द्वितीयोऽध्यायः
॥ सूत उवाच ॥
कृपया ब्राह्मणद्वारा प्रकटीकृतवान्स्वकम् । इतिहासमिमं वक्ष्ये संवादं हरिविप्रयोः ॥१॥
काशीपुरीति विख्याता तत्रासीद्ब्राह्मणो वरः। दीनो गृहाश्रमी नित्यं भिक्षुः पुत्रकलत्रवान् ॥२॥
शतानंद इति ख्यातो विष्णुव्रतपरायणः । एकदा पथि भिक्षार्थं गच्छतस्तस्य श्रीपतिः ॥३॥
विनीतस्यातिशांतस्य स बभूवाक्षिगोचरः । वृद्धब्राह्मणवेषेण पप्रच्छ ब्राह्मणं हरिः ॥
क्व यासीति द्विजश्रेष्ठ वृत्तिः कामेन कथ्यताम् ॥४॥
॥ शतानन्द उवाच ॥
भिक्षावृत्तिरहं सौम्य कलत्रापत्यहेतवे । याचितुं धनिनां द्वारि व्रजामि धनमुत्तमम् ॥५॥
॥ नारायण उवाच ॥
भिक्षावृत्तिस्त्वया दीर्घकालं द्विज सदा धृता । तद्वारक उपायोयं विशेषेण कलौ किल ॥६॥
ममोपदेशतो विप्र सत्यनारायणं भज । दारिद्र्यशोकशमनं संतापहरणं हरेः ॥
चरणं शरणं याहि मोक्षदं पद्मलोचनम् ॥७॥
एवं संबोधितो विप्रो हरिणा करुणात्मना । पुनः पप्रच्छ विप्रोसौ सत्यनारायणो हि कः ॥८॥
॥ वृद्धब्राह्मण उवाच ॥
बहु रूपः सत्यसंधः सर्वव्यापी निरञ्जनः । इदानीं विप्ररूपेण तव प्रत्यक्षमागतः ॥९॥
दुःखोदधिनिमग्नानां तरणिश्चरणौ हरेः । कुशलाः शरणं यांति नेतरे विषयात्मिकाः ॥१०॥
आहृत्य पूजासंभारान्हिताय जगतां द्विज । अर्चयंस्तमनुध्यायंस्त्वमेतत्प्रकटी कुरु ॥११॥
इति ब्रुवंतं विप्रोऽसौ ददर्श पुरुषोत्तमम् । जलदश्यामलं चारुचतुर्बाहुं गदादिभिः ॥१२॥
पीतांबरं नवांभोजलोचनं स्मितपूर्वकम् । वनमालामधुव्रात चुंबितांग्रिसरोरुहम् ॥१३॥
निशम्य पुलकांगोऽसौ प्रेमपूर्णसुलोचनः । स्तुवन्गद्गदया वाचा दंडवत्पतितो भुवि ॥१४॥
प्रणमामि जगन्नाथ जगत्कारणकारकम् । अनाथनाथं शिवदं शरण्यमनघं शुचिम् ॥१५॥
अव्यक्तं व्यक्ततां यातं तापत्रयविमोचनम् ॥१६॥
नमः सत्यनारायणायास्य कर्त्रे नमः शुद्धसत्त्वाय विश्वस्यभर्त्रे ।
करालाय कालाय विश्वस्य हर्त्रे नमस्ते जगन्मङ्गलायात्ममूर्ते ॥१७॥
धन्योस्म्यद्य कृती धन्यो भवोद्य सफलो मम । वाङ्मनोगोचरो यस्त्वं मम प्रत्यक्षमागतः ॥१८॥
दिष्टं किं वर्णयाम्याहो न जाने कस्य वा फलम् । क्रियाहीनस्य मन्दस्य देहोऽयं फलवान्कृतः ॥१९॥
पूजनं च प्रकर्तव्यं लोकनाथ रमापते । विधिना केन कृपया तदाज्ञापय मां विभो ॥२०॥
हरिस्तमाह मधुरं सस्मितं विश्वमोहनः । पूजायां मम विप्रेन्द्र बहु नापेक्षितं धनम् ॥२१॥
अनायासेन लब्धेन श्रद्धामात्रेण मां यज । ग्राहग्रस्तोजामिलो वा यथाऽभून्मुक्तसंकटः ॥२२॥
विधानं शृणु विप्रेन्द्र मनसा कामयेत्फलम् । पूजासंभृतसंभारः पूजां कुर्याद्यथा विधि ॥२३॥
गोधूमचूर्णं पादार्द्धं सेटकादिप्रमाणतः । दुग्धेन तावता युक्तं मिश्रितं शर्करादिभिः ॥२४॥
तच्चूर्णं हरये दद्याद् घृतयुक्तं हरिप्रियम्। गोदुग्धेनैव दधिना गोघृतेन समन्वितम् ॥२५॥
गंगाजलेन मधुना युक्तं पञ्चामृतं प्रियम् । पञ्चामृतेन संस्नाप्य शालग्रामोद्भवां शिलाम् ॥२६॥
गन्धपुष्पादिनैवेद्यैर्वेदवादैर्मनोहरैः । धूपैर्दीपैश्च नैवेद्यैस्तांबूलादिभिरर्चयेत् ॥२७॥
मिष्टान्नपानसन्मानैर्भक्ष्यैर्भोज्यैः फलैस्तथा । ऋतुकालोद्भवैः पुष्पैः पूजयेद्भक्तितत्परः ॥२८॥
ब्राह्मणैः स्वजनैश्चैव वेष्टितः श्रद्धयान्वितः । त्वया सार्द्धं मम कथां शृणुयात्परमादरात् ॥२९॥
इतिहासं तथा राज्ञो भिल्लानां वणिजोऽस्य च । कथांते प्रणमेद्भक्त्या प्रसादं विभजेत्ततः ॥३०॥
लब्धं प्रसादं भुंजीतमानयन्न विचारयेत् । द्रव्यादिभिर्न मे शांतिर्भक्त्या केवलया यथा ॥३१॥
विधिनानेन विप्रेन्द्र पूजयंति च ये नराः । पुत्रपौत्रधनैर्युक्ता भुक्त्वा भोगानमुत्तमान् ॥३२॥
अन्ते सान्निध्यमासाद्य मोदन्ते ते मया सह । यं यं कामयते कामं सुव्रती तं तमाप्नुयात् ॥३३॥
इत्युक्त्वान्तर्दधे विष्णुर्विप्रोऽपि सुखमाप्तवान् । प्रणम्यागाद्यथादिष्टं मनसा कौतुकाकुलः ॥३४॥
अद्य भैक्ष्येण लभ्येन पूज्यो नारायणो मया । इति निश्चित्य मनसा भिक्षार्थी नगरं गतः ॥३५॥
विना देहीति वचनं लब्धा च विपुलं धनम् । कौतुकायासमनसा जगाम निजमालयम् ॥३६॥
वृत्तांतं सर्वमाचख्यौ ब्राह्मणी सान्वमोदत । सादरं द्रव्यसंभारमाहृत्य भर्तुराज्ञया ॥३७॥
आहूय बन्धुमित्राणि तथा सान्निध्यवर्तिनः । सत्यनारायणं देवं यजामि स्वगणैर्वृतः ॥३८॥
भक्त्या तुतोष भगवान्सत्यनारायणः स्वयम् । कामं दित्सुः प्रादुरासीत्कथांते भक्तवत्सलः ॥३९॥
वव्रे विप्रोऽभिलषितमिहामुत्र सुखप्रदम् । भक्तिं परां भगवति तथा तत्संगिनां व्रतम् ॥४०॥
रथं कुञ्जरं मंजुलं मन्दिरं च हयं चारु चामी करालं कृतं च ।
धनं दासदासीगणं गां महीं च लुलायाः सदुग्धा हरे देहि दास्यम् ॥४१॥
तथास्त्विति हरिः प्राह ततश्चांतर्दधे प्रभुः । विप्रोऽपिकृत कृत्योऽभूत्सर्वे लोका विमिस्मिरे ॥४२॥
प्रणम्य भुवि कायेन प्रसादं प्रापुरादरात् । स्वंस्वं धाम समाजग्मुर्धन्यधन्येति वादिनः ॥४३॥
प्रचचार ततो लोके सत्यनारायणार्चनम् । कामसिद्धिप्रदं मुक्तिभुक्तिदं कलुषापहम् ॥४४॥
[इति श्रीभविष्यपुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये श्रीसत्यनारायणव्रतकथायां द्वितीयोऽध्यायः ]