अर्क विवाह विधि । जानिये अर्क विवाह क्या होता है ? अर्क विवाह पद्धति pdf के साथ

अर्क विवाह विधि । जानिये अर्क विवाह क्या होता है ? अर्क विवाह पद्धति pdf के साथ

सूर्यप्रार्थना : ततः आचम्य वरः अर्कस्य पुरतस्तिष्ठन् सूर्यं प्रार्थयेत् – त्रैलोक्यव्यापिन् सप्ताश्व छायया सहितो रवे। तृतीयोद्वाहजं दोषं निवारय सुखं कुरु ।

ततो वरोऽर्कं प्रदक्षिणीकुर्यात् । तत्र मन्त्रः –

  • मम प्रीतिकरा चेयं मया सृष्टा पुरातनी । अर्कजा ब्रह्मणा सृष्टा अस्माकं परिरक्षतु ॥ इति पठित्वा पुनः प्रदक्षिणीकुर्वन् प्रार्थयेत् ( प्रथमवारम् )
  • नमस्ते मङ्गले दैवि नमः सवितुरात्मजे। त्राहि मां कृपया देवि पत्नी त्वं मद्गृहागता ॥ द्वितीयप्रदक्षिणायाम् ।
  • अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च। वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्द्धनः ॥ तृतीयोद्वाहजं दोषं मृत्युञ्चाशु निवारय ॥ इति तृतीयप्रदक्षिणायाम् ।

अग्निस्थापन : ततः पंचभूसंस्कारपूर्वकमग्निस्थापनं कृत्वा प्राङ्मुखः अर्कसमीपे तिष्ठेत ।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवा इत्यादि स्वस्तिसूक्तं पठन्नर्कं निरीक्षेत् ।

अर्क विवाह
अर्क विवाह

ततः आचार्यः विप्रैः वराय आशिषो दत्त्वा अमुकगोत्राय अमुकशर्मणे वराय तुभ्यमहं संप्रददे ॥ ॐ अर्ककन्यामिमां विप्र यथाशक्तिविभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रय ॥

दक्षिणा : ॐ अद्य कृतैतदर्ककन्यादानप्रतिष्ठार्थमिदं सुवर्णमग्निदैवतं अमुकगोत्राय अमुकशर्मणे वराय तुभ्यमहं संप्रददे ॥ इति दक्षिणां सुवर्णं वा दद्यात् ।

ततः ॐ स्वस्तीति प्रतिगृह्य वरः – यज्ञो मे कामः समृध्यताम् । धर्मो मे कामः समृध्यताम् । यशो मे कामः समृध्यताम् इति त्रीन् अक्षताञ्जलीन् अर्कोपरि क्षिपेत् ततः सूत्रेणाञ्चलग्रन्थिबन्धनं कृत्वा पञ्चगुणीकृतेन कुंकुमाक्तेन सूत्रेण गायत्र्या “परित्वा” इत्यादि मन्त्रैर्वा पञ्चवारमर्कमावेष्टयेत् ।

यत्र मन्त्राः-

  • ॐ परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनुवृद्धायो जुष्टा भवन्तु जुष्टयः ॥१॥
  • इन्द्रस्यूरसींद्रस्य ध्रुवोऽसि । ऐन्द्रमसि वैश्वदेवमसि ॥२॥
  • विभुरसि प्रवाहणो वह्निरसि हव्यवाहनः श्वात्रोऽसि प्रचेतास्तुथोऽसि विश्ववेदाः ॥३॥
  • उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान् शुन्ध्यूरसि मार्जालीयः सम्राडसि कृशानुः परिषद्योऽसि पवमानो नभोऽसि प्रतक्वा मृष्टोऽसि हव्यसूदन ऋतधामासि स्वज्योतिः ॥४॥
  • समुद्रोऽसि विश्वव्यचा अजोऽस्येकपादहिरसि बुध्न्यो वागस्यैन्द्रमसि सदोऽस्यतस्य द्वारो मा मा संताप्तमध्वनामध्वपते प्रमातिरस्वस्तिमेऽस्मिन्पथि देवयान भूयात् ॥५॥
  • मित्रस्य मा चक्षुषेक्षध्वमग्नयः सगराः सगराः स्थ सगरेण नाम्ना रौद्रेणानीकेन पात माग्नयः । पितृतमाग्नयो गोपायत मा नमो वोऽस्तु मामाहि ᳪ सिष्ठ ॥६॥
  • ज्योतिरसि विश्वरूपं विश्वेषां देवानां समित् ॥ त्व ᳪ सोमतनूकृद्भयो द्वेषेभ्योऽन्यकृतेभ्य उरुयन्तासि वरूथ ᳪ स्वाहा जुषाणो अप्तुराज्यस्य वेतु स्वाहा ॥७॥
  • अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्ति विधेम ॥८॥
  • अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं वाजाज्जयतु वाजसाता वय ᳪ शत्रूञ्जयतु जर्हृषाणः स्वाहा ॥९॥
  • उरु विष्णोः विक्रमस्वोरु क्षयात नस्क्रधि । घृतं घृतयोने दिवः प्रप्रयज्ञपतिं तिरः स्वाहा ॥१०॥

इति मन्त्रैरर्कवृक्षोपरि सूत्रमावेष्ट्य पुनः तत्सूत्रं पंचगुणं कृत्वा अर्कस्कन्धे बद्ध्वा ॐ बृहत्सामक्षत्रभृद् वृद्धवृष्ण्यं त्रिष्टुभोजः शुभितमुग्रवीरम् । इन्द्रस्तोमेन पंचदशेन मध्यमिदं वातेन सगरेण रक्ष ॥ इति रक्षां कुर्यात् ।

हवन

  • ॐ प्रजापतये स्वाहा इदं प्रजापतये ॥ इति मनसा )
  • ॐ इन्द्राय स्वाहा इदमिन्द्राय इत्याधारौ ॥
  • ॐ अग्नये स्वाहा इदमग्नये ॥
  • ॐ सोमाय स्वाहा इदं सोमाय ॥ (इत्याज्यभागौ)
  • ॐ सङ्गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । जने मित्रो न दम्पती अनक्तिबृहस्पते वाजयाशूंरिवाजौ स्वाहा । इदं बृहस्पतये ॥
  • ॐ यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाथेदं त्वं घृतं पिब स्वाहा । इदमग्नये ॥
  • ॐ भूः स्वाहा इदमग्नये ॥
  • ॐ भुवः स्वाहा इदं वायवे ॥
  • ॐ स्वः स्वाहा इदं सूर्याय ॥
  • ॐ भूर्भुवः स्वः स्वाहा इदं प्रजापतये ॥

पंचमदिवसे पूर्ववत्पूजयित्वा तिलककरणविप्राशीः पूर्वकमग्निं विसृज्य सूर्याय अर्घं दत्त्वा कंकणमोचनम् । ततो मानुषीमुद्वहेत् ॥

अर्क विवाह पद्धति pdf

अर्क विवाह पद्धति pdf download करने के लिये यहां क्लिक करें।

सारांश : विश्लेषण का सारांश यह है कि अर्कविवाह का प्रयोजन तृतीय मानुषी विवाह होने पर जो अरिष्ट संभावित होता है उसका निवारण करना होता है न कि वर की कुण्डली में उपस्थित मांगलिक दोष का निवारण। जो लोग मांगलिक दोष निवारण के लिये अर्कविवाह बताते और कराते हैं वह शास्त्र विरुद्ध कार्य करते हैं। वर के किसी दोष की शांति हो या न हो स्वयं शास्त्रविरुद्ध आडम्बर के दोषी हो जाते हैं।

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply