॥ शान्त्याऽध्याय ॥
ॐ ऋचंव्वाचम्प्रपद्ये मनोयजु: प्रपद्ये सामप्प्राणम्प्रपद्ये चक्षु: श्रोत्रम्प्रपद्ये । व्वागोजः सहौजोमयि प्प्राणापानौ ॥१॥
यन्मेच्छिद्द्रञ्चक्षुषो हृदयस्य मनसोव्वाति तृण्णम्बृहस्प्पतिर्म्मे तद्दधातु । शन्नो भवतु भुवनस्ययस्प्पति: ॥२॥
भूर्ब्भुवः स्वः तत्सवितुर्व्वरेण्यम्भर्गोदेवस्य धीमहि । धियो यो नः प्प्रचोदयात् ॥३॥
कयानश्च्चित्रऽ आभुवदूती सदावृधः सखा । कयाशचिष्ठ्ठयाव्वृता ॥४॥
कस्त्वासत्योमदानाम्म ᳪ हिष्ठ्ठोमत्सदन्धसः । दृढाचिदारुजेव्वसु ॥५॥
अभीषुणः सखीनामविताजरितृणाम् । शतम्भवास्यूतिभि: ॥६॥
कयात्वन्नऽऊत्याभिप्प्रमन्दसेव्वृषन् । कयास्तोतृब्भ्यऽआभर ॥७॥
इन्द्रोव्विश्श्वस्यराजति । शन्नोऽअस्तुद्विपदे शञ्चतुष्ष्पदे ॥८॥
शन्नोमित्रः शम्व्वरुणः शन्नो भवत्वर्य्यमा । शन्नऽइन्द्रो बृहस्प्पति शन्नोव्विष्ष्णुरुरुक्क्रमः ॥९॥
शन्नोव्वातः पवता ᳪ शन्नस्तपतुसूर्य्यः । शन्नः कनिक्क्रदद्देवः पर्ज्जन्न्योऽअभिवर्षतु ॥१०॥
अहानि शम्भवन्तुनः श ᳪ रात्री: प्प्रतिधीयताम् । शन्नऽइन्द्राग्ग्नी भवतामवोभि: शन्नऽइन्द्रावरुणारातहव्व्या । शन्न ऽइन्द्रापूषणा व्वाजसातौशमिन्द्रा सोमासुवितायशंय्यो: ॥११॥
शन्नोदेवीरभिष्ट्टयऽआपो भवन्तु पीतये । शंय्योरभिस्रवन्तुनः ॥१२॥
स्योना पृथिविनोभवानृक्षरानिवेशनी । यच्छानः शर्म्म सप्प्रथा: ॥१३॥
आपोहिष्ठ्ठामयोभुवस्तान ऽऊर्ज्जेदधातन । महेरणाय चक्षसे ॥१४॥
यो वः शिवतमोरसस्तस्यभाजयतेहनः । उशतीरिवमातरः ॥१५॥
तस्माऽअरङ्गमामवो यस्यक्षयायजिन्वथ । आपोजनयथा च नः ॥१६॥
द्यौ: शान्तिरन्तरिक्ष ᳪ शान्ति: पृथिवीशान्तिरापः शान्तिरोषधयः शान्ति: । व्वनस्प्पतयः शान्तिर्व्विश्वेदेवा: शान्तिर्ब्ब्रह्म शान्ति: सर्व्व ᳪ शान्ति: शान्तिरेवशान्ति: सामा शान्तिरेधि ॥१७॥
दृतेदृ ᳪ हमामित्रस्यमाचक्षुषा सर्व्वानि भूतानि समीक्षन्ताम् । मित्रस्याहञ्चक्षुषा सर्व्वानि भूतानिसमीक्षे । मित्रस्य चक्षुषा समीक्षामहे ॥१८॥
दृतेदृ ᳪ हमा । ज्ज्योक्क्तेसन्दृशि जीव्व्यासञ्ज्योक्क्ते सन्दृशिजीव्व्यासम् ॥१९॥
नमस्ते हरसे शोचिषे नमस्तेऽअस्त्वर्च्चिषे । अन्न्याँस्तेऽअस्म्मत्तपन्तुहेतयः पावकोऽअस्म्मब्भ्य ᳪ शिवोभव ॥२०॥
नमस्तेऽअस्तु व्विद्युते नमस्तेस्तनयित्नवे । नमस्ते भगवन्नस्तु यतः स्वः समीहसे ॥२१॥
यतोयतः समीहसे ततोनोऽअभयङ्कुरु । शन्नः कुरुप्प्रजाब्भ्योऽभयन्नः पशुब्भ्यः ॥२२॥
सुमित्रियानऽआपऽओषधयः सन्तुदुर्म्मित्रियास्तस्म्मै सन्तु योऽस्म्मान्द्वेष्ट्टि यञ्च वयन्द्विष्म्मः ॥२३॥
तच्चक्षुर्द्देवहितम्पुरस्ताच्च्छुक्क्रमुच्चरत् । पश्येमशरदः शतञ्जीवेमशरदः शत ᳪ श्रृणुयामशरदः शतं प्रब्बाम शरदः शतमदीना: स्यामशरदः शतम्भूयश्च्च शरदः शतात् ॥२४॥
॥ इति रुद्राष्टाध्यायी शान्त्याऽध्याय ॥
बहुत सुन्दर
बहुत-बहुत धन्यवाद
नवीनतम अनुप्रयोग सत्यनाराण व्रत-पूजा-कथा
(स्कंदोक्त और भविष्योक्त दोनों)
संपूर्ण कर्मकांड विधि द्वारा कर्मकांड विषयक अनुप्रयोग विकसित किये जा रहे हैं और अभी नवीनतम अनुप्रयोग सत्यनाराण व्रत-पूजा-कथा प्ले स्टोर पर अपलोड किया गया है। इसमें स्कंदपुराणोक्त और भविष्यपुराणोक्त दोनों पूजा विधि और कथा का संकलन किया गया है। जिनका ईमेल पूर्व से जांचकर्त्ता के रूप में पूर्व से पंजीकृत हैं वो इंस्टॉल कर सकते हैं। जिनका ईमेल पंजीकृत नहीं है वो अपना ईमेल व्यक्तिगत रूप से प्रदान कर सकते हैं।
ऐप का लिंक : https://play.google.com/store/apps/details?id=com.satyanarayan.vrat
यदि आप सभी अनुप्रयोग (प्ले स्टोर पर उपलब्ध) देखना चाहें तो दो लिंक है –
https://play.google.com/store/apps/dev?id=7754609276600313515
https://karmkandvidhi.com/app