पञ्चमोध्यायः
॥ सूत उवाच ॥
अथ ते वर्णयिष्यामि कथां साधूपचारिताम् । नृपोपदेशतः साधुः कृतार्थोऽभूद्वणिग्यथा ॥१॥
मणिपूरपती राजा चन्द्रचूडो महायशाः । सह प्रजाभिरानर्च सत्यनारायणं प्रभुम् ॥२॥
अथ रत्नपुरस्थायी साधुर्लक्षपतिर्वणिक् । धनैरापूर्य तरणीः सह गच्छन्नदीतटे ॥३॥
ददर्श बहुलं लोकं नानाग्रामविलासिनम् । मणिमुक्ताविरचितैर्वितानैस्समलंकृतम् ॥४॥
वेदवादांश्च शुश्राव गीतवादित्रसंगतान् । रम्यं स्थानं समालोक्य कर्णधारं समादिशत् ॥५॥
विश्रामयात्र तरणीरिति पश्यामि कौतुकम् । भर्त्रादिष्टस्तथा चक्रे कर्णधारः सभृत्यकैः ॥६॥
तटसीम्नः समुत्तीर्य मल्ललीलाविलासिनः । कर्णधारा नगा वीरा युयुधुर्मल्ललीलया ॥७॥
स्वयमुत्तीर्य सामात्यो लोकान्पप्रच्छ सादरम् । यज्ञस्थानं समालोक्य प्रशस्तं समुदो ययौ ॥८॥
किमत्र क्रियते सभ्या भवद्भिर्लोकपूजितैः । सभ्या ऊचुश्च ते सर्वे सत्यनारायणो विभुः ॥९॥
पूज्यते बंधुभिः सार्धं राज्ञा लोकानुकंपिना । प्राप्तं निष्कटकं राज्यं सत्यनारायणार्चनात् ॥१०॥
धनार्थी लभते द्रव्यं पुत्रार्थी सुतमुत्तमम् । ज्ञानार्थी लभते चक्षुर्निर्भयः स्याद्भयातुरः ॥११॥
सर्वान्कामानवाप्नोति नरः सत्यसुरार्चनात् । विधानं तु ततः श्रुत्वा चैलं बद्ध्वा गलेऽसकृत् ॥१२॥
दंडवत्प्रणिपत्याह कामं सभ्यानमोदयत् । अनपत्योऽस्मि भगवन्वृथैश्वर्यो वृथोद्यमः ॥१३॥
पुत्रं वा यदि वा कन्यां लभेयं त्वत्प्रसादतः । पताकां कांचनीं कृत्वा पूजयिष्ये कृपानिधिम् ॥१४॥
श्रुत्वा सभ्या अब्रुवंस्ते कामनासिद्धिरस्तु ते । हरिं प्रणम्य सभ्याश्च प्रसादं भुक्तवांस्तदा ॥ १५॥
जगाम स्वालयं साधुर्मनसा चिंतयन्हरिम्। स्वगृहे ह्यागते तस्मिन्नार्यो मंगलपाणयः ॥१६॥
मंगलानि विचित्राणि यथोचितमकारयन् । विवेशांतःपुरे साधुर्महाकौतुकमंगलः ॥१७॥
ऋतुस्नाता सती लीलावती पर्यचरत्पतिम् । गर्भं धृतवती साध्वी समये सुषुवे तु सा ॥१८॥
कन्यां कमललोलाक्षीं बांधवामोदकारिणीम् । साधुः परां मुदं लेभे विततार धनं बहु ॥१९॥
विप्रानाहूय वेदज्ञान्कारयामास मंगलम् । लेखयित्वा जन्मपत्रीं नाम चक्रे कलावतीम् ॥२०॥
कलानिधिकले वासौ ववृधे सा कलावती । अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥२१॥
दशवर्षा भवेत्कन्या ततः प्रौढा रजस्वला । प्रौढां कालेन तां दृष्ट्वा विवाहार्थमचिन्तयत् ॥२२॥
नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः । कुलीनो रूपसंपत्तिशीलौदार्यगुणान्वितः ॥२३॥
वरयामास तं साधुर्दुहितुः सदृशं वरम् । शुभे लग्ने बहुविधैर्मंगलैरग्निसन्निधौ ॥२४॥
वेदवादित्रनिनदैर्ददौ कन्यां यथाविधि । मणिमुक्ताप्रवालानि वसनं भूषणानि च ॥२५॥
महामोदमनाः साधुर्मंगलार्थं ददौ च हि । प्रेम्णा निवासयामास गृहे जामातरं ततः ॥२६॥
तं मेने पुत्रवत्साधुः स च तं पितृवत्सुधीः । अतीते भूयसः काले सत्यनारायणार्चनम् ॥२७॥
विस्मृत्य सह जामात्रा वाणिज्याय ययौ पुनः ॥
॥ सूत उवाच ॥
अथ साधुः समादाय रत्नानि विविधानि च ॥२८॥
नौकाः संस्थाप्य स ययौ देशाद्देशान्तरं प्रति । नगरं नर्मदातीरे तत्र वासं चकार सः ॥२९॥
कुर्वन्क्रयं विक्रयं च चिरं तस्थौ महामनाः । कर्मणा मनसा वाचा न कृतं सत्यसेवनम् ॥३०॥
ततः कर्मविपाकेन तापमापाचिराद्वणिक् । कस्मिंश्चिद्दिवसे रात्रौ राज्ञो गेहे तमोवृते: ॥३१॥
ज्ञात्वा निद्रागतान्सर्वान्हृतं चौरैर्महाधनम् । प्रभाते वाचितो राजा सूतमागधबंदिभिः ॥३२॥
प्रातःकृत्यं नृपः कृत्वा सदः संप्राविशच्च सः । ततस्तत्र समायातः किंकरो राजवल्लभः ॥३३॥
उवाच स तदा वाक्यं शृणुष्व त्वं धरापते । मुक्तामालाश्च बहुधा रत्नानि विविधानि च ॥३४॥
मुमुषुश्चौरा गतास्सर्वे न जानीमो वयं नृप । इति विज्ञापितो राजा पुण्यश्लोक शिखामणिः ॥३५॥
उवाच क्रोधताम्राक्षो यूयं संयात मा चिरम् । सचौरं द्रव्यमादाय मत्पार्श्वं त्वमुपानय ॥३६॥
नो चेद्धनिष्ये सगणानिति दूतान्समादिशत् । नृपवाक्यं समाकर्ण्य प्रजग्मुस्ते च किंकराः ॥३७॥
बहुयत्नैर्न संशोध्य द्रव्यं चोरसमन्वितम् । एकीभूत्वा निशि तदा महाचिंतातुरोऽभवत् ॥३८॥
हन्ता मां सगणं राजा किं करोमि कुतः सुखम् । नृपदंडाच्च मे मृत्युः प्रेतत्वाय भवेदिह ॥३९॥
नर्मदायां च मरणं शिवलोकप्रदायकम् । इत्येवं संमतं कृत्वा नर्मदायास्तटं ययुः ॥४०॥
विदेशिनोऽस्य वणिजो ददर्श विपुलं धनम् । मुक्ताहारं गले तस्य लुंठितं वणिजोऽस्य च ॥४१॥
चौरोऽयमिति निश्चित्य तौ बबंधात्मरक्षणात् । सधनं सह जामात्रा नृपान्तिकमुपानयत् ॥४२॥
प्रतिकूले हरौ तस्मिन्राज्ञापि न विचारितम् । धनागारे धनं नीत्वा बध्नीत तौ सुदुर्मती ॥४३॥
कारागारे लोहमयैः शृंखलैरंगपादयोः । इति राजाज्ञया दूतास्तथा चक्रुर्निबंधनम् ॥४४॥
जामात्रा सहितः साधुर्विललाप भृशं मुहुः । हा पुत्र तात तातेति जामातः क्व धनं गतम् ॥४५॥
क्व स्थिता च सुता भार्या पश्य धातुर्विपर्ययम् । निमग्नौ दुःखजलधौ को वां पास्यति संकटात् ॥४६॥
मया बहुतरं धातुर्विप्रियं हि पुराकृतम् । तत्कर्मणः प्रभावोऽयं न जाने कस्य वा फलम् ॥४७॥
समं श्वशुरजामात्रौ द्वादशेषु विषादिनौ ॥४८॥
[इति श्रीभविष्यपुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये श्रीसत्यनारायणव्रतकथायां पञ्चमोऽध्यायः ]
षष्ठोऽध्यायः
॥ सूत उवाच ॥
तापत्रयहरं विष्णोश्चरितं तस्य ते शिवम् । शृण्वंति सुधियो नित्यं ते वसंति हरेः पदम् ॥१॥
प्रतिकूले हरौ तस्मिन्यास्यन्ति निरयान्बहून् । तत्प्रिया कमला देवी चत्वारस्तस्य चात्मजाः ॥२॥
धर्मो यज्ञो नृपश्चौरः सर्वे लक्ष्मीप्रियंकराः । विप्रेभ्यश्चातिथिभ्यश्च यद्दानं धर्म उच्यते ॥३॥
मातृभ्यो देवताभ्यश्च स्वधा स्वाहेति वै मखः । धर्मस्यैव मखस्यैव रक्षको नृपतिः स्मृतः ॥४॥
द्वयोर्हन्ता हि चोरः स ते सर्वे धर्मकिंकराः । यत्र सत्यं ततो धर्मस्तत्र लक्ष्मीः स्थिरा भवेत् ॥५॥
सत्यहीनस्य तत्साधोर्धनं यत्तद्ग्रहे स्थितम् । हृतवानवनीपालः चौरैर्भार्यातिदुःखिता ॥६॥
वासोलंकरणादीनि विक्रीय बुभुजे किल । नास्ति तत्पच्यते किंचित्तदा कष्टमहागत ॥७॥
अथैकस्मिन्दिने कन्या भोजनाच्छादनं विना । गता विप्रगृहेऽपश्यत्सत्यनारायणार्चनम् ॥८॥
प्रार्थयंतं जगन्नाथं दृष्ट्वा सा प्रार्थयद्धरिम् । सत्यनारायण हरे पिता भर्ता च मे गृहम् ॥९॥
आगच्छत्वर्चयिष्यामि भवंतमिति वाचये । तथास्तु ब्राह्मणैरुक्ता ततः सा त्वाश्रमं ययौ ॥१०॥
मात्रा निर्भर्त्सितेयंतं कालं कुत्र स्थिता शुभे । वृत्तांतं कथयामास सत्यनारायणार्चने ॥११॥
कलौ प्रत्यक्ष फलदः सर्वदा क्रियते नरैः । कर्तुमिच्छाम्यहं मातरनुज्ञातुं त्वमर्हसि ॥१२॥
देशमायातु जनकः स्वामी च मम कामना । रात्रौ निश्चित्य मनसा प्रभाते सा कलावती ॥१३॥
शीलपालस्य गुप्तस्य गेहे प्राप्ता धनार्थिनी । बंधो किंचिद्धनं देहि येन सत्यार्चनं भवेत् ॥१४॥
इति श्रुत्वा शीलपालः पंचनिष्कं धनं ददौ । त्वत्पितुश्च ऋणं शेषं मयीत्येव कलावति ॥१५॥
इत्युक्त्वा सोऽनृणो भूत्वा गयाश्राद्धाय संययौ । सुतापि तेन द्रव्येण कृतं सत्यार्चनं शुभम् ॥१६॥
लीलावती सह तया भक्त्याकार्षीत्प्रपूजनम्। पूजनेन विशेषेण तुष्टो नारायणोऽभवत् ॥१७॥
नर्मदातीरनगरे नृपः सुष्वाप मंदिरे । रात्रिशेषे सुपर्यंके निद्रां कुर्वति राजनि ॥
उवाच विप्ररूपेण बोधयञ्छ्लक्ष्णया गिरा ॥१८॥
उत्तिष्ठोत्तिष्ठ राजेन्द्र तौ साधू परिमोचय । अपराधं विना बद्धौ नो चेच्छं न भवेत्तव ॥१९॥
इत्येवं भूपतिश्चैव विप्ररूपेण बोधितः । तदा ह्यन्तर्दधे विष्णुर्विनिद्रो नृपतिस्तदा ॥२०॥
विस्मितः सहसोत्थाय दध्यौ ब्रह्म सनातनम् । सभायां मंत्रिणे राजा स्वप्नहेतुं न्यवेदयत् ॥२१॥
महामन्त्री च भूपालं प्राह सत्येन भो द्विज । मयापि दर्शितं स्वप्नं वृद्धविप्रेण बोधितम् ॥
अतस्तौ हि समानीय संपृच्छ विधिवन्नृप ॥२२॥
आनीय साधुं पप्रच्छ सत्यमालंब्य भूपतिः । कुत्रत्यौ वां कुलं किं वा वसतिः कस्य वा पुरे ॥२३॥
॥ साधुरुवाच ॥
रम्ये रत्नपुरे वासो वणिग्जातौ जनिर्मम । वाणिज्यार्थं महाराज वाणिज्यं जीविकावयोः ॥२४॥
मणिमुक्तादि विक्रेतुं क्रेतुं वा तव पत्तने । प्राप्तौ दूतैश्च बद्ध्वावां त्वत्समीपमुपागतौ ॥२५॥
प्रतिकूले विधौ को वा दशां नाप्नोति वै पुमान् । विनापराधं राजेन्द्र मणिचौरानवादयन् ॥२६॥
आवां न चौरो राजेंद्र तत्त्वतस्त्वं विचारय । श्रुत्वा तन्निश्चयं ज्ञात्वा तयोर्बंधनकारणम् ॥२७॥
छेदयित्वा दृढं पाशं लोमशातिमकारयत् । कारयित्वा परिष्कारं भोजयामास तौ नृपः ॥२८॥
नगरे पूजयामास वस्त्राभूषणवाहनैः । अब्रवीत्पूजितः साधुर्भूपतिं विनयान्वितः ॥२९॥
कारागारे बहुविधं प्राप्तं दुःखमतः परम् । आज्ञापय महाराज देशं गंतुं कृपानिधे ॥३०॥
श्रुत्वा साधुवचो राजा प्राह कोशाधिकारिणम् । मुद्राभिस्तरणीः सद्यः पूरयाशु मदाज्ञया ॥३१॥
जामात्रा सहितः साधुर्गीतवादित्रमंगलैः । स्वदेशं चलितोऽद्यापि न चक्रे हरिसेवनम् ॥३२॥
सत्यनारायणो देवः प्रत्यक्षफलदः कलौ । स एव तापसो भूत्वा चक्रे साधुविडंबनम् ॥३३॥
॥ तापस उवाच ॥
धर्मः किं नौषु ते साधो मामनादृत्य यासि भोः । प्रत्युत्तरमदात्साधुः क्षिपनौकाश्च सत्वरम् ॥३४॥
भोः स्वामिन्मे धनं नास्ति लतापत्रादिपूरितम् । नौभिर्गच्छामि स्वस्थानं विरोधे नात्र किं फलम् ॥३५॥
इत्युक्तस्तापसः प्राह तथास्त्विति वचः क्षणात् । धनमंतर्दधे साधोर्लतापत्रावशेषितम् ॥३६॥
धनं नौकासु नास्तीति साधुश्चिंतातुरोऽभवत् । किमिदं कस्य वा हेतोर्धनं कुत्र गतं मम ॥३७॥
वज्रपाताहत इव भृशं दुःखितमानसः । क्व यास्यामि क्व तिष्ठामि किं करोमि धनं कुतः ॥३८॥
इति मूर्छागतः साधुर्विललाप पुनःपुनः । जामात्रा बोधितः पश्चात्तापसं तं जगाम ह ॥३९॥
गले वसनमादाय प्रणनाम स तापसम् । को भवानिति पप्रच्छ देवो गंधर्व ईश्वरः ॥४०॥
देवदेवोऽथवा कोऽपि न जाने तव विक्रमम् । आज्ञापय महाभाग तद्विडम्बनकारणम् ॥४१॥
॥ तापस उवाच ॥
आत्मा चैवात्मनः शत्रुस्तथात्र च प्रियोऽप्रियः । त्यज मौढ्यमति साधो प्रवादं मा वृथा कृताः ॥४२॥
इति विज्ञापितः साधुर्न बुबोध महाधनः । पुनः स तापसः प्राह कृपया पूर्वकर्मतः ॥४३॥
चंद्रचूडो यदानर्च सत्यनारायणं नृपः । अनपत्येन सुचिरं पुत्रकन्यार्थिना त्वया ॥४४॥
प्रार्थितं न स्मृतं ह्येव इदानीं तप्यसे वृथा । सत्यनारायणो देवो विश्वव्यापी फलप्रदः ॥४५॥
तमनादृत्य दुर्बुद्धे कुतः सम्यग्भवेत्तव । पुरालब्धवरं स्मृत्वा सस्मार जगदीश्वरम् ॥४६॥
सत्यनारायणं देवं तापसं तं ददर्श ह । प्रणम्य भुवि कायेन परिक्रम्य पुनःपुनः ॥
तुष्टाव तापसं तत्र साधुर्गद्गदया गिरा ॥४७॥
॥ साधुरुवाच ॥
सत्यरूपं सत्यसंधं सत्यनारायणं हरिम् । यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥४८॥
त्वन्मायामोहितात्मानो न पश्यंत्यात्मनः शुभम् । दुःखांभोधौ सदा मग्ना दुःखे च सुखमानिनः ॥४९॥
मूढोहं धनगर्वेण मदांधीकृतलोचनः । न जाने स्वात्मनः क्षेमं कथं पश्यामि मूढधीः ॥५०॥
क्षमस्व मम दौरात्म्यं तपो धाम्ने हरे नमः। आज्ञापयात्मदास्यं मे येन ते चरणौ स्मरे ॥५१॥
इति स्तुत्वा लक्षमुद्राः स्थापिताः स्वपुरोधसि । गत्वावासं पूजयिष्ये सत्यनारायणं प्रभुम् ॥५२॥
तुष्टो नारायणः प्राह वांछा पूर्णा भवेत्तु ते । पुत्रपौत्रसमायुक्तो भुक्त्वा भोगांस्त्वमुत्तमान् ॥
अंते सांनिध्यमासाद्य मोदसे त्वं मया सह ॥५३॥
इत्युक्त्वान्तर्दधे विष्णुः साधुश्च स्वाश्रमं ययौ । सप्ताहेन गृहं प्राप्तः सत्यदेवेन रक्षितः ॥५४॥
आगत्य नगराभ्याशे प्राहिणोद्द्रुतमाश्रमम् । गृहमागत्य दूतोपि प्राह लीलावतीं प्रति ॥५५॥
जामात्रा सहितः साधुः कृतकृत्यः समागतः । सत्यनारायणार्चायां स्थिता साध्वी सकन्यका ॥५६॥
पूजाभारं सुतायै सा दत्त्वा नौकांतिकं ययौ । सखीगणैः परिवृता कृतकौतुकमंगला ॥५७॥
कलावती त्ववज्ञाय प्रसादं सत्वरा ययौ । पातुं पतिमुखांभोजं चकोरीव दिनात्यये ॥५८॥
अवज्ञानात्प्रसादस्य नौकाशंखपतेरथ । निमग्ना जलमध्ये तु जामात्रा सह तत्क्षणात् ॥५९॥
मग्नं जामातरं पश्यन्विललाप स मूर्च्छितः । लीलावती तु तद्दृष्ट्वा मूर्च्छिता विललाप ह ॥६०॥
ततः कलावती दृष्ट्वा पपात भुवि मूर्च्छिता । रंभेव वातविहता कान्तकान्तेतिवादिनी ॥६१॥
हा नाथ प्रिय धर्मज्ञ करुणाकरकौशल । त्वया विरहिता पत्या निराशा विधिना कृता ॥
पत्युरर्द्धं गतं कस्मादर्द्धांगं जीवनं कथम् ॥६२॥
॥ सूत उवाच ॥
कलावती चारुकलासु कौशला प्रवालरक्तांघ्रितलातिकोमला ।
सरोजनेत्रांबुकणान्विमुंचती मुक्तावलीभिस्तनकुड्मलांचिता ॥६३॥
हा सत्यनारायण सत्यसिंधो मग्नं हि मामुद्धर तद्वियोगे ।
श्रुत्वाऽर्तशब्दं भगवानुवाच वचस्तदाकाशसमुद्भवं च ॥६४॥
साधो कलावती क्षिप्रं मत्प्रसादं हि भोजयेत् । तत्पश्चादिह संप्राप्य पतिं प्राप्स्यति मा शुचः ॥६५॥
इत्याकाशे वचः श्रुत्वा विस्मिता तच्चकार सा । नारायणस्य कृपया पतिं प्राप्ता कलावती ॥६६॥
तत्रैव साधुः साह्लादो भक्त्या परमया युतः । पूजनं लक्षमुद्राभिः सत्यदेवस्य चाकरोत् ॥६७॥
तेन व्रतप्रभावेन पुत्रपौत्रसमन्वितः । भुक्त्वा भोगान्मुदा युक्तो मृतः स्वर्गपुरं ययौ ॥६८॥
इतिहासमिमं भक्त्या शृणुयाद्यो हि मानवः । सोऽपि विष्णुप्रियतरः कामसिद्धिमवाप्नुयात् ॥६९॥
इति ते कथितं विप्र व्रतानामुत्तमं व्रतं । कलिकाले परं पुण्यं ब्राह्मणस्य मुखोद्भवम् ॥७०॥
[इति श्रीभविष्यपुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये श्रीसत्यनारायणव्रतकथायां षष्ठोऽध्यायः ]
निष्कर्ष
श्रीसत्यनारायण व्रत कथा केवल निर्धनता दूर करने का साधन नहीं है, बल्कि यह ‘सत्य’ (ब्रह्म) के प्रति निष्ठा का संकल्प है। भविष्य पुराण की यह षडध्यायी कथा स्पष्ट करती है कि मनुष्य का दुःख उसके कर्मों का फल है और सत्य की शरण में जाने से उन प्रारब्ध कर्मों का क्षय संभव है। यह व्रत कलियुग में ‘प्रत्यक्ष फलदाता’ है। जो व्यक्ति श्रद्धापूर्वक संस्कृत में इन ६ अध्यायों का श्रवण करता है, वह न केवल इस लोक के सुख भोगता है, बल्कि अंत में विष्णुलोक (वैकुंठ) को प्राप्त होता है।
विशेष आग्रह : उपरोक्त श्री सत्यनारायण व्रत कथा में कहीं कोई अशुद्धि दृष्टिगत हो तो टिपण्णी करके …. अवश्य सूचित करें।
FAQ
प्रश्न: क्या सत्यनारायण कथा केवल पूर्णिमा को ही की जा सकती है?
उत्तर: पूर्णिमा और संक्रान्ति श्रेष्ठ हैं, किन्तु भगवान के वचनानुसार इसे किसी भी दिन सायंकाल (प्रदोष काल) में किया जा सकता है।
प्रश्न: क्या बिना ब्राह्मण के कथा सुनी जा सकती है?
उत्तर: शास्त्रानुसार, मन्त्रों और कथा का वाचन ब्राह्मण द्वारा होना ही फलदायी है।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।


