श्रीवराहपुराणे षट्सप्ततितमोऽध्यायः
रुद्र उवाच
तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे ।
चक्रपादपरिक्षिप्ते नानाधातुविराजिते ॥७६.१॥
तत्र सर्वामरपुरं चक्रपादसमुद्धतम् ।
दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् ।
तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ॥७६.२॥
तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे ।
अलोकजनसम्पूर्णा विमानशतसङ्कुला ॥७६.३॥
महावापिसमायुक्ता नित्यं प्रमुदिता शुभा ।
शोभिता पुष्पशबलैः पताकाध्वजमालिनी ॥७६.४॥
देवैर्यक्षोऽप्सरोभिश्च ऋषिभिश्च सुशोभिता ।
पुरन्दरपुरी रम्या समृद्धा त्वमरावती ॥७६.५॥
तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका ।
त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ॥७६.६॥
तत्रास्ते श्रीपतेः श्रीमान् सहस्राक्षः शचीपतिः ।
सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः ॥७६.७॥
तत्र चैव सुवंशः स्याद्भास्करस्य महात्मनः ।
साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः ॥७६.८॥
तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता ।
तेजोवती नाम पुरी हुताशस्य महात्मनः ॥७६.९॥
तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च ।
नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता ॥७६.१०॥
तथा चतुर्थे दिग्भागे नैरृताधिपतेः शुभा ।
नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥७६.११॥
पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी ।
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥७६.१२॥
तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी ।
वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा ॥७६.१३॥
तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी ।
नाम्ना महोदया नाम शुभा वैदूर्यवेदिका ॥७६.१४॥
तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः ।
पुरी मनोहरा नाम भूतैर्नानाविधैर्युता ।
पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः ॥७६.१५॥
प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः ॥७६.१६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्सप्ततितमोऽध्यायः ॥७६॥