श्रीवराहपुराणे त्रिसप्ततितमोऽध्यायः
रुद्र उवाच
शृणु चान्यद्द्विजश्रेष्ठ कौतूहलसमन्वितम् ।
अपूर्वभूतं सलिले मग्नेन मुनिपुङ्गव ॥७३.१॥
ब्रह्मणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः ।
अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ॥७३.२॥
तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् ।
अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ॥७३.३॥
तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः ।
पुरुषा दश चैकश्च तापयन्तोऽम्शुभिर्जलम् ॥७३.४॥
मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा ।
तापयन्तो जलं चेदं क्व वा यास्यथ शंसत ॥७३.५॥
एवमुक्ता मया ते तु नोचुः किञ्चन सत्तमाः ।
एवमेव गतास्तूष्णीं ते नरा द्विजपुङ्गव ॥७३.६॥
ततस्तेषामनु महापुरुषोऽतीवशोभनः ।
स तस्मिन् मेघसङ्काशः पुण्डरीकनिभेक्षणः ॥७३.७॥
तमहं पृष्टवान् कस्त्वं के चेमे पुरुषा गाताः ।
किं वा प्रयोजनमिह कथ्यतां पुरुषर्षभ ॥७३.८॥
पुरुष उवाच य एते वै गताः पूर्वं पुरुषा दीप्ततेजसः ।
आदित्यास्ते त्वरं यान्ति ध्याता वै ब्रह्मणा भव ॥७३.९॥
सृष्टिं सृजति वै ब्रह्मा तदर्थं यान्त्यमी नराः ।
प्रतिपालनाय तस्यास्तु सृष्टेर्देव न संशयः ॥७३.१०॥
शम्भुरुवाच
भगवन् कथं जानीषे महापुरुषसत्तम ।
भवेति नाम्ना तत्सर्वं कथयस्व परो ह्यहम् ॥७३.११॥
एवमुक्तस्तु रुद्रेण स पुमान् प्रत्यभाषत ।
अहं नारायणो देवो जलशायी सनातनः ॥७३.१२॥
दिव्यं चक्षुर्भवतु वै तव मां पश्य यत्नतः ।
एवमुक्तस्तदा तेन यावत्पश्याम्यहं तु तम् ॥७३.१३॥
तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् ।
तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ॥७३.१४॥
ब्रह्माणं तत्र पश्यामि आत्मानं च तदङ्कतः ।
एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः ।
तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥७३.१५॥
तस्य मूर्तौ तु जातायां स्तोत्रेणानेन सुव्रत ।
स्तुतो मया स विश्वात्मा तपसा स्मृतकर्मणा ॥७३.१६॥
रुद्र उवाच
नमोऽस्त्वनन्ताय विशुद्धचेतसे
सरूपरूपाय सहस्रबाहवे ।
सहस्ररश्मिप्रवराय वेधसे
विशालदेहाय विशुद्धकर्मिणे ॥७३.१७॥
समस्तविश्वार्तिहराय शम्भवे
सहस्रसूर्यानिलतिग्मतेजसे ।
समस्तविद्याविधृताय चक्रिणे
समस्तगीर्वाणनुते सदाऽनघ ॥७३.१८॥
अनादिदेवोऽच्युत शेषशेखर
प्रभो विभो भूतपते महेश्वर ।
मरुत्पते सर्वपते जगत्पते
भुवः पते भुवनपते सदा नमः ॥७३.१९॥
जलेश नारायण विश्वशङ्कर
क्षितीश विश्वेश्वर विश्वलोचन ।
शशाङ्कसूर्याच्युत वीर विश्वगा –
प्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥७३.२०॥
ज्वलद्धुताशार्चिविरुद्धमण्डल
प्रपाहि नारायण विश्वतोमुख ।
नमोऽस्तु देवार्त्तिहरामृताव्यय
प्रपाहि मां शरणगतं सदाच्युत ॥७३.२१॥
वक्त्राण्यनेकानि विभो तवाहं
पश्यामि मध्यस्थगतं पुराणम् ।
ब्रह्माणमीशं जगतां प्रसूतिं
नमोऽस्तु तुभ्यं तु पितामहाय ॥७३.२२॥
संसारचक्रभ्रमणैरनेकैः
क्वचिद्भवान् देववरादिदेव ।
सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वै –
रुपास्यसे किं प्रणमाम्यहं त्वाम् ॥७३.२३॥
एकं भवन्तं प्रकृतेः परस्ताद्-
यो वेत्त्यसौ सर्वविदादिबोद्धा ।
गुणा न तेषु प्रसभं विभेद्या
विशालमूर्तिर्हि सुसूक्ष्मरूपः ॥७३.२४॥
निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि
विकर्मा भवान्नो विगतैककर्मा ।
संसारवांस्त्वं हि न तादृशोऽसि
पुनः कथं देववरासि वेद्यः ॥७३.२५॥
मूर्तामूर्तं त्वतुलं लभ्यते ते
परं वपुर्देव विशुद्धभावैः ।
संसारविच्छित्तिकरैर्यजद्भि –
रतोऽवसीयेत चतुर्भुजस्त्वम् ॥७३.२६॥
परं न जानन्ति यतो वपुस्ते
देवादयोऽप्यद्भुतकारणं तत् ।
अतोऽवतारोक्ततनुं पुराण –
माराधयेयुः कमलासनाद्याः ॥७३.२७॥
न ते वपुर्विश्वसृगब्जयोनि-
रेकान्ततो वेद महानुभावः ।
परं त्वहं वेद्मि कविं पुराणं
भवन्तमाद्यं तपसा विशुद्धः ॥७३.२८॥
पद्मासनो मे जनकः प्रसिद्ध-
श्चैतत् प्रसूतावसकृत्पुराणैः ।
सम्बोध्यते नाथ न मद्विधोऽपि
विदुर्भवन्तं तपसा विहीनाः ॥७३.२९॥
ब्रह्मादिभिस्तत्प्रवरैरबोध्यं
त्वां देव मूर्खाः स्वमनन्तनत्या ।
प्रबोधमिच्छन्ति न तेषु बुद्धि –
रुदारकीर्त्तिष्वपि वेदहीनाः ॥७३.३०॥
जन्मान्तरैर्वेदविदां विवेक –
बुद्धिर्भवेन्नाथ तव प्रसादात् ।
त्वल्लब्धलाभस्य न मानुषत्वं
न देवगन्धर्वगतिः शिवं स्यात् ॥७३.३१॥
त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः
स्थूलोऽसि चेदं कृतकृत्यतायाः ।
स्थूलः सुसूक्ष्मः सुलभोऽसि देव
त्वद्वाह्यवृत्त्या नरके पतन्ति ॥७३.३२॥
किमुच्यते वा भवति स्थितेऽस्मिन्
खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः ।
तत्त्वैः सतोयैः समरूपधारि-
ण्यात्मस्वरूपे विततस्वभावे ॥७३.३३॥
इति स्तुतिं मे भगवन्ननन्त
जुषस्व भक्तस्य विशेषतश्च ।
सृष्टिं सृजस्वेति तवोदितस्य
सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥७३.३४॥
चतुर्मुखो यो यदि कोटिवक्त्रो
भवेन्नरः क्वापि विशुद्धचेताः ।
स ते गुणानामयुतैरनेकै –
र्वदेत् तदा देववर प्रसीद ॥७३.३५॥
समाधियुक्तस्य विशुद्धबुद्धे –
स्त्वद्भावभावैकमनोऽनुगस्य ।
सदा हृदिस्थोऽसि भवान्नमस्ते
न सर्वगस्यास्ति पृथग्व्यवस्था ॥७३.३६॥
इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्ध्वा ।
संसारचक्रक्रममाणयुक्त्या भीतं पुनीह्यच्युत केवलत्वम् ॥७३.३७॥
श्रीवराह उवाच
इति स्तुतस्तदा देवो रुद्रेणामिततेजसा ।
उवाच वाक्यं सन्तुष्टो मेघगम्भीरनिःस्वनः ॥७३.३८॥
विष्णुरुवाच
वरं वरय भद्रं ते देवदेव उमापते ।
न भेदश्चावयोर्देव एकावावामुभावपि ॥७३.३९॥
रुद्र उवाच
ब्रह्मणाऽहं नियुक्तस्तु प्रजाः सृज इति प्रभो ।
तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावनम् ॥७३.४०॥
विष्णुरुवाच
सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिः सनातनः ।
देवानां च परं पूज्यः सर्वदा त्वं भविष्यसि ॥७३.४१॥
एवमुक्तः पुनर्वाक्यमुवाचोमापतिर्मुदा ।
अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥७३.४२॥
मूर्तो भूत्वा भवानेव मामाराधय केशव ।
मां वहस्व च देवेश वरं मत्तो गृहाण च ।
येनाहं सर्वदेवानां पूज्यात् पूज्यतरो भवे ॥७३.४३॥
विष्णुरुवाच देवकार्यावतारेषु मानुषत्वमुपागतः ।
त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥७३.४४॥
यत् त्वयोक्तं वहस्वेति देवदेव उमापते ।
सोऽहं वहामि त्वां देवं मेघो भूत्वा शतं समाः ॥७३.४५॥
एवमुक्त्वा हरिर्मेघः स्वयं भूत्वा महेश्वरम् ।
उज्जहार जलात् तस्माद्वाक्यं चेदमुवाच ह ॥७३.४६॥
य एते दश चैकश्च पुरुषाः प्राकृताः प्रभो ।
ते वैराजा महीं याता आदित्या इति संज्ञिताः ॥७३.४७॥
मदंशो द्वादशो यस्तु विष्णुनामा महीतले ।
अवतीर्णो भवन्तं तु आराधयति शङ्कर ॥७३.४८॥
एवमुक्त्वा स्वकादंशात् सृष्ट्वादित्यं घनं तथा ।
नारायणः शब्दवच्च न विद्मः क्व लयं गतः ॥७३.४९॥
रुद्र उवाच
एवमेष हरिर्देवः सर्वगः सर्वभावनः ।
वरदोऽभूत् पुरा मह्यं तेनाहं दैवतैर्वरः ॥७३.५०॥
नारायणात् परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानां च सत्तम ।
मया वः कीर्तितं सर्वं यथा विष्णुरिहेज्यते ॥७३.५१॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसप्ततितमोऽध्यायः ॥७३॥