महागणपति कवच
रुद्रयामल तंत्र का विशेष महत्वपूर्ण स्थान है और इसमें वर्णित स्तोत्रों की भी विशेष महत्ता है। महागणपति कवच स्तोत्र रुद्रयामल से ही लिया गया है और इस कारण यह कवच विशेष महत्वपूर्ण है।
यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये ।
विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनायकाय ॥
उमासुतं देववरप्रसादं हरस्य पुत्रं गणवृन्दसेव्यम् ।
सुरासुराणां परमं पवित्रं विनायकं शूरमहं प्रपद्ये ॥१॥
श्रीपार्वत्युवाच
ॐ मन्नाथ जगतां नाथ मम प्रेरणकारण । गणेशस्य तु यन्मन्त्रं श्रुतं देव महेश्वर ॥२॥
इदानीं श्रोतुमिच्छामि कवचं तस्य दुर्लभम् । तद्वदस्व दयासिन्धो कृपया मम शङ्कर ॥३॥
श्री ईश्वर उवाच
शृणु देवि महाभागे गणेशकवचं परम् । यद्धृत्वा पठनात् सद्यो विघ्ननाशो भविष्यति ॥४॥
विष्णुना कथितं पुण्यं कवचं ब्रह्मणे मुदा । पठित्वा कृतवान् सृष्टिमेकभावः पितामहः ॥५॥
कवचस्यास्य देवस्य ऋषिर्देवो महेश्वरः । छन्दो विराट् देवता च गणेशो विघ्ननायकः ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥६॥
॥ श्रीमहागणपतये नमः ॥
विनियोग : ॐ अस्य श्रीमहागणपतिकवचस्तोत्रमहामन्त्रस्य, श्रीमहेश्वर ऋषिः, विराट् छन्दः, श्रीमहागणपतिर्देवता । श्रीमहागणपतिप्रसादसिद्ध्यर्थे धर्मार्थकाममोक्ष चतुर्विधफल पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
ॐ गं पातु मस्तकं देवो गणनाथो महाबलः ।
एकाक्षरो महामन्त्रो सर्वदेवनमस्कृतः ॥७॥
ॐ श्रीं ह्रीं क्लीं में च वदनं ग्लौं गं गणपते हृदयम् ।
वरद वरद मे नाभिदेशं सर्वजनं मे वशमानय ॥८॥
वसु बीजाक्षरो मन्त्रो वह्निजायात्मकस्तथा । सर्वाङ्गं मे सदा पातु सर्वदेवसुपूजितः ॥९॥
ह्रीं विरितिरि गणपति चैवावर वर वरद सर्वलोकं तथा ।
पातु मूलाधार नियतं मे वशमानय स्वाहा ॥१०॥
षड् विंशत्यक्षरो मन्त्रो शीघ्रकालफलपदः । पातु मां परितो देवः सर्वधर्मसमावृतम् ॥११॥
ह्रीं गं ह्रीं मम सर्व टङ्गं पातु श्रीमहागणपतये । वह्निजायात्मको मन्त्रो द्वादशाक्षरसंयुतः ॥१२॥
राजद्वारेजले मध्ये शून्ये गेहे श्मशानके । महागणपतिः पातु सर्वशत्रुनिबर्हणः ॥१३॥
ह्रीं गं श्रीं वशमानय द्वयेन समाद्यतः । दशाक्षरो महामन्त्रो सर्वकार्येषु रक्षतु ॥१४॥
गं क्षिप्रप्रसादनाय नमोऽन्तश्च महामनुः । दशाक्षरो मन्त्रराजो दशदिक्षु सदावतु ॥१५॥
हूं वक्रतुण्डाय नमः पातु मां दुर्गमेषु च । हुं वक्रतुण्डाय हुं च पातु मे नृहमेधयोः ॥१६॥
ॐ ग्रं नमः पातु नित्यं वेदवर्णात्मको मनुः । सर्वकार्येषु सर्वत्र पातु मां पार्वतीसुतः ॥१७॥
इति ते कथितं भद्रे कवचं परमाद्भुतम् । पठित्वा धारयित्वा च सर्वमाशु समालभेत् ॥१८॥
सकृद्वा यस्तु पठति कवचं देवदुर्लभम् । सर्वसिद्धियुतो भूत्वा देवतुल्यो भवेन्नरः ॥१९॥
ब्रह्मास्त्रादीनि चास्त्राणि तद्गात्रं प्राप्य पार्वति । माल्यानि चम्पकान्येव भविष्यन्ति न संशयः ॥२०॥
रामोऽपि कवचं धृत्वा जघानाशु निशाचरान् । धृत्वा तु कवचं लोके कुबेरोऽपि धनेश्वरः ॥२१॥
इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु । देवनामाधिपत्यं वै तथावाप महेश्वरि ॥२२॥
सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः । संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥२३॥
भजेद्विलिरूप कवचं धारयेद्भक्तितः परम् । यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥२४॥
गन्धर्वो गायते धीरः सर्वलोकवशङ्करः । कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥२५॥
न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च । अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥२६॥
भक्तिश्रद्धाविहीनाय परनिन्दापराय च । यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥२७॥
तस्य नश्यन्ति देवेशि पुत्रायुःकीर्तिसम्पदः । शिष्याय भक्तियुक्ताय गुरुभक्तिरताय च ॥२८॥
शान्ताय विष्णुभक्ताय शिवपूजापराय च । देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥२९॥
ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् । एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥३०॥
दारिद्रं परमं लब्ध्वा सोऽचिरान्मृत्युमाप्नुयात् । ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥३१॥
जगान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः । सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥३२॥
॥ इति श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे श्रीमहागणपतिकवचं समाप्तम् ॥
