गणपतिस्तव
ब्रह्मविष्णुमहेश्वरा ऊचुः
अजं निर्विकल्पं निराकारमेकं निरालम्बमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम ॥१॥
गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥२॥
जगत्कारणं कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम ॥३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं सदा ब्रह्मरूपं गणेशं नताः स्मः ॥४॥
सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नताः स्मः ॥५॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नताः स्मः ॥६॥
तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रध्नरूपं गणेशं नताः स्मः॥७॥
निजैरौषधैस्तर्पयन्तं करोघैः सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नताः स्मः ॥८॥
प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नताः स्मः ॥९॥
प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नताः स्मः ॥१०॥
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितेऽयं जनो ध्वान्तबाधां कथं वा लभेत ॥११॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्ध्वा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥१२॥
ब्रह्मोवाच
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने । कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥१३॥
फलश्रुतिः
गणेश उवाच
यदर्थं क्लेशिता यूयं यदर्थमिह चागताः । प्रीतोऽहमनया स्तुत्या वरं मत्तो वृणीत तम् ॥१४॥
कृतञ्च मम यत् स्तोत्रं भवद्भिर्भावितात्मभिः । स्तोत्रराजमितिख्यातं भविष्यति ममाज्ञया ॥१५॥
इदं यः पठेत् प्रातरुत्थाय धीमान् स्त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
स पुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ॥१६॥
॥ इति गणेशपुराण उपासना खण्डे त्रयोदशोऽध्याये ब्रह्मविष्णुमहेश्वराकृतो गणपति स्तवः सम्पूर्णः ॥