देवोत्थान एकादशी पूजा विधि एवं मंत्र – Dev uthani ekadashi mantra

देवोत्थान-एकादशी-पूजा-विधि-एवं-मंत्र

आसन – ॐ कार्तस्वरमयं दिव्यं नानागुणसमन्वितम् । अनेकशक्तिसंयुक्तमासनं प्रतिगृह्यताम् ॥ इदं पुष्पासनं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

पाद्य – ॐ यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं देवाय कल्पये ॥ इदं पाद्यं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

अर्घ्य – ॐ तापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम् ॥ इदं अर्घ्यं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

पूजा विधि
पूजा विधि

आचमन – ॐ देव देव नमस्तुभ्यं पुराणपुरुषोत्तम । मयानीतमिदं तोयं गृहीत्वाचमनं कुरु ॥ इदं आचमनीयं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

पञ्चामृत स्नान – ॐ पयो दधि घृतं चैव मधुशर्करयाऽन्वितम् । पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥ इदं पंचामृतस्नानीयं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

शुद्धोदक स्नान – ॐ परमानन्दबोधश्री निमग्ननिज मूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामि प्रसीद मे ॥ इदं शुद्धोदकस्नानीयं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

स्नानाङ्गाचमन – स्नानाङ्गमाचमनीयं । ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

वस्त्र – ॐ तन्तुसन्तानसंयुक्तं कलाकौशेयकल्पितम्। पीतवस्त्रं शुभं देव कृपया परिगृह्यताम् ॥ इमे वस्त्रोपवस्त्रे ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

वस्त्राङ्गाचमन – वस्त्राङ्गाचमनीयं । ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

यज्ञोपवीत – ॐ यस्य शक्तित्रयेणेदं सम्प्रोक्तं सचराचरं । यज्ञरूपाय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ इमे यज्ञोपवीते ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

एकादशी पूजा विधि
एकादशी पूजा विधि

यज्ञोपवीताङ्गाचमन – यज्ञोपवीताङ्गाचमनीयं । ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

चन्दन – ॐ श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥ इदमनुलेपनं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥

Leave a Reply