श्रीवराहपुराणे चतुःसप्ततितमोऽध्यायः
श्रीवराह उवाच
पुनस्ते ऋषयः सर्वे तं पप्रच्छुः सनातनम् ।
रुद्रं पुराणपुरुषं शाश्वतं ध्रुवमव्ययम् ।
विश्वरूपमजं शम्भुं त्रिनेत्रं शूलपाणिनम् ॥७४.१॥
ऋषय ऊचुः
त्वं परः सर्वदेवानामस्माकं च सुरेश्वर ।
पृच्छाम तेन त्वां प्रश्नमेकं तद्वक्तुमर्हसि ॥७४.२॥
भूमिप्रमाणसंस्थानं पर्वतानां च विस्तरम् ।
समुद्राणां नदीनां च ब्रह्माण्डस्य च विस्तरम् ।
अस्माकं ब्रूहि कृपया देवदेव उमापते ॥७४.३॥
रुद्र उवाच
सर्वेष्वेव पुराणेषु भूर्लोकः परिकीर्त्यते ।
ब्रह्मविष्णुभवादीनां वायव्ये च सविस्तरम् ॥७४.४॥
इदानीं च प्रवक्ष्यामि समासाद्वः क्षमान्तरम् ।
तन्निबोधत धर्मज्ञा गदतो मम सत्तमाः ॥७४.५॥
योऽसौ सकलविद्यावबोधितपरमात्मरूपी विगतकल्मषः परमाणुरचिन्त्त्यात्मा नारायणः सकललोकालोकव्यापी पीताम्बरोरुवक्षः क्षितिधरो गुणतोमुख्यतस्तु – अणुमहद्दीर्घह्रस्वमकृशमलोहितमित्येवमाद्योपलक्षित विज्ञानमात्ररूपम् ।
स भगवांस्त्रिप्रकारः सत्त्वरजस्तमोद्रिक्तः सलिलं ससर्ज । तच्च सृष्ट्वानादिपुरुषः परमेश्वरो नारायणः सकलजगन्मयः सर्वमयो देवमयो यज्ञमय आपोमय आपोमूर्त्तिर्योगनिद्रया सुप्तस्य तस्य नाभौ तदब्जं निःससार ।
तस्मिन्सकलवेदनिधिरचिन्त्यात्मा परमेश्वरो ब्रह्मा प्रजापतिरभवत् स च सनकसनन्दनसनत्कुमारादीन् ज्ञानधर्मिणः पूर्वमुत्पाद्य पश्चान्मनुं स्वायम्भुवं मरीच्यादीन् दक्षान्तान् ससर्ज ।
यः स्वायम्भुवो मनुर्भगवता सृष्टस्तस्मादारभ्य भुवनस्यातिविस्तरो वर्ण्यते ।
तस्य च मनोर्द्वौ पुत्रौ बभूवतुः प्रियव्रतोत्तानपादौ । प्रियव्रतस्य दश पुत्रा बभूवुः ।
आग्नीघ्रोऽग्निबाहुर्मेधो मेधातिथिर्ध्रुवो
ज्योतिष्मान् द्युतिमान् हव्यवपुष्मत्सवनान्ताः ।
स च प्रियव्रतः सप्तद्वीपेषु सप्त पुत्रान् स्थापयामास ।
तत्र चाग्नीध्रं जम्बूद्वीपेश्वरं चक्रे ।
शाकद्वीपेश्वरं मेधातिथिं कुशे ज्योतिष्मन्तं क्रौञ्चे द्युतिमन्तं
शाल्मले वपुष्मन्तं गोमेदस्येश्वरं हव्यं पुष्कराधिपतिं सवनमिति ।
पुष्करेशस्यापि सवनस्य द्वौ पुत्रौ महावीतधातकी भवेताम् ॥
तयोर्देशौ गोमेदश्च नाम्ना व्यवस्थितौ ।
धातकेर्धातकीखण्डं कुमुदस्य च कौमुदम् ।
शाल्मलाधिपतेरपि वपुष्मन्तस्य त्रयः पुत्राः सकुशवैद्युतजीमूतनामानः ।
सकुशस्य सकुशनामा देशः वैद्युतस्य वैद्युतः ।
जीमूतस्य जीमूत इति एते शाल्मलेर्देशा इति तथा च द्युतिमतः सप्त
पुत्रकाः कुशलो मनुगोष्ठौष्णः पीवरोद्यान्धकारकमुनिदुन्दुभिश्चेति ।
तन्नाम्ना क्रौञ्चे सप्त महादेशनामानि ।
कुशद्वीपेश्वरस्यापि ज्योतिष्मतः सप्तैव पुत्रास्तद्यथा
उद्भिदो वेणुमांश्चैव रथोपलम्बनो धृतिः प्रभाकरः कपिल इति ।
तन्नामान्येव वर्षाणि द्रष्टव्यानि ।
शाकाधिपस्यापि सप्त पुत्रा मेधातिथेस्तद्यथा
शान्तभयशिशिरसुखोदयन्नन्दशिवक्षेमकध्रुवा इति ।
एते सप्त पुत्राः एतन्नामान्येव वर्षाणि ।
अथ जम्बूद्वीपेश्वरस्यापि आग्नीध्रस्य नव पुत्रा बभूवुः ।
तद्यथा नाभिः किम्पुरुषो हरिवर्ष इलावृतो रम्यको
हिरण्मयः कुरुर्भद्राश्वः केतुमालश्चेति । एतन्नामान्येव वर्षाणि ।
नाभेर्हेमवन्तं हेमकूटं किम्पुरुषं नैषधं हरिवर्षं मेरुमध्यमिलावृत्तं नीलं रम्यकं श्वेतं हिरण्मयं
उत्तरं च शृङ्गवतः कुरवो माल्यवन्तं भद्राश्वं गन्धमादनं केतुमालमिति ।
एवं स्वायम्भुवेऽन्तरे भुवनप्रतिष्ठा ।
कल्पे कल्पे चैवमेव सप्त सप्त पार्थिवैः क्रियते भूमेः पालनं व्यवस्था च।
एष स्वभावः कल्पस्य सदा भवतीति।
अत्र नाभेः सर्गं कथयामि ।
नाभिर्मेरुदेव्यां पुत्रमजनयद्ऋषभनामानम् । तस्य भरतो जज्ञे पुत्रश्च तावदग्रजः ।
तस्य भरतस्य पिता ऋषभो हिमाद्रेर्दक्षिणं वर्षमदाद्भारतं नाम ।
भरतस्यापि पुत्रः सुमतिर्नामा ।
तस्य राज्यं दत्त्वा भरतोऽपि वनं ययौ ।
सुमतेस्तेजस्तत्पुत्रः सत्सुर्नामा । तस्यापीन्द्रद्युम्नो नाम ।
तस्यापि परमेष्ठी तस्यापि प्रतिहर्त्ता तस्य निखातः निखातस्य उन्नेता उन्नेतुरप्यभावस्तस्योद्गाता तस्य प्रस्तोता प्रस्तोतुश्च विभुः विभोः पृथुः पृथोरनन्तः अनन्तस्यापि गयः गयस्य नयस्तस्य विराटः ।
तस्यापि महावीर्यस्ततः सुधीमान् धीमतो महान् महतो भौमनो भौमनस्य त्वष्टा त्वष्टुर्विरजाः तस्य राजो राजस्य शतजित् ।
तस्य पुत्रशतं जज्ञे तेनेमा वर्द्धिताः प्रजाः ।
तैरिदं भारतं वर्षं सप्तद्वीपं समाङ्कितम् ॥७४.६॥
तेषां वंशप्रसूत्या तु भुक्तेयं भारती प्रजा ।
कृतत्रेतादियुक्त्या तु युगाख्या ह्येकसप्ततिः ॥७४.७॥
भुवनस्य प्रसङ्गेन मन्वन्तरमिदं शुभम् ।
स्वायम्भुवं च कथितं मनोर्द्वीपान्निबोधत ॥७४.८॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःसप्ततितमोऽध्यायः ॥७४॥