श्रीवराहपुराणे चतुरशीतितमोऽध्यायः
रुद्र उवाच उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः ।
आचक्षते यथान्यायं ये च पर्वतवासिनः ।
तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ॥८४.१॥
दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च ।
वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः ।
मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥८४.२॥
तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः ।
तत्फलाद्रसपानाद्धि दशवर्षसहस्रिणः ।
आयुषा सर्वमनुजा जायन्ते देवरूपिणः ॥८४.३॥
उत्तरेण च श्वेतस्य त्रिशृङ्गस्य च दक्षिणे ।
वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी ।
यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ॥८४.४॥
एकादशहस्राणि समानां तेन जीवते ।
शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ॥८४.५॥
लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः ।
तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ॥८४.६॥
तथा त्रिशृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण
तस्य चोत्तरशृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः ।
वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाः
क्षीरासवाः सन्ति । मणिभूमिः सुवर्णबालुका ।
तस्मिन् स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्रायुषः ।
तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य
देवलोकाच्चन्द्रद्वीपो भवति योजनसहस्रपरिमण्डलः ।
तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ ।
तयोश्च मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेक नदीसमाकुला ।
एतत्कुरुवर्षं च ।
तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्रमतिक्रम्य
देवलोकात् सूर्यद्वीपो भवति योजनसहस्रपरिमण्डलः ।
तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः ।
तस्मात्सूर्यावर्त्तनामा नदी निर्गता ।
तत्र च सूर्यस्याधिष्ठितं तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्रायुषः ।
तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य समुद्रं
दशयोजनसहस्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम ।
तत्र च भद्रासनं वायोरनेकरत्नशोभितम् ।
तत्र विग्रहवान् वायुस्तिष्ठति ।
तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्रायुषः ॥८४.७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुरशीतितमोऽध्यायः ॥८४॥