विष्णु तर्पण
विष्णु तर्पण संकल्प : ॐ अद्यै …….. गोत्रस्य (गोत्रायाः) ……… प्रेतस्य (प्रेतायाः) दुर्मरण-दोषविनाशार्थं सद्गति प्राप्त्यर्थं श्रीविष्णुप्रसन्नार्थं विष्णुतर्पणमहं करिष्ये ॥
विष्णु तर्पण विधि
विष्णुतर्पण करने के लिए ताम्बे/मिट्टी के पात्र में जल, दूध, तिल, जौ, तुलसी, सर्वोषधि, चन्दन, फूल, फल रखकर तर्पण जल बना ले। एक अन्य पात्र में विष्णुप्रतिमा/शालिग्राम को रखे। सव्य-पूर्वाभिमुख दाहिने हाथ में शंख लेकर शालिग्राम पर जल गिराते हुये विष्णु-तर्पण करे। पहले पुरुषसूक्त की 16 ऋचाओं को पढ़कर प्रत्येक मन्त्र के अन्त में “भगवन् पापापहा विष्णुस्तृप्यताम्” कहकर जल दे ।
- ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि ᳪ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ पुरुष ऽएवेद ᳪ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ त्रिपादूर्ध्व ऽउदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने ऽअभि ॥४॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ ततो विराडजायत विराजो ऽअधि पूरुषः । स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥६॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ तस्माद्यज्ञात् सर्वहुत ऽऋचः सामानि जज्ञिरे । छन्दा ᳪ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ तस्मादश्वा ऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः ॥८॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा ऽअयजन्त साध्या ऽऋषयश्च ये ॥९॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्यासीत्किम्बाहू किमूरू पादा ऽउच्येते ॥१०॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्या ᳪ शूद्रो ऽअजायत ॥११॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽअजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ नाभ्या ऽआसीदन्तरिक्ष ᳪ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ऽकल्पयन् ॥१३॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म ऽइध्मः शरद्धविः ॥१४॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना ऽअबध्नन् पुरुषं पशुम् ॥१५॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
- ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥ भगवन् पापापहा विष्णुस्तृप्यताम् ॥
पुनः अगले नाममंत्रों मंत्रों से; तर्पण करे :
ॐ विष्णुस्तृप्यताम् ॥ ॐ गोविन्दस्तृप्यताम् ॥ ॐ केशवस्तृप्यताम् ॥ ॐमाधवस्तृप्यताम् ॥ ॐ श्रीधरस्तृप्यताम् ॥ ॐहृषीकेशस्तृप्यताम् ॥ ॐपद्मनाभस्तृप्यताम् ॥ ॐ पुरुषोत्तमस्तृप्यताम् ॥ ॐ अनिरुद्धस्तृप्यताम् ॥ ॐसङ्कर्षणस्तृप्यताम् ॥ ॐवासुदेवस्तृप्यताम् ॥ ॐ जनार्दनस्तृप्यताम् ॥ ॐअच्युतस्तृप्यताम् ॥ ॐ वामनस्तृप्यताम् ॥ ॐ पुण्डरीकाक्षस्तृप्यताम् ॥ ॐमधुसूदनस्तृप्यताम् ॥ ॐ दामोदरस्तृप्यताम् ॥ ॐ अनन्तस्तृप्यताम् ॥ ॐकृष्णस्तृप्यताम् ॥ ॐ आदिदेवस्तृप्यताम् ॥ ॐवैकुण्ठस्तृप्यताम् ॥ ॐश्रीपतिस्तृप्यताम् ॥ ॐ गोपालस्तृप्यताम् ॥ ॐ त्रिविक्रमस्तृप्यताम् ॥ ॐनारसिंहस्तृप्यताम् ॥ ॐरामचन्द्रस्तृप्यताम् ॥ ॐ नारायणस्तृप्यताम् ॥ ॐपीताम्बरस्तृप्यताम् ॥ ॐ त्रिपुरान्तकस्तृप्यताम् ॥ ॐ चतुर्भुजस्तृप्यताम् ॥ ॐपरमेष्ठीस्तृप्यताम् ॥ ॐ परमेश्वरस्तृप्यताम् ॥ ॐ हिरण्यगर्भस्तृप्यताम् ॥ ॐजगन्नाथस्तृप्यताम् ॥ ॐ गदाधरस्तृप्यताम् ॥ ॐगरुडवाहनस्तृप्यताम् ॥ ॐमुकुन्दस्तृप्यताम् ॥ ॐ धरणीधरस्तृप्यताम् ॥ ॐ देवकीनन्दनस्तृप्यताम् ॥ ॐ पापापहा महाविष्णुस्तृप्यताम् ॥
- ॐ अनादिनिधनोदेवः शङ्खचक्रगदाधरः । अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥ विष्णुस्तृप्यताम् ॥
- ॐ कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव। संसारार्णवमग्नानां प्रसीद परमेश्वर ॥ विष्णुस्तृप्यताम् ॥
- ॐ नारायण सुरश्रेष्ठ लक्ष्मीकान्त वरप्रद। अनेन तर्पणेनाथ प्रेतमोक्षप्रदो भव ॥ विष्णुस्तृप्यताम् ॥
जय त्वं देवदेवेश जयाजन्मजाक्षर। जयकामदभक्तानां प्रभोविष्णो नमोऽस्तु ते ॥
हिरण्यगर्भः पुरुषः प्रधानव्यक्तिरूपिणे । ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥
अच्युतानन्त गोविन्द विष्णो माधव केशव । अस्य जीवस्य मोक्षार्थं सुप्रीतो भव तर्पणात् ॥
अतसीपुष्पसङ्काशं पीतवास समच्युतम्। ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥