श्री सूक्त संपूर्ण
ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ ऽआव॑ह ॥१॥
तां म॒ ऽआव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥२॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚दे॒वीर्जु॑षताम् ॥३॥
कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥४॥
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥५॥
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥६॥
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥७॥
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त् ॥८॥
गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑म् सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥९॥
मन॑सः॒ काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥१०॥
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥११॥
आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥१२॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ ऽआव॑ह ॥१३॥
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥१४॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥१५॥
यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् ।
श्रियः॑ प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् ॥१६॥
॥ इति ऋग्वेदोक्तश्रीसूक्तं सम्पूर्णं ॥
श्री सूक्त स्वररहित
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम् ॥३॥
कांसोस्मितां हिरण्यप्राकारामाद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियंलोके देव जुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोऽथ बिल्व:।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या ऽअलक्ष्मी:॥६॥
उपैतु मां देवसख: कीर्तिश्चमणिना सह।
प्रादुर्भुतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
क्षुत्पिपासामलां जेष्ठामलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात ॥८॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
मनस: काममाकूतिं वाच: सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्री: श्रयतां यशः ॥१०॥
कर्दमेनप्रजाभूता मयिसंभवकर्दम।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विन्देयं पुरुषानहम् ॥१५॥
य: शुचि: प्रयतोभूत्वा जुहुयाादाज्यमन्वहम्।
सूक्तं पञ्चदशर्चं च श्रीकाम: सततं जपेत् ॥१६॥
॥ इति ऋग्वेदोक्तश्रीसूक्तं सम्पूर्णं ॥
पौराणिकी श्री सूक्तं
॥ श्रीसूक्तं पौराणीकम् ॥ देव्यभिषेके पौराणं श्रीसूक्तम् ॥
हिरण्यवर्णां हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरूपाम् ।
लक्ष्मीं मृगीरूपधरां श्रियं त्वं मदर्थमाकारय जातवेदः ॥१॥
यस्यां सुलक्ष्म्यामहमागतायां हिरण्य गोऽश्वात्मज मित्रदासान् ।
लभेयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः ॥२॥
प्रत्याह्वये तामहमश्वपूर्वां देवीं श्रियं मध्यरथां समीपम् ।
प्रबोधिनीं हस्तिसुबृंहितेनाहूता मया सा किल सेवतां माम् ॥३॥
कां सोस्मितां तामिहपद्मवर्णामाद्रां सुवर्णावरणां ज्वलन्तीम् ।
तृप्तां हि भक्तानथ तर्पयन्तीमुपह्वयेऽहं कमलासनस्थाम् ॥४॥
लोके ज्वलन्तीं यशसा प्रभासां चन्द्रामुदामुत देवजुष्टाम् ।
तां पद्मरूपां शरणं प्रपद्ये श्रियं वृणे त्वां व्रजतामलक्ष्मीः ॥५॥
वनस्पतिस्ते तपसोऽधिजातो वृक्षोऽथ बिल्वस्तरुणार्कवर्णे ।
फलानि तस्य त्वदनुग्रहेण माया अलक्ष्मीश्च नुदन्तु बाह्याः ॥६॥
उपैतु मां देवसखः कुबेरः सा दक्षकन्या मणिना च कीर्तिः ।
जातोऽस्मि राष्ट्रे किल मर्त्यलोके कीर्तिं समृद्धिं च ददातु मह्यम् ॥७॥
क्षुत्तृट्कृशाङ्गी मलिनामलक्ष्मीं तवाग्रजां तामुतनाशयामि ।
सर्वामभूतिं ह्यसमृद्धिमम्बे गृहाञ्च (गृहाच्च) निष्कासय मे द्रुतं त्वम् ॥८॥
केनाप्यधर्षाम्मथ गन्धचिह्नां पुष्टां गवाश्वादियुतां च नित्यम् ।
पद्मालये सर्वजनेश्वरीं तां प्रत्याह्वयेऽहं खलु मत्समीपम् ॥९॥
लभेमहि श्रीमनसश्च कामं वाचस्तु सत्यं च सुकल्पितं वै ।
अन्नस्य भक्ष्यं च पयः पशूनां सम्पद्धि मय्याश्रयतां यशश्च ॥१०॥
मयि प्रसादं कुरु कर्दम त्वं प्रजावती श्रीरभवत्त्वया हि ।
कुले प्रतिष्ठापय मे श्रियं वै त्वन्मातरं तामुत पद्ममालाम् ॥११॥
स्निग्धानि चापोऽभिसृजन्त्वजस्रं चिक्लीतवासं कुरु मद्गृहे त्वम् ।
कुले श्रियं मातरमाशुमेऽद्य श्रीपुत्र संवासयतां च देवीम् ॥१२॥
तां पिङ्गलां पुष्करिणीं च लक्ष्मीमाद्रां च पुष्टिं शुभपद्ममालाम्।
चन्द्रप्रकाशां च हिरण्यरूपां मदर्थमाकारय जातवेदः ॥१३॥
आद्रां(आद्रीं) तथा यष्टिकरां सुवर्णां तां यष्टिरूपामथ हेममालाम् ।
सूर्यप्रकाशां च हिरण्यरूपां मदर्थमाकारय जातवेदः ॥१४॥
यस्यां प्रभूतं कनकं च गावो दास्यस्तुरङ्गान्पुरुषांश्च सत्याम् ।
विन्देयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः ॥ १५॥
श्रियः पञ्चदशश्लोकं सूक्तं पौराणमन्वहम् ।
यः पठेज्जुहुयाच्चाज्यं श्रीयुतः सततं भवेत् ॥ १६॥
॥ इति पौराणीकम् श्रीसूक्तं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।