Headlines

षोडशोपचार पूजन विधि मंत्र – क्या है ?

षोडशोपचार पूजन विधि मंत्र - क्या है ? षोडशोपचार पूजन विधि मंत्र - क्या है ?

पूजा क्या है ? पञ्चोपचार अथवा सरल पूजा विधि।

षोडशोपचार पूजन विधि मंत्र

सर्व देव पूजा पद्धति (पुरुषसूक्त से)

आवाहन : ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिᳪ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥१॥ इदं आवाहन पुष्पं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥
(किसी भी प्रतिमा में केवल प्रथम बार ही प्राण-प्रतिष्ठा की जाती है। यदि नयी प्रतिमा हो तो प्राण-प्रतिष्ठा भी करें)

आसन : पुरुष एवेदᳪ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
इदं आसनं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

पाद्य : एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
इदं पाद्यं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

अर्घ्य : त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥
इदं अर्घ्यं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

आचमन : ततो विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
इदं आचमनीयं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

स्नान : तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥६॥
इदं स्नानानीयं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

वस्त्र : तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दाᳪसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥
इदं वस्त्रं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥
वस्त्रान्ते आचमनीयं …..

यज्ञोपवीत : तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥८॥
इदं यज्ञोपवीतं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥
यज्ञोपवीतान्ते आचमनीयं ……

गंध (चंदन) : तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥९॥
इदं चन्दनं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

पुष्प (फूल, माला, तुलसी) : यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखंकिमस्यासीत्किंबाहू किमूरूपादाउच्येते ॥१०॥
इदं पुष्पं/पुष्प माल्यं/तुलसीदलं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

धूप : ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्याᳪ शूद्रो अजायत ॥११॥
एष धूपः ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

दीप : चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥
एष दीपः ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

नैवेद्य : नाभ्या आसीदन्तरिक्षᳪ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥१३॥
एतानि नैवेद्यानि ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥
नैवेद्यान्ते आचमनीयं ……

ताम्बूल : यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१४॥
इदं ताम्बूल-पुंगीफल-एला-लवंगादि-सहितं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

आरती/प्रदक्षिणा : सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥
इदं आरार्तिकं/प्रदक्षिणां ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

पुष्पाञ्जलि : यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥
एष मंत्र पुष्पाञ्जलिं ॐ भूर्भुवः स्वः भगवते श्रीविष्णवे नमः॥

देवी पूजा विधि (श्री सूक्त से)

आवाहन : ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
इदं आवाहन पुष्पं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥
(किसी भी प्रतिमा में केवल प्रथम बार ही प्राण-प्रतिष्ठा की जाती है। यदि नयी प्रतिमा हो तो प्राण-प्रतिष्ठा भी करें)

आसन : तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
इदं आसनं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

पाद्य : अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥३॥
इदं पाद्यं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

अर्घ्य : कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
इदं अर्घ्यं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

आचमन : चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥ इदं आचमनीयं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

स्नान : आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥ इदं स्नानानीयं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

वस्त्र : उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
इदं वस्त्रं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥
वस्त्रान्ते आचमनीयं …..

आभूषण : क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥
इदं भूषणं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

गंध (चन्दन, सिंदूर, हरिद्रा चूर्ण आदि) : गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
इदं चन्दनं/सिन्दूरं(सपुष्पं) ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

पुष्प (फूल, माला, बेलपत्र आदि) : मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
इदं पुष्पं/माल्यं/बिल्वपत्रं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥ साथ ही अन्य शृंगार भी प्रदान करें।

धूप : कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
एष धूपः ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

दीप : आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
एष दीपः ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

नैवेद्य : आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
एतानि नैवेद्यानि ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥
नैवेद्यान्ते आचमनीयं ……

ताम्बूल : आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
इदं ताम्बूल-पुंगीफल-एला-लवंगादि-सहितं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

आरती/प्रदक्षिणा : तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥१५॥ इदं आरार्तिकं/प्रदक्षिणां ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

पुष्पाञ्जलि : यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥
एष मंत्र पुष्पाञ्जलिं ॐ भूर्भुवः स्वः भगवत्यै श्रीदुर्गादेव्यै नमः॥

इसी तरह शिवपूजन में रुद्रसूक्त से पूजा की जाती है। यदि अनुपनीत या स्त्री पूजा करे तो पौराणिक मंत्रों से करे जो अन्य आलेख में प्रस्तुत किया जायेगा।

नित्य कर्म पूजा पद्धति मंत्र

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply