चतुर्थोऽध्यायः
॥ सूत उवाच ॥
अथेतिहासं शृणुत यथा भिल्लाः कृतार्थिनः । विचरंतो वने नित्यं निषादाः काष्ठवाहिनः ॥१॥
वनात्काष्ठानि विक्रेतुं पुरीं काशीं ययुः क्वचित्। एकस्तृषाकुलो यातो विष्णुदासाश्रमं तदा ॥२॥
ददर्श विपुलैश्वर्यं सेवितं च द्विजैर्हरिम् । जलं पीत्वा विस्मितोऽभूद्भिक्षुकस्य कुतो धनम् ॥३॥
यो दृष्टोऽकिंचनो विप्रो दृश्यतेऽद्य महाधनः। इति संचिंत्य हृदये स पप्रच्छ द्विजोत्तमम् ॥४॥
ऐश्वर्यं ते कुतो ब्रह्मन्दुर्गतिस्ते कुतो गता । आज्ञापय महाभाग श्रोतुमिच्छामि तत्त्वतः ॥५॥
॥ सदानंद उवाच ॥
सत्यनारायणस्यांग सेवया किं न लभ्यते । न किंचित्सुखमाप्नोति विना तस्यानुकंपया ॥६॥
॥ निषाद उवाच ॥
अहो किमिति माहात्म्यं सत्यनारायणार्चने । विधानं सोपचारं च ह्युपदेष्टुं त्वमर्हसि ॥७॥
साधूनां समचित्तानामुपकारवतां सताम् । न गोप्यं विद्यते किंचिदार्तानामार्तिनाशनम् ॥८॥
इति पृष्टो विधिं वक्तुमितिहासमथाब्रवीत् । चन्द्रचूडो महीपालः केदारमणिपूरके ॥९॥
ममाश्रमं समायातः सत्यनारायणार्चने । विधानं श्रोतुकामोऽसौ मामाह सादरं वचः ॥१०॥
मया यत्कथितंतस्मै तन्निबोध निषादज । संकल्प्य मनसा कामं निष्कामो वा जनः क्वचित् ॥११॥
गोधूमचूर्णं पादार्धं सेटकाद्यैः सुचूर्णकम् । संस्कृतं मधुगंधाज्यैर्नैवेद्यं विभवेऽर्पयेत् ॥१२॥
पंचामृतेन संस्नाप्य चन्दनाद्यैश्च पूजयेत् । पायसापूपसंयाव दधिक्षीरमथोहरेत् ॥१३॥
उच्चावचः फलैः पुष्पैर्धूपदीपैमर्नोरमैः । पूजयेत्परया भक्त्या विभवे सति विस्तरैः ॥१४॥
न तुष्येद्द्रव्यसंभारैर्भक्त्या केवलया यथा । भगवान्परितः पूर्णो न मानं वृणुयात्क्वचित् ॥१५॥
दुर्योधनकृतां त्यत्क्वा राजपूजां जनार्दनः । विदुरस्याश्रमे वासमातिथ्यं जगृहे विभुः ॥१६॥
सुदाम्नस्तंडुलकणाञ्जग्ध्वा मानुष्यदुर्लभाः । संपदोऽदाद्धरिः प्रीत्या भक्तिमात्रमपेक्ष्यते ॥१७॥
गोपो गृध्रो वणिग्व्याधो हनुमान्सविभीषणः । येऽन्ये पापात्मका दैत्या वृत्रकायाधवादयः ॥१८॥
नारायणान्तिकं प्राप्य मोदंतेऽद्यापि यद्वशाः । इति श्रुत्वा नरपतिः पूजासंभारमादरात् ॥१९॥
कृतवान्स धनं लब्ध्वा मोदते नर्मदातटे । निषाद त्वमपि प्रीत्या सत्यनारायणं भज ॥२०॥
इह लोके सुखं प्राप्य चान्ते सान्निध्यमाप्नुयाः । कृतकृत्यो निषादोऽभूत्प्रणम्य द्विजपुंगवम् ॥२१॥
स गत्वा स्वगणानाह माहात्म्यं हरिसेवने । ते हृष्टमनसः सर्वे समयं चक्रुरादृताः ॥२२॥
सत्यनारायणे पूजां काष्ठलब्धेन यावता । वयं कुलैः करिष्यामः पुण्यवृक्षविधानतः ॥२३॥
इति निश्चित्य मनसा काष्ठं विक्रीय लेभिरे । चतुर्गुणं धनं हृष्टाः स्वंस्वं भवनमाययुः ॥२४॥
मुदा स्त्रीभ्यस्समाचख्युर्वृत्तांतं सर्वमादितः। ताः श्रुत्वा हृष्टमनसः पूजनं चक्रुरादरात् ॥२५॥
कथान्ते प्रणमन्भक्त्या प्रसादं जगृहुस्ततः । स्वजातिभ्यः परेभ्यश्च ददुस्तच्चूर्णमुत्तमम् ॥२६॥
पूजाप्रभावतो भिल्लाः पुत्रदारादिभिर्युताः । लब्ध्वा भूमितले द्रव्यं ज्ञानचक्षुर्महोत्तमम् ॥२७॥
भुक्त्वा भोगान्यथेष्टन्ते दरिद्रान्धा द्विजोत्तम । जग्मुस्ते वैष्णवं धाम योगिनामपि दुर्लभम् ॥२८॥
[इति श्रीभविष्यपुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये श्रीसत्यनारायणव्रतकथायां चतुर्थोऽध्यायः ]