प्रथमोऽध्यायः
“कलियुग में प्रत्यक्ष फल देने वाले केवल सत्यनारायण ही विभु हैं।”
॥ व्यास उवाच ॥
एकदा नैमिषारण्ये ऋषयः शौनकादयः । पृच्छन्ति विनयेनैव सूतं पौराणिकं खलु ॥१॥
भगवन्ब्रूहि लोकानां हितार्थाय चतुर्युगे । कः पूज्यः सेवितव्यश्च वांच्छितार्थप्रदायकः ॥२॥
विनायासेन वै कामं प्राप्नुयुर्मानवाः शुभम् । सत्यं ब्रह्मन्वदोपायं नराणां कीर्तिकारकम् ॥३॥
॥ सूत उवाच ॥
नवांभोजनेत्रं रमाकेलिपात्रं चतुर्बाहुचामीकराचारुगात्रम् ।
जगत्त्राणहेतुं रिपौधूम्रकेतुं सदा सत्यनारायणं स्तौमि देवम् ॥४॥
श्रीरामं सहलक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं
वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्यसंहारकम् ।
वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुकम्पाकरं
शत्रुघ्नेन हनूमता च भरतेनासेवितं राघवम् ॥५॥
कलिकलुषविनाशं कामसिद्धिप्रकाशं सुरवरमुखभासं भूसुरेण प्रकाशम् ।
विबुधबुधविलासं साधुचर्याविशेषं नृपतिवरचरित्रं भोः शृणुष्वेतिहासम् ॥६॥
एकदा नारदो योगी परानुग्रहवांच्छया । पर्यटन्विविधाँल्लोकान्मर्त्यलोकमुपागमत् ॥७॥
तत्र दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान् । आधिव्याधियुतानार्तान्पच्यमानान्स्वकर्मभिः ॥८॥
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम्। इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥९॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शंखचक्रगदापद्मवनमालाविभूषितम् ॥१०॥
प्रसन्नवदनं शांतं सनकाद्यैरभिष्टुतम् । दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ॥११॥
॥ नारद उवाच ॥
नमो वाङ्मनसातीतरूपायानंतशक्तये । नादि मध्यान्तदेवाय निर्गुणाय महात्मने ॥१२॥
सर्वेषामादिभूताय लोकानामुपकारिणे । अपारपरिमाणाय तपोधाम्ने नमोनमः ॥१३॥
॥ सूत उवाच ॥
इति श्रुत्वा स्तुतिं विष्णुर्नारदं प्रत्यभाषत । किमर्थमागतोऽसि त्वं कि ते मनसि वर्तते ॥१४॥
कथयस्व महाभाग तत्सर्वं कथयामि ते । श्रुत्वा तु नारदो विष्णुमुक्तवान्सर्वकारणम् ॥१५॥
नारदस्य वचः श्रुत्वा साधुसाध्वित्यपूजयत् । शृणु नारद वक्ष्यामि व्रतमेकं सनातनम् ॥१६॥
कृते त्रेतायुगे विष्णुर्द्वापरेऽनेकरूपधृक् । कलौ प्रत्यक्षफलदः सत्यनारायणो विभुः ॥१७॥
चतुष्पादो हि धर्मश्च तस्य सत्यं प्रसाधनम् । सत्येन धार्यते लोकः सत्ये ब्रह्म प्रतिष्ठितम् ॥१८॥
सत्यनारायणव्रतमतः श्रेष्ठतमं स्मृतम् । इति श्रुत्वा हरेर्वाक्यं नारदः पुनरब्रवीत् ॥१९॥
किं फलं किं विधानं च सत्यनारायणार्चने । तत्सर्वं कृपया देव कथयस्व कृपानिधे ॥२०॥
॥ भगवानुवाच ॥
नारायणार्चने वक्तुं फलं नालं चतुर्मुखः । शृणु संक्षेपतो ह्येतत्कथयामि तवाग्रतः ॥२१॥
निर्धनोपि धनाढ्यः स्यादपुत्रः पुत्रवान्भवेत् । भ्रष्टराज्यो लभेद्राज्यमन्धोऽपि स्यात्सुलोचनः ॥२२॥
मुच्यते बंधनाद्बद्धो निर्भयः स्याद्भयातुरः । मनसा कामयेद्यन्यं लभते तं विधानतः ॥२३॥
इह जन्मनि भो विप्र भक्त्या च विधिनार्चयेत् । लभेत्कामं हि तच्छीघ्रं नात्र कार्या विचारणा ॥२४॥
प्रातःस्नायी शुचिर्भूत्वा दंतधावनपूर्वकम् । तुलसीमञ्जरीं धृत्वा ध्यायेत्सत्यस्थितं हरिम् ॥२५॥
नारायणं सांद्रघनावदातं चतुर्भुजं पीतमहार्हवाससम् ।
प्रसन्नवक्त्रं नवकंजलोचनं सनन्दनाद्यैरुपसेवितं भजे ॥२६॥
करोमि ते व्रतं देव सायंकाले त्वदर्चनम् । श्रुत्वा गाथां त्वदीयां हि प्रसादं ते भजाम्यहम् ॥२७॥
इति संकल्प्य मनसा सायंकाले प्रपूजयेत् । पञ्चभिः कलशैर्जुष्टं कदलीतोरणान्वितम् ॥२८॥
शालग्रामं स्वर्णयुक्तं पूजयेदात्मसूक्तकैः । पञ्चामृतेन संस्नाप्य चन्दनादिभिरर्चयेत् ॥२९॥
ॐनमो भगवते नित्यं सत्यदेवाय धीमहि । चतुःपदार्थदात्रे च नमस्तुभ्यं नमोनमः ॥३०॥
जप्तव्यष्टोत्तरशतं जुहुयात्तद्दशांशकम् । तर्पणं मार्जनं कृत्वा कथां श्रुत्वा हरेरिमाम् ॥३१॥
षडध्यायीं सत्यमुख्यां तत्पश्चात्तत्प्रसादकम् । सम्यग्विभज्य तत्सर्वं दापयेच्छ्रोतृकाय च ॥३२॥
आचार्यायादिभागं च द्वितीयं स्वकुलाय सः । श्रोतृभ्यश्च तृतीयं च चतुर्थं चात्महेतवे ॥३३॥
विप्रेभ्यो भोजनं दद्यात्स्वयं भुञ्जीत वाग्यतः । देवर्षेऽनेन विधिना सत्यनारायणार्चनम् ॥३४॥
कारयेद्यदि भक्त्या च श्रद्धया च समन्वितः । व्रती कामानवाप्नोति वांछितानिह जन्मनि ॥३५॥
इह जन्मकृतं कर्म परजन्मनि पद्यते । परजन्मकृतं कर्म भोक्तव्यं सर्वदा नरैः ॥३६॥
सत्यनारायण व्रतमिह सर्वान्कामान्ददाति हि । अद्यैव जगतीमध्ये स्थापयामि त्वदाज्ञया ॥३७॥
इत्युक्त्ंवाऽतर्दधे देवो नारदः स्वर्गतिं ययौ । स्वयं नारायणो देवः काश्यां पुर्यां समागतः ॥३८॥
[इति श्रीभविष्यपुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये श्रीसत्यनारायणव्रतकथायां प्रथमोऽध्यायः ]