रुद्री का दूसरा अध्याय – ॥ द्वितीयोऽध्यायः ॥
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि ᳪ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
पुरुष ऽएवेद ᳪ सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
त्रिपादूर्ध्व ऽउदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने ऽअभि ॥४॥
ततो विराडजायत विराजो ऽअधि पूरुषः ।
स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥६॥
तस्माद्यज्ञात् सर्वहुत ऽऋचः सामानि जज्ञिरे ।
छन्दा ᳪ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥
तस्मादश्वा ऽअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः ॥८॥
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा ऽअयजन्त साध्या ऽऋषयश्च ये ॥९॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत्किम्बाहू किमूरू पादा ऽउच्येते ॥१०॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्या ᳪ शूद्रो ऽअजायत ॥११॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽअजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥
नाभ्या ऽआसीदन्तरिक्ष ᳪ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ऽकल्पयन् ॥१३॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म ऽइध्मः शरद्धविः ॥१४॥
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना ऽअबध्नन् पुरुषं पशुम् ॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥
अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥१७॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वाति मृत्युमत्येति नान्यः पन्था विद्यतेऽयनाय ॥१८॥
प्रजापतिश्चरति गर्भे ऽअन्तरजायमानो बहुधा विजायते ।
तस्य योनिम् परिपश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥१९॥
यो देवेभ्य ऽआतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥२०॥
रुचं ब्राह्मं जनयन्तो देवा ऽअग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा ऽअसन् वशे ॥२१॥
श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुं म ऽइषाण । सर्वलोकं म ऽइषाण ॥२२॥
इति रुद्राष्टाध्यायी द्वितीयोऽध्यायः ॥२॥
बहुत सुन्दर
बहुत-बहुत धन्यवाद
नवीनतम अनुप्रयोग सत्यनाराण व्रत-पूजा-कथा
(स्कंदोक्त और भविष्योक्त दोनों)
संपूर्ण कर्मकांड विधि द्वारा कर्मकांड विषयक अनुप्रयोग विकसित किये जा रहे हैं और अभी नवीनतम अनुप्रयोग सत्यनाराण व्रत-पूजा-कथा प्ले स्टोर पर अपलोड किया गया है। इसमें स्कंदपुराणोक्त और भविष्यपुराणोक्त दोनों पूजा विधि और कथा का संकलन किया गया है। जिनका ईमेल पूर्व से जांचकर्त्ता के रूप में पूर्व से पंजीकृत हैं वो इंस्टॉल कर सकते हैं। जिनका ईमेल पंजीकृत नहीं है वो अपना ईमेल व्यक्तिगत रूप से प्रदान कर सकते हैं।
ऐप का लिंक : https://play.google.com/store/apps/details?id=com.satyanarayan.vrat
यदि आप सभी अनुप्रयोग (प्ले स्टोर पर उपलब्ध) देखना चाहें तो दो लिंक है –
https://play.google.com/store/apps/dev?id=7754609276600313515
https://karmkandvidhi.com/app