श्रीवराहपुराणे अशीतितमोऽध्यायः
रुद्र उवाच
अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताः कीर्त्यन्ते ।
शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रिया मुक्तलतागलितपादपम् ।
इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् ।
उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ॥८०.१॥
फलितं तद्वनं भाति महाकूर्मोपमैः फलैः ॥
तद्वनं देवयोन्योऽष्टौ सेवन्ते सर्वदैव हि ॥८०.२॥ वराहपुराण ॥८०.३॥
तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति ।
तत्राश्रमो भगवतः कर्दमस्य प्रजापतेः ।
नानामुनिजनाकीर्णस्तच्च शतयोजनमेकं परिमण्डलं वनं च ।
तथा च ताम्राभस्य शैलस्य पतङ्गस्य चान्तरे
शतयोजनविस्तीर्णं द्विगुणायतं बालार्कसदृश-
राजीवपुण्डरीकैः समन्ततः सहस्रपत्रैरविरलैरलङ्कृतं
महत् सरोऽनेकसिद्धगन्धर्वाध्युषितम् ।
तस्य च मध्ये महाशिखरः शतयोजनायामस्त्रिंशद्योजनविस्तीर्णो-
ऽनेकधातुरत्नभूषितस्तस्य चोपरि महती रथ्या
रत्नप्राकारतोरणा ।
तस्यां महद्विद्याधरपुरम् ।
तत्र पुलोमनामा विद्याधरराजः शतसहस्रपरीवारः ।
तथा च विशाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः ।
तस्य च पूर्वतीरे महदाम्रवनं कनकसङ्काशैः फलै-
रतिसुगन्धिभिर्महाकुम्भमात्रैः सर्वतश्चितम् ।
देवगन्धर्वादयश्च तत्र निवसन्ति ।
समुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे ।
त्रिंशद्योजनविस्तीर्णे पञ्चाशद्योजनायते ॥
बिल्वस्थली नाम तत्र फलानि विद्रुमसङ्काशानि
तैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना ।
तां च स्थलीं सुगुह्यकादयः सेवन्ते बिल्वफलाशिनः ।
तथा च वसुधाररत्नधारयोरन्तरे त्रिंशद्योजनविस्तीर्णं
शतयोजनमायतं सुगन्धिकिंशुकवनं सदा कुसुमचयस्य
गन्धेन वास्यते योजनशतम् ।
तत्र सिद्धाध्युषितं जलोपेतं च ।
तत्र चादित्यस्य देवस्य महदायतनम् ।
स मासे मासे भगवानवतरति सूर्यः ।
प्रजापतिं लोकैकजनकं देवादयो नमस्यन्ति ।
तथा च पञ्चकूटस्य कैलासस्य चान्तरे
सहस्रयोजनायामं विस्तीर्णं शतयोजनं हंसपाण्डुरं
क्षुद्रसत्त्वैरनाधृष्यं स्वर्गसोपानमिव भूमण्डलम् ।
अथ पश्चिमदिग्भागे व्यवस्थिता गिरिद्रोण्यः कीर्त्यन्ते ।
सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद्योजनशतमेकं
भौमशिलातलं नित्यतप्तं दुःस्पर्शम् ।
तस्य मध्ये त्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् ।
स च सर्वकालमनिन्धनो भगवान् लोकक्षयकारी संवर्तको ज्वलते ।
अन्तरे च शैलवरयोः कुमुदाञ्जनयोः शतयोजन
विस्तीर्णा मातुलुङ्गस्थली सर्वसत्त्वानामगम्या ।
पीतवर्णैः फलैरावृता सती सा स्थली शोभते ।
तत्र च पुण्यो ह्रदः सिद्धैरुपेतः ।
बृहस्पतेस्तद्वनम् ।
तथा च शैलयोः पिञ्जरगौरयोरन्तरेण सरोद्रोणी
ह्यनेकशतयोजनायता महद्भिश्च षट्पदोद्घुष्टैः कुमुदैरुपशोभिता ।
तत्र च भगवतो विष्णोः परमेश्वरस्यायतनम् ।
तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरे त्रिंशद्योजनविस्तीर्णो
नवत्यायत एकः शिलोद्देशो वृक्षविवर्जितः ।
तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्च पद्मैः शोभिता ।
तस्याश्च मध्ये पञ्चयोजनप्रमाणो महान्यग्रोधवृक्षः ।
तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च देवो निवसति यक्षादिभिरीड्यमानः ।
सहस्रशिखरस्य गिरेः कुमुदस्य चान्तरे
पञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेक-
पक्षिसेवितम् । अनेकवृक्षफलैर्मधुरस्रवैरुपशोभितम् ।
तत्र चेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः ।
तथा च शङ्खकूटऋषभयोर्मध्ये पुरुषस्थली रम्याऽनेकगुणानेक-
योजनायता बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता ।
तत्र पुरुषरसोन्मत्ताः नागाद्याः प्रतिवसन्ति ।
तथा कपिञ्जलनागशैलयोरन्तरे द्विशतयोजनमायामविस्तीर्णा
शतयोजनस्थली नानावनविभूषिता द्राक्षाखर्जूरखण्डैरुपेता
अनेकवृक्षवल्लीभिरनेकैश्च सरोभिरुपेता सा स्थली ।
तथा च पुष्करमहामेघयोरन्तरे षष्टियोजनविस्तीर्णा
शतायामा पाणितलप्रख्या महती स्थली वृक्षवीरुधविवर्जिता ।
तस्याश्च पार्श्वे चत्वारि महावनानि सरांसि चानेकयोजनानाम् ।
दश पञ्च सप्त तथाष्टौ त्रिंशद्विंशति योजनानां
स्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः पर्वतकुक्षयः ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अशीतितमोऽध्यायः ॥८०॥