रामार्चा पूजा विधि – संपूर्ण विधि

रामार्चा पूजा विधि – संपूर्ण विधि
रामार्चा पूजा सामग्री
रामार्चा वेदी

॥ प्रथमावरण ॥

  1. माहेश्वरि ! नमस्तुभ्यमिहागच्छ शिवप्रिये । पूर्व भागे समातिष्ठ गृह्यतां पूजनं मम ॥ ॐ माहेश्वर्यै नमः ॥१॥
  2. गणाधिपो ! नमस्तुभ्यमिहागच्छ गजानन । पूर्व भागे समातिष्ठ पूजनं गृह्यतामिदम् ॥ ॐ गणाधिपतये नमः ॥२॥
  3. महाशक्ते ! नमस्तुभ्यमिहागच्छ शुभप्रदे । पूर्व भागे समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ महाशक्तये नमः ॥३॥
  4. महालक्ष्मि ! नमस्तुभ्यमिहागच्छ जगद्धिते ।‌ याम्य भागे समातिष्ठ पूजनं स्वीकुरुष्व मे ॥ ॐ महालक्ष्म्यै नमः ॥४॥
  5. महादुर्गे ! नमस्तुभ्यमिहागच्छ सुरार्चिते । पीठस्य पश्चिमे भागे तिष्ठ स्वीकुरु पूजनं ॥ ॐ महादुर्गायै नमः ॥५॥
  6. भो गायत्रि ! नमस्तुभ्यमिहागच्छ शुभप्रदे । तिष्ठ पीठोत्तरे भागे पूजनं प्रतिगृह्यताम् ॥ ॐ गायत्र्यै नमः ॥६॥
  7. भो सावित्री ! नमस्तुभ्यमिहागच्छ शुभप्रदे । तिष्ठ पीठोत्तरे भागे पूजनं स्वीकुरुष्व मे ॥ ॐ सावित्र्यै नमः ॥७॥
  8. सरस्वति ! नमस्तुभ्यमिहागच्छ शुचिव्रते । पीठस्योत्तरे भागे तिष्ठ पूजां प्रगृह्यताम् ॥ ॐ सरस्वत्यै नमः ॥८॥
  9. नमो वः सर्वमातृभ्यः इहागच्छत तिष्ठत । पीठस्योत्तरे भागे पूजनं प्रतिगृह्यताम् ॥ ॐ सर्वमातृभ्यो नमः ॥९॥
  10. सिद्धि देवि ! नमस्तुभ्यमिहागच्छ सुखप्रदे । ईशाने त्वं समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ सिद्धिदेव्यै नमः ॥१०॥
  11. बुद्धे ! नमोस्तुते मातरिहागच्छ सुभाषिणी । ईशाने हि समातिष्ठ पूजनं स्वीकुरुष्व मे ॥ ॐ बुद्धिदेव्यै नमः ॥११॥
  12. लोक मातर्नमस्तुभ्यमिहागच्छ शुभप्रदे । अग्निकोणे समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ लोकमात्रे नमः॥१२॥
  13. महादेवि ! नमस्तुभ्यमिहागच्छ वरानने । नैर्ऋत्ये तिष्ठ देवेशि पूजनं स्वीकुरुष्व मे ॥ ॐ महादेव्यै नमः ॥१३॥
  14. देवमातर्नमस्तुभ्यमिहागच्छ कृपाम्बुधे । वायव्ये देवि संतिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ देवमात्रे नमः ॥१४॥
  15. नमो वो वास्तुदेवेभ्यः इहागच्छतु तिष्ठतु । याम्यनैर्ऋत्ययोर्मध्ये पूजनं प्रतिगृह्यताम् ॥ ॐ वास्तुदेवेभ्यो नमः ॥१५॥
  16. नमो वो लोकपालेभ्यः इहागच्छतु तिष्ठतु । रक्षोवरुणयोर्मध्ये पूजनं प्रतिगृह्यताम् ॥ ॐ लोकपालेभ्यो नमः ॥१६॥
  17. भो मनोत्वमिहागच्छ नमस्तुभ्यं सुखप्रदे । पश्चिमे ह्युपविश्याथ पूजनं प्रतिगृह्यताम् ॥ ॐ मनवे नमः ॥१७॥
  18. नमो वः श्रीवसिष्ठाद्या इहागच्छत तिष्ठत । वायुवरुणयोर्मध्ये पूजनं प्रतिगृह्यताम् ॥ ॐ वशिष्ठादिभ्यो नमः ॥१८॥
  19. अधिप्रत्यधिदेवेभ्यः इहागच्छत तिष्ठत । मारुतोत्तरयोर्मध्ये पूजनं प्रतिगृह्यताम् ॥ ॐअधिप्रत्यधि देवेभ्यो नमः ॥१९॥
  20. भो ब्रह्मस्त्वमिहागच्छ नमस्तुभ्यं सुराधिप । उत्तरेशानयोर्मध्ये तिष्ठ गृहणीष्व मेऽर्चनम् ॥ ॐ ब्रह्मणे नमः ॥२०॥
  21. नमोऽस्तु वो नवग्रहा इहागच्छत तिष्ठत । ईशानपूर्वयोर्मध्ये पूजनं प्रतिगृह्यताम् ॥ ॐ नवग्रहेभ्यो नमः ॥२१॥
  22. नमो वो दशदिक्पाला इहागच्छत तिष्ठत । पूर्वाग्निकोणयोर्मध्ये पूजनं प्रतिगृह्यताम् ॥ ॐ दशदिक्पालेभ्यो नमः ॥२२॥
  23. गौरीपते ! नमस्तुभ्यमिहागच्छ महेश्वर । अग्निदक्षिणयोर्मध्ये तिष्ठ पूजा गृहाण मे ॥ ॐ गौरीपतये नमः ॥२३॥

॥ इति प्रथमावरण ॥

॥ द्वितीय आवरण ॥

  • श्रीकोशलेन्द्र ! नमस्तुभ्यमिहागच्छ सुखाम्बुधे । मध्यभागे समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ श्रीअयोध्यायै नमः ॥२४॥
  • श्री सरय्वीश्वराराध्ये नमस्तुभ्यं जगद्धिते । श्री कोशलोत्तरे भागे तिष्ठ पूजां प्रगृह्यताम् ॥ ॐ श्री सरय्वै नमः ॥२५॥
  • गंगा देवी महाभागे इहागच्छ नमोऽस्तु ते । पूर्व भागे समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ गंगादेव्यै नमः ॥२६॥
  • भो भूशक्ते ! नमस्तुभ्यमिहागच्छ शुभप्रदे । याम्यभागे समातिष्ठ पूजनं स्वीकुरुष्व मे ॥ ॐ भूशक्तये नमः ॥२७॥
  • वह्निवीजनमस्तुभ्यमिहागच्छ सुरार्चितः । याम्यभागे समातिष्ठ पूजनं संगृहाण मे ॥ ॐ वह्निवीजाय नमः ॥२८॥
  • भो केशरिन्नमस्तुभ्यमिहागच्छ शुचिव्रत । याम्यभागे समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ केशरिणे नमः ॥२९॥
  • भो सुषेण ! नमस्तुभ्यमिहागच्छ शुभप्रद । याम्यभागे समातिष्ठ पूजनं स्वीकुरुष्व मे ॥ ॐ सुषेणाय नमः ॥३०॥
  • ऋक्षराज ! नमस्तुभ्यामिहागच्छ शुभप्रद । याम्यभागे समातिष्ठ पूजनं प्रतिगृह्यताम् ॥ ॐ ऋक्षराजाय नमः ॥३१॥
  • भो अङ्गद ! नमस्तुभ्यमिहागच्छ दृढ़व्रत । याम्यभागे समातिष्ठ संगृहाण ममार्चनम् ॥ ॐ श्री अङ्गदाय नमः ॥३२॥
  • भो सुग्रीव ! नमस्तुभ्यमिहागच्छ प्रभोप्रिय । दक्षिणेह्युपविश्याथ गृह्यतामर्चनं मम् ॥ ॐ श्रीसुग्रीवाय नमः ॥३३॥
  • श्रीविमलादिशक्तिभ्य इहागच्छत वो नमः। पश्चिमे ह्युपविश्याथ पूजनंप्रतिगृह्यताम् ॥ ॐ श्रीविमलादिशक्तिभ्यो नमः ॥३४॥
  • विभीषणाय नमस्तुभ्यमिहागच्छ प्रभोप्रिय । पीठकस्योत्तरे भागे पूजनं प्रतिगृह्यताम् ॥ ॐ श्रीविभीषणाय नमः ॥३५॥
  • नमो वो मन्त्रिणश्चाष्टमिहागच्छत् तिष्ठत् । पूर्व भागे मया दत्तं पूजनं प्रतिगृह्यताम् ॥ ॐ अष्टमंत्रिभ्यो नमः ॥३६॥

॥ इति द्वितीयावरण ॥

॥ तृतीय आवरण ॥

  • श्रीमतेचक्रवर्तीन्द्र इहागच्छ नमोऽस्तुते। पूर्वभागे समातिष्ठ श्रीकौसल्यादिभिस्सह॥ ॐ सपत्नीकाय श्रीदशरथाय नमः ॥३७॥
  • श्रीलक्ष्मण नमस्तुभ्यमिहागच्छ सहप्रिया। याम्यभागे समातिष्ठ पूजनं संगृहाण मे ॥ ॐ सपत्नीकाय श्रीलक्ष्मणाय नमः ॥३८॥
  • श्रीभरत नमस्तुभ्यमिहागच्छ सहप्रिया । पीठकस्योत्तरे भागे तिष्ठ पूजां गृहाण मे ॥ ॐ सपत्नीकाय श्रीभरताय नमः ॥३९॥
  • श्रीशत्रुघ्न नमस्तुभ्यमिहागच्छ सहप्रिया । पीठस्य पश्चिमे भागे पूजनं स्वीकुरुष्व मे ॥ ॐ सपत्नीकाय श्रीशत्रुघ्नाय नमः ॥४०॥
  • श्री हनुमन्मस्तुभ्यमिहागच्छ कृपानिधे । पूर्वभागे समातिष्ठ पूजनं स्वीकुरु प्रभो ॥ ॐ श्री हनुमते नमः ॥४१॥

अथ प्रथमोऽध्यायः

देवानेवं समावाह्य नाममन्त्रैः पृथक् पृथक् । पूजयेत्परया भक्त्या श्रीराम प्रीतिहेतवे ॥४२॥
अत्र ये पूजिता देवाः मया पूजोपचारकैः । सन्तुष्टाः सप्रयच्छन्तु ममाभीष्टफलं सदा ॥४३॥
ततः प्रधानपुरुषं श्रीरामं सीतयान्वितम् । महोत्कृष्टोपचारैश्च यथाशक्त्या समर्चयेत् ॥४४॥

भगवान श्रीसीताराम की पूजा से पूर्व विभन्न पात्रों में पाद्य, अर्घ्य, आचमन, मधुपर्क, स्नानजल, गंधोदक आदि स्थापित कर लें ।

  1. पाद्य – दूर्वा, विष्णुक्रांता, कमल, साँवा। (अभाव में दुभी और फूल – तुलसी न दे)
  2. अर्घ्य – सरसों, कुशाग्र, अक्षत, तिल, जौ, चंदन, जायफल, फूल। (अभाव में तुलसी)
  3. आचमन – सरयूदक, इलायची, लौंग, कंकोल, जायफल। (अभाव में तुलसी)
  4. स्नान – कूट, मजीठ, हल्दी, मोथा, शिलाजीत, चंपा, बच, खस, कपूर। (अभाव में तुलसी)
  5. मधुपर्क – कांसे के थाली में दही, चीनी, घी और मधु काँसे के कटोरे से ढंककर।
  6. गंधोदक – गुलाबजल, मलयागिरि चंदन, कपूर।
राम लला की प्राण प्रतिष्ठा
राम लला की प्राण प्रतिष्ठा

अथ द्वितीयोऽध्यायः प्रधानदेव (श्रीराम) पूजनम्

अथ प्रधानपूजा

प्रधानपूजा च कर्तव्या भक्त्या विधिपूर्वकम् । पुष्पाञ्जलि गृहीत्वा तु ध्यानं कुर्यात्परस्य च ॥१॥

ध्यानम् –
रक्ताम्भोजदलाऽभिरामनयनं पीताम्बराऽलंकृतम् ।
श्यामाङ्ग द्विभुजं प्रसन्नवदनं श्रीसीतया शोभितम् ।
कारुण्याऽमृतसागरं प्रियगणैर्भात्रादिभिर्भावितं ।
वन्दे विष्णु शिवादि सेव्यमनिशं भक्तेष्टसिद्धिप्रदम् ॥२॥

  • राम लला की प्राण प्रतिष्ठा : आवाहनम् – आगच्छ देवदेवेश ! जानक्या सह राघव । गृहाण मम पूजां च वायुपुत्रादिभिर्युतः ॥३॥
    आवहनार्थे पुष्पं ॐ भूर्भुवः स्वः भगवते श्री ससीतरामचन्द्राय नमः ।
  • आसनम् – सुवर्णरचितं राम दिव्यास्तरण शोभितम् । आसनं हि मया दत्तं गृहाण मणिचित्रितम् ॥४॥इदमासनं ० ॥
  • पाद्यम् – इदं पाद्यं मया दत्तं दिव्यं नरवरोत्तम । प्रसीद जानकीनाथ ! गृहाण सम्मुखो भव ॥५॥ इदं पाद्यं ० ॥
  • अर्घ्यम् – दिव्यौषधिरसोपेतं दिव्य-सौरभ संयुतम् । तुलसीपुष्पदर्भाढ्यमर्घ्यं ते प्रतिगृह्यताम् ॥६॥ इदमर्घ्यं० ॥
  • आचमनीयम् – सुगन्धिवासितं दिव्यं निर्मलं सरयूदकम् । गृहाणाऽऽचमनं नाथ ! जानक्या सह राघव ॥७॥ इदमाचमनीयं० ॥
  • मधुपर्कम् – नमो रामाय भद्राय तत्वज्ञानस्वरूपिणे । मधुपर्क गृहाणेमं जानकीपतये नमः ॥८॥ इदं मधुपर्कं० ॥
  • पञ्चामृत स्नानं – पञ्चामृतं मयाऽऽनीतं पयोदधि घृतं मधु । युतं शर्करयादेव गृहाण जगतीपते ॥९॥ इदं पञ्चामृत-स्नानं० ॥
  • शुद्धोदक स्नानं – दिव्यतीर्थाहृतैस्तोयैः सर्वोषधि समन्वितैः । संस्नापयाम्यहं भक्त्या प्रीयतां जानकीपते ॥१०॥ इदं शुद्धोदक स्नानं ० ॥
  • वस्त्रम् – सन्तप्त काञ्चनप्रख्यं पीताम्बरमिदं हरे । संगृहाण जगन्नाथ ! रामचन्द्र नमोस्तुते ॥११॥ इदं वस्त्रं० ॥
  • यज्ञोपवीतं – यज्ञोपवीतं सौवर्णं मया दत्तं रघूत्तम । गृहाण सुमुखो भूत्वा प्रसीद करुणानिधे ॥१२॥ इमे यज्ञोपवीते बृहस्पतिदैवते ०॥
  • अभूषणम् – किरीटं कुण्डलं हारं कङ्कणाऽङ्गदनूपुरम् । नानारत्नमयं दिव्यं भूषणं प्रतिगृह्यताम् ॥१३॥ इदं भूषणं०॥
  • गन्धं – प्रधानपुष्प साराढ्यस्तव पूजनकर्मणि । प्रगृह्यतां दीनबन्धो ! गन्धोऽयं मङ्गलप्रद ॥१४॥ इदं गन्धं ० ॥
  • चन्दनं – मलयाचल सम्भूतं शीतमानन्दवर्द्धनम् । काश्मीरघनसाराढ्यं चन्दनं प्रतिगृह्यताम् ॥१५॥ इदं चन्दनं ० ॥
  • उत्तरीय वस्त्रं – नमः श्रीरामचन्द्राय नमो मङ्गलमूर्तये । उत्तरीयमिदं वस्त्रं गृहाण करुणानिधे ॥१६॥ इदमुत्तरीय वस्त्रं ०॥
  • तुलसीदलं – कोमलानि सुगन्धीनि मन्जरी संयुतानि च । तुलस्याः सुदलान्येव गृहाण रघुवल्लभ ॥१७॥ इदं तुलसीदलं ०॥
  • पुष्पमालां – सौरभाणि सुमाल्यानि सुपुष्परचितानि च । नानाविधानि पुष्पाणि गृह्यतां जानकीपते ॥१८॥ इदं पुष्पमाल्यं ०॥
  • दूर्वा – दुर्वादलसमायुक्तं पत्रं पुष्पं सहाङ्करम् । यवं तिलं महाभाग ! गृह्यतां सीतया सह ॥१९॥ इदं दूर्वादलं ० ॥
  • अङ्गपूजां – नमः श्रीजानकीनाथ ! सौन्दर्यादि गुणाम्बुधे । पाद-गुल्फादिष्वङ्गेषु ह्यङ्गपूजां गृहाण मे ॥२०॥ अङ्गपूजार्थं पुष्पाणि ०॥
  • धूप – वनस्पतिरसोत्पन्नं सुगन्धाढ्यं मनोहरम् । धूपं गृहाण देवेश ! जानक्या सह राघव ॥२१॥ एष धूपः ०॥
  • दीप – घृतवर्ति समायुक्तं कर्पूरादि समन्वितम् । दीपं गृहाण देवेश ! मम सिद्धिप्रदो भव ॥२२॥ एष दीपः ० ।
  • नैवेद्यं – पूप मोदक – संयाव- पयः पक्वादिकं वरम् । निर्मितं बहुसंस्कारैर्नैवेद्यं प्रतिगृह्यताम् ॥२३॥ एतानि नानाविधनैवेद्यानि ० ॥
  • जल – शीतलं स्वादुशुद्धं च परातृप्तिकरं जलम् । समस्त – देवदेवेश ! प्रीत्यर्थं प्रतिगृह्यताम् ॥२४॥ इदं पानीयं जलं०॥
  • आचमनं – सर्वोषधिरसोपेतं सौरभं सरयूजलं । आचम्यं च मयादत्तं गृहाण करुणानिधे ॥२५॥ इदमाचमनं ०॥
  • फलं – इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥२६॥ इदं फलं० ॥ शुद्ध आचमनं (पुनस्तथैवशुद्धाचमनं दद्यात् )
  • ताम्बूलं – ताम्बूल पूगसंयुक्तं चूर्णखादिरसंयुतम् । लवङ्गादियुतं दिव्यं राघवं प्रतिगृह्यताम् ॥२७॥ इदम ताम्बूलं ० ॥

प्रसादं – (भगवान श्रीसीताराम जी का प्रसाद हनुमान जी को अर्पित करें)
आञ्जनेय महाभाग रामभक्ति महोदधे । प्रसादं रामचन्द्रस्य संगृहाण प्रसीद मे ॥२८॥ इदं श्रीसीतारामप्रसादं ॐ हनुमते नमः।
भ्रातृ सुग्रीवकादिभ्यो देवेभ्यश्च यथार्हतः । प्रसादो रामचन्द्रस्य देवास्तुष्यन्ति तेन वै ॥२९॥ इदं प्रसादं ॐ सभ्रातृगण सुग्रीवादिभ्यो नमः ॥

राजोपचारं –
नृत्य – गीतादिवाद्यादि – पुराणपठनादिभिः । राजोपचारैरखिलैः संतुष्टो भव राघव ॥३०॥ इदं राजोपचारं ० ॥

नीराजनं –
कर्पूरवर्ति संयुक्तं गोघृतेन सुपूरितम् । नीराजनं गृहाणेदं कृपया भक्तवत्सल ॥३१॥ इदं नीराजनं ० ।

पुष्पाञ्जलिम् –
मणि-सौवर्ण-माल्यैश्च युक्तं पुष्पाञ्जलिं प्रभो। गृहाण जानकीनाथ ! कृपया भक्तवत्सलः ॥३२॥ इदं पुष्पाञ्जलिं ॥
सदक्षिणा श्रीफलं (नारियल और द्रव्य)

श्रीफल : श्रीफलं स्वादु दिव्यं च सुधाधिकतरं प्रियम् । सदक्षिणाम् गृहाणेदं प्रणतार्तिहरं ! प्रभो ॥३३॥ इदं सदक्षिणां श्रीफलं ० ॥

स्तुतिः : श्रीवल्लभाऽनन्त जगन्निवास श्रीराम राजेन्द्र ! नमोनमस्ते। सदा सनाथं कुरु मामऽनाथं नाथ प्रभो ! दीनदयालुमूर्ते ॥३४॥

अपराध क्षमापन : उपचारैर्यथासाध्यैः यत्पूजा तु मया कृता । तत्सर्वं पूर्णतां यातु अपराधं क्षमस्व मे ॥३५॥

प्रदक्षिणा मंत्र : यानि कानि च पापानि जन्मान्तर कृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणे पदे पदे ॥३६॥ चार प्रदक्षिणा ॥

नमस्कार मंत्र : राजेन्द्रपुत्राय परात्पराय, स्वाच्छाय सस्मेर-शुभाननाय । श्यामाय रामाय सह प्रियाय नमः सदाऽभीष्ट फलप्रदाय ॥३७॥

प्रार्थना मंत्र

सहप्रियस्त्वं हृदये वस प्रभो, मुखे यशोनाम गुणानुवादनम् ।
प्रीत्याऽर्चनं ते करवाणि सततं, प्रदेहि मह्यं कृपया कृपाम्बुधे ॥३८॥
दयाब्धे जानकीनाथ महाराजकुमारक । ममाऽभीष्टं कुरुष्वाद्य शरणागतवत्सल ॥३९॥

शरणागति :

आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥४०॥
इतिस्तुत्वा शुभं तस्य माहात्म्यं शृणुयाद्विधे । तस्याऽऽशु राघवः प्रीत्या दद्यात्सर्वेप्सितं महत् ॥४१॥


इति श्रीशिवसंहितायां भव्योत्तरखण्डे श्रीरामार्चा माहात्म्ये प्रधानपूजाविधिवर्णनो नाम द्वितीयोऽध्यायः ॥२॥

पूजा के बाद आरति (लघु आरति केवल मंत्र से) करके पुस्तक पूजन – ॐ सरस्वत्यै नमः। फिर व्यास पूजन करें : ॐ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ चंदन, चादर, माला, फल, मिठाई, पाग, द्रव्यदक्षिणा आदि अर्पित करें। तत्पश्चात कथा श्रवण करके हवन, आरती, क्षमाप्रार्थना आदि करें।

॥ रामार्चा सामग्री सूचि यहां क्लिक करके डाउनलोड करें

Leave a Reply