदावापकाशरदभावाभकेशनिकरा ।
श्रीवासुदेवरमणी वामदेवविधिदेवाधिपावनपरा
श्रीवासवस्तुनरदेवाहतस्तुतिसभावा मुदेऽस्तु सुतराम् ॥७॥
भाषादिदेवकुलयोषामणिस्तवनघोषाञ्चितस्वसविधा
दोषाकुले जगति पोषाकुला सपदि शेषाहि शायिदयिता ।
दोषालयस्य मम दोषानपोह्य गतदोषाभिनन्द्यमहिमा
शेषाशनाहिरिपुशेषादिसम्पद विशेषां ददातु विभवान् ॥८॥
॥ इति श्रीकमलाष्टकं सम्पूर्णम् ॥
॥ श्रीकमलाम्बिकास्तोत्रं ॥
बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥१॥
श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥२॥
माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥३॥
बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥४॥
आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥५॥
षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥६॥
योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥७॥
बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥८॥
इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥९॥
॥ इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।