- तिल जौ – ॐ तिला यवाः सुरश्रेष्ठ कम्बूजाश्च सुशोभनाः । मया निवेदिता भक्त्या तान् गृहाण सुरेश्वर ॥ एते यवतिलाः ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- पुष्प – ॐ सुगन्धीनि सुपुष्पाणि देशकालोद्भवानि च । मयानीतानि पूजार्थं प्रीत्या स्वीकुरु तानि मे॥ इदं पुष्पं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- माला – ॐ नानापुष्पविचित्राढयां पुष्पमालां सुशोभनाम् । प्रयच्छामि च देवेश गृहाण परमेश्वर ॥ इदं पुष्पमाल्यं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- तुलसी – ॐ तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥ एतानि तुलसीदलानि ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- धूप – ॐ वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः । आघ्रयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ एष धूपः ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- दीप – ॐ आज्यं सद्वर्ति संयुक्तं वह्निना योजितं मया। दीपं गृहाण देवेश त्रैलोक्यतिमिरापहं ॥ एष दीपः ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- नैवेद्य – ॐ अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् । मया निवेदितं देव नैवेद्यं प्रतिगृह्यताम् ॥ इदं नैवेद्यं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- फल – ॐ फलान्यमृतकल्पानि सुगन्धीन्यघनाशन । आनीतानि यथाशक्ति गृहाण परमेश्वर ॥ इदं फलं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- जल – ॐ मया निवेदितं शुद्धं प्रकृतिस्थं सुशीलतम् । परमानन्दसम्पूर्णं गृहाण जलमुत्तमम् ॥ इदं पानीयं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- ताम्बूल – ॐ नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् । कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ इदं ताम्बूलं ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- आभूषण अथवा आभूषण हेतु द्रव्य – ॐ काञ्चनं रजतोपेतं नानारत्नसमन्वितम् । भूषणार्थं च देवेश गृहाण जगतीपते ॥ इदं स्वर्णाभूषणं (भूषणार्थं द्रव्यं) ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
- पुष्पाञ्जलि – ॐ नमस्ते देवदेवेश नमस्ते गरुडध्वज । नमस्ते विष्णवे तुभ्यं व्रतस्य फलदायक ॥ एष मंत्रपुष्पाञ्जलिः ॐ भूर्भुवः स्वः भगवते श्री विष्णवे नमः॥
तत्पश्चात् कई ब्राह्मणों सहित अथवा अन्य सहयोगियों के साथ चौकी सहित भगवान का तीन बार उत्थापन करें। उत्थापन मंत्र –
ॐ ब्रह्मेन्द्र रुद्रैरभिवन्द्यमानो भवानृषिर्वन्दित वन्दनीयः ।
प्राप्ता तवेयं किल कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ॥१॥
ॐ मेघा गता निर्मलपूर्णचन्द्रः शारद्यपुष्पाणि मनोहराणि ।
अहं ददानीति च पुण्यहेतोर्जागृष्व जागृष्व च लोकनाथ ॥२॥
ॐ उचिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ।
त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥३॥