गणेश पूजा मंत्र
ध्यान
ॐ आवाहयेच्चतुर्बाहुं बहुवर्णं द्विपाननम् । चित्रपाशाङ्कुशधरं मोदकैश्च सुपूजितम् ॥
सिंहासन समायुक्तं रक्तपुष्पेण पूजितम् । सर्पं यज्ञोपवीताङ्गं स्वर्णकुण्डलभूषितम् ॥
आवाहन – स्थापन
ॐ आगच्छ गजस्कन्ध गजवक्त्र चतुर्भुज । यावद् व्रतं समाप्येत तावत्त्वं सन्निधो भव ॥
ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तन्नोत्वरिष्टं यज्ञ ᳪ समिमं दधातु॥ विश्वेदेवा स इह मादयंतामों३ प्रतिष्ठ॥
ॐ भूर्भुवः स्वः भगवन् श्रीगणेश इहागच्छ इह तिष्ठ इह सुप्रतिष्ठितो भव॥
आसन
ॐ वक्रतुण्ड नमस्तुभ्यं महासङ्कटनाशन । आसनन्ते प्रदास्यामि गिरिजानन्दकारक ॥
॥ इदं पुष्पासनं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
पाद्य
ॐ नागयज्ञोपवीतादि नानाभरणभूषितं । सूर्पकर्णं नमस्तुभ्यं पाद्यं गृह्ण गजानन ॥
॥ इदं पाद्यं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
अर्घ्य
ॐ कपिलाय नमस्तुभ्यं सिन्दूरवदनाय च । गृहाणार्घ्यं मया दत्तं सङ्कटं मे निवारय ॥
॥ इदं अर्घ्यं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
आचमन
ॐ गणाधीश नमस्तुभ्यमुमापुत्राघनाशन । मया दत्तं गृहाणेदं तोयमाचमनीयकम् ॥
॥ इदं आचमनीयं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
पञ्चामृत
ॐ पञ्चामृतं मया नीतं पयो दधि घृतं मधु । सितया च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
॥ इदं पञ्चामृतस्नानीयम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
शुद्धोदक
ॐ नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः । स्नापितोऽसि मया देव सङ्कटं मे निवारय ॥
॥ इदं शुद्धोदकस्नानीयम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
वस्त्र (रक्तवस्त्र)
ॐ इभवक्त्र नमस्तेस्तु नमः परशुधारिणे। रक्तवस्त्रं गृहाणेदं सङ्कटं मे निवारय ॥
॥ इदं रक्तवस्त्रं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
॥ इदं आचमनीयं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
यज्ञोपवीत
ॐ इभवक्त्र नमस्तेस्तु गौरीहृदयनन्दन । ब्रह्मसूत्रं मया दत्तं गृहाण गणनायक ॥
॥ इमे यज्ञोपवीते बृहस्पतिदैवते ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
॥ इदं आचमनीयं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
चन्दन
ॐ श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
॥ इदं श्रीखण्डचन्दनम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
सिन्दूर
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । शुभगं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
॥ इदं सिन्दूरम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
अक्षत
ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदितास्तुभ्यं गृहाण परमेश्वर ॥
॥ इदं अक्षतम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
पुष्प
ॐ पुष्पं मनोहरं दिव्यं सुगन्धं देवनिर्मितम् । हृद्यमद्भुतमाघ्रेयं देवं तत्प्रतिगृह्यताम् ॥
॥ एतानि पुष्पाणि ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
माला
ॐ सुगन्धिं दिव्यमाल्यं च गृहाण गणनायक । विनायक नमस्तुभ्यं शिवसूनो नमोस्तु ते ॥
॥ इदं पुष्पमाल्यम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
माला
ॐ सुगन्धिं दिव्यमाल्यं च गृहाण गणनायक । विनायक नमस्तुभ्यं शिवसूनो नमोस्तु ते ॥
॥ इदं पुष्पमाल्यम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
बिल्वपत्र : इदं बिल्वपत्रम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
दूर्वा : इदं दूर्वादलम् ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
धूप
ॐ लम्बोदर विशालाक्ष घूम्रकेतो नमो नमः । धूपं गृहाण देवेश संकटं मे निवारय ॥
॥ एष धूपः ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
दीप
ॐ विघ्नान्धकारसूर्याय गणानाम्पतये नमः । दीपं गृहाण देवेश सङ्कटं मे निवारय ॥
॥ एष दीपः ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
नैवेद्य
ॐ नमो मोदकहस्ताय भालचन्द्राय ते नमः। नैवेद्यं गृह्ण देवेश सङ्कट मे निवारय ॥
॥ एतानि नानाविधनैवेद्यानि ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
आचमन
ॐ गजानन नमस्तुभ्यं विकटाय नमो नमः । आचम्यतां गणाध्यक्ष सङ्कटं मे निवारय ॥
॥ इदं आचमनीयं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
फल
ॐ फलान्यमृतकल्पानि सुगन्धीन्यघनाशन । आनीतानि यथाशक्ति गृहाण गणनायक ॥
॥ एतानि फलानि ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
ताम्बूल
ॐ ताम्बूलं गृह्यतां देव नागवल्लीदलान्वितम्। कर्पूरपूगसंयुक्तं सुगन्धं मुखभूषणम् ॥
॥ इदं ताम्बूलं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
दूर्वाङ्कुरपूजा
तत्पश्चात 42 दुर्वांकुर ले ले। आगे दिये गये 21 नामों से 2-2 दुर्वांकुर अर्पित करे :
- ॐ वक्रतुण्डाय नमः ॥
- ॐ एकदन्ताय नमः ॥
- ॐ लम्बोदराय नमः ॥
- ॐ विकटाय नमः ॥
- ॐ विघ्नराजाय नमः ॥
- ॐ विघ्ननाशिने नमः ॥
- ॐ गजाननाय नमः ॥
- ॐ विनायकाय नमः ॥
- ॐ गणाधिपतये नमः ॥
- ॐ उमापुत्राय नमः ॥
- ॐ सिद्धविनायकाय नमः॥
- ॐ सङ्कटनाशिने नमः ॥
- ॐ कृष्णपिङ्गाक्षाय नमः॥
- ॐ भालचन्द्राय नमः ॥
- ॐ शूर्पकर्णाय नमः ॥
- ॐ त्रिलोचनाय नमः ॥
- ॐ पाशाङ्कुशधराय नमः॥
- ॐ सुमुखाय नमः ॥
- ॐ सिन्दूराभाय नमः ॥
- ॐ ईशपुत्राय नमः ॥
- ॐ कुमारगुरवे नमः ॥
अर्घ्य
ॐ गणेशाय नमस्तुभ्यं सर्वसिद्धिप्रदायक । संकटहरं मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥
॥ इदं अर्घ्यं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
इसी प्रकार २१ पत्र पुष्पों से भी पूजा की जा सकती है, यदि आप २१ पत्र-पुष्पों से भी पूजा करना चाहें तो सिद्धिविनायक पूजा विधि देखें।
यदि अष्टोत्तरशतनाम से भगवान गणेश की पूजा करनी हो तो उससे भी कर सकते हैं। यहां अष्टोत्तर शतनाम से गणपति पूजा करने का नाम मंत्र दिया गया है : गणेश अष्टोत्तर शतनाम पूजा मंत्र
तत्पश्चात चन्द्र को दुग्ध का अर्घ्य देकर चतुर्थी तिथि को भी अर्घ्य प्रदान करे।
चन्द्रार्घ्य मंत्र
ॐ क्षीरसागरसम्भूतं लक्ष्मीबन्धो निशाकर। गृहाणार्घ्यं मया दत्तं रोहिण्या सहितप्रभो ॥
॥ एष दुग्धार्घ्यः ॐ रोहिणीसहितचतुर्थीचन्द्राय नमः ॥
चतुर्थ्यर्घ्यदान
ॐ तिथीनामुत्तमे देवि गणेश प्रियवल्लभे । सर्वसङ्कटनाशाय चतुर्थ्यर्घ्यं नमोस्तु ते ॥