जिस प्रकार देवताओं के 108 नाम होते हैं और जिस स्तोत्र में 108 नामों का उल्लेख होता है उसे उस देवता संबंधी अष्टोत्तरशतनाम कहा जाता है उसी प्रकार देवताओं के 1000 नामों का जिस स्तोत्र में संग्रह हो उसे देवता संबंधी सहस्रनाम स्तोत्र कहा जाता है। इस आलेख में भगवान गणेश का सहस्रनाम दिया गया है। इसके साथ है महागणपति सहस्रनाम स्तोत्र भी दिया गया है।
गणेश सहस्रनाम स्तोत्र – ganesh sahasranama stotram
मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् । शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥१॥
ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥२॥
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥३॥
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् । सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥४॥
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् । ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥५॥
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य । गणेशऋषिः । महागणपतिर्देवता । नानाविधानिच्छन्दांसि । हुमिति बीजम् । तुङ्गमिति शक्तिः । स्वाहाशक्तिरिति कीलकम् ॥ (गमिति बीजम् । तुण्डमिती शक्तिः । स्वाहा कीलकम् ।) सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
॥ अथ करन्यासः ॥
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः । कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥१॥
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः। रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः॥२॥
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः। लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः॥३॥
॥ अथ हृदयादिन्यासः ॥
छन्दश्छन्दोद्भव इति हृदयाय नमः ॥
निष्कलो निर्मल इति शिरसे स्वाहा ॥
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ॥
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ॥
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ॥
अनन्तशक्तिसहित इत्यस्त्राय फट् ॥
भूर्भुवः स्वरोम् इति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि ॥१॥
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरुढं त्रिनेत्रं
पाशं चैवाङ्कुशाख्यं परशुमभयदं बाहुभिर्धारयन्तम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं
रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥२॥
श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानन्देशाय ब्रह्मणस्पतये साङ्गाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः ॥
॥ इति नाममन्त्रेण मानसैः पञ्चोपचारैः सम्पूज्य पठेत् ॥
श्रीमहागणपतिरुवाच
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥१॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥२॥
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥३॥
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः । विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥४॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥५॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः॥६॥
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः। कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः॥७॥
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥८॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥९॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥१०॥
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥११॥
किरीटी कुण्डली हारी वनमाली मनोमयः। वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः॥१२॥
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥१३॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः। पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः॥१४॥
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः। योगाधिपस्तारकस्थः पुरुषो गजकर्णकः॥१५॥
गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी। देवदेवः स्मरः प्राणदीपको वायुकीलकः॥१६॥
विपश्चिद्वरदो नादो नादभिन्नमहाचलः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥१७॥
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः। शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः॥१८॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः। उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः॥१९॥
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः। सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः॥२०॥
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥२१॥
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥२२॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः । कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः॥२३॥
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः। व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः॥२४॥
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥२५॥
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः। ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः॥२६॥
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥२७॥
प्रतापी काश्यपो मन्ता गणको विष्टपी बली । यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥२८॥
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥२९॥
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः। नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः॥३०॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥३१॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः । लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥३२॥
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः। पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः॥३३॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः। पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः॥३४॥
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥३५॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥३६॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥३७॥
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः । रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥३८॥
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥३९॥
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥४०॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥४१॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥४२॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥४३॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥४४॥
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः । करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥४५॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥४६॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥४७॥
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः । आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥४८॥
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः । दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥४९॥
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः । विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥५०॥
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥५१॥
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥५२॥
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः । नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥५३॥
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥५४॥
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् । ऐरावतादिसर्वाशावारणो वारणप्रियः ॥५५॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरिकरो विजयाविजयावहः ॥५६॥
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः। विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः॥५७॥
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥५८॥
सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीपालनः कामकामिनीकेलिलालितः ॥५९॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥६०॥
नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥६१॥
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥६२॥
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥६३॥
अनापायोऽनन्तदृष्टिरप्रमेयोऽजरामरः । अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥६४॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥६५॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।आधारपीठमाधार आधाराधेयवर्जितः ॥६६॥
आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥६७॥
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥६८॥
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः। इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः॥६९॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥७०॥
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः । उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥७१॥
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥७२॥
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः । ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥७३॥
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम्। लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः॥७४॥
एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥७५॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरंमदसमोन्मेष ऐरावतसमाननः ॥७६॥
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः। औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः॥७७॥
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः। अः समस्तविसर्गान्तपदेषु परिकीर्तितः॥७८॥
कमण्डलुधरः कल्पः कपर्दी कलभाननः। कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः॥७९॥
कदम्बगोलकाकारः कूष्माण्डगणनायकः। कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत्॥८०॥
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः। खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः॥८१॥
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥८२॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥८३॥
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः। ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत्॥८४॥
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः । चराचरपिता चिन्तामणिश्चर्वणलालसः ॥८५॥
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः। जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः॥८६॥
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः। स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः॥८७॥
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः । ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥८८॥
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः। ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥८९॥
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः। तारकान्तरसंस्थानस्तारकस्तारकान्तकः॥९०॥
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत्। दक्षयज्ञप्रमथनो दाता दानं दमो दया॥९१॥
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः । दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥९२॥
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः । धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥९३॥
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः। ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः॥९४॥
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः। निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः॥९५॥
परं व्योम परं धाम परमात्मा परं पदम्। परात्परः पशुपतिः पशुपाशविमोचनः ॥९६॥
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः। पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ॥९७॥
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः। फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः॥९८॥
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥९९॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः। बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः॥१००॥
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः। भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः॥१०१॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः। मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः॥१०२॥
मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः। महाबलो महावीर्यो महाप्राणो महामनाः॥१०३॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥१०४॥
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः । राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥१०५॥
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः। लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः॥१०६॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥१०७॥
वामदेवो विश्वनेता वज्रिवज्रनिवारणः । विश्वबन्धन विष्कम्भाधारो विश्वेश्वरप्रभुः ॥१०८॥
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः। शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः॥ १०९॥
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥११०॥
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः । सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥१११॥
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः। स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी॥११२॥
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक्। हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः॥११३॥
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः। क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥११४॥
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः॥११५॥
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥११६॥
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः। प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः॥११७॥
पराभिचारशमनो दुःखहा बन्धमोक्षदः । लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥११८॥
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम्। पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः॥११९॥
राशिस्तारा तिथिर्योगो वारः करणमंशकम्। लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः॥१२०॥
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः। कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत्॥१२१॥
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान्। ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः॥१२२॥
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः। सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः॥१२३॥
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः। साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः॥१२४॥
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः। आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम्॥१२५॥
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् । शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥१२६॥
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥१२७॥
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान्। स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड् वौषड् वषण्णमः॥१२८॥
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः । एक एकाक्षराधार एकाक्षरपरायणः ॥१२९॥
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक्। द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः॥ १३०॥
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः । त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥१३१॥
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः। चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः॥१३२॥
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः । चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः ।
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥१३३॥
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥१३४॥
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः । पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥१३५॥
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः । पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥१३६॥
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः। षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः॥१३७॥
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः। षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः॥१३८॥
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः। सप्तपातालचरणः सप्तद्वीपोरुमण्डलः॥१३९॥
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः॥१४०॥
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः। सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः॥१४१॥
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः । अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥१४२॥
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः । अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥१४३॥
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥१४४॥
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ॥१४५॥
नवद्वारपुरावृत्तो नवद्वारनिकेतनः । नवनाथमहानाथो नवनागविभूषितः ॥१४६॥
नवनारायणस्तुल्यो नवदुर्गानिषेवितः । नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥१४७॥
दशात्मको दशभुजो दशदिक्पतिवन्दितः। दशाध्यायो दशप्राणो दशेन्द्रियनियामकः॥१४८॥
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः । एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥१४९॥
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः । त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥१५०॥
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥१५१॥
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः। तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः॥१५२॥
षोडशाधारनिलयः षोडशस्वरमातृकः। षोडशान्तपदावासः षोडशेन्दुकलात्मकः॥१५३॥
कलासप्तदशी सप्तदशसप्तदशाक्षरः । अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥१५४॥
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः । अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥१५५॥
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत्। एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः॥१५६॥
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः। सप्तविंशतितारेशः सप्तविंशतियोगकृत्॥१५७॥
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः । षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥१५८॥
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः । पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥१५९॥
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः । नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥१६०॥
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः । अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥१६१॥
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः । शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥१६२॥
शतानीकः शतमखः शतधारावरायुधः । सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥१६३॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥१६४॥
दशसाहस्रफणिभृत्फणिराजकृतासनः । अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥१६५॥
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः । चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥१६६॥
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः। कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः॥१६७॥
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः । सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥१६८॥
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः । अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥१६९॥
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः । अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥१७०॥
इति वैनायकं नाम्नां सहस्रमिदमीरितम् । इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥१७१॥
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम्। आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः॥१७२॥
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता। सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता॥१७३॥
जगत्संवननं विश्वसंवादो वेदपाटवम् । सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥१७४॥
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता। ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा॥१७५॥
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत्। वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते॥१७६॥
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः। जप्यते यस्य वश्यार्थे स दासस्तस्य जायते॥१७७॥
धर्मार्थकाममोक्षाणामनायासेन साधनम् । शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥१७८॥
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् । समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥१७९॥
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् । षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥१८०॥
परकृत्यप्रशमनं परचक्रप्रमर्दनम् । सङ्ग्राममार्गे सर्वेषामिदमेकं जयावहम् ॥१८१॥
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् । पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥१८२॥
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च । न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥१८३॥
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः । गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥१८४॥
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् । शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥१८५॥
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् । आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥१८६॥
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् । सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥१८७॥
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि । सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥१८८॥
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् । इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥१८९॥
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः । चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥१९०॥
कामरूपः कामगतिः कामदः कामदेश्वरः । भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥१९१॥
गणेशानुचरो भूत्वा गणो गणपतिप्रियः । नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥१९२॥
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः । शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥१९३॥
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते । निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥१९४॥
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः । निरन्तरे निराबाधे परमानन्दसंज्ञिते ॥१९५॥
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते । लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥१९६॥
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेन्नरः। राजानो वश्यतां यान्ति रिपवो यान्ति दासताम्॥१९७॥
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः। मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम॥१९८॥
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि। दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत्॥१९९॥
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः । तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥२००॥
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् । इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥२०१॥
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् । इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥२०२॥
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥२०३॥
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥२०४॥
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्गणेश सहस्रनामस्मरणेन सद्यः ॥२०५॥
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वंवशयति सुचिरं वर्धते पुत्रपौत्रैः ॥२०६॥
अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः । प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥२०७॥
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥२०८॥
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तन्
नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥२०९॥
ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥२१०॥
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः कलः ॥२११॥
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥२१२॥
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति । वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥२१३॥
यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥२१४॥
नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ॥२१५॥
किङ्किणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना ॥२१६॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः ॥
महागणपति सहस्रनाम स्तोत्र – वरदगणेशसहस्रनामस्तोत्रम्
श्रीभैरव उवाच
शृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥१॥
श्रीदेव्युवाच
भगवन् गणनाथस्य वरदस्य महात्मनः ।
श्रोतुं नामसहस्रं मे हृदयं प्रोत्सुकायते ॥२॥
श्रीभैरव उवाच
प्राङ् मे त्रिपुरनाशे तु जाता विघ्नकुलाः शिवे । मोहेन मुह्यते चेतस्ते सर्वे बलदर्पिताः ॥३॥
तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः । विघ्ना दूरात् पलायन्त कालरुद्रादिव प्रजाः ॥४॥
तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः । तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥५॥
तमद्य तव भक्त्याहं साधकानां हिताय च । महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥६॥
(पाठकानां च दातॄणां सुखसम्पत्प्रदायकम् । दुःखापहं च श्रोतॄणां मन्त्रनामसहस्रकम्) ॥७॥
॥ विनियोग : अस्य श्रीवरदगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः ।श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः । कुरु कुरु कीलकम् । धर्मार्थकाममोक्षार्थे सहस्रनामस्तवपाठे विनियोगः ॥
॥ ध्यानम् ॥
ॐ ह्रीं श्रीं क्लीं-गणाध्यक्षो ग्लौं गं गणपतिर्गुणी। गुणाद्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः॥८॥
विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदाशान्तो जगत्तातो विष्वक्सेनो विभाकरः ॥९॥
विस्रम्भी विजयी वैद्यो वारान्निधिरनुत्तमः । अणीयान् विभवी श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥१०॥
सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः । पतिः पीतविभूषाङ्गो रक्ताक्षो लोहिताम्बरः ॥११॥
विरूपाक्षो विमानस्थो विनयः सनयः सुखी। सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः॥१२॥
नन्दीश्वरो सदानन्दी वन्दिस्तुत्यो विचक्षणः । दैत्यमर्दी मदाक्षीबो मदिरारुणलोचनः ॥११॥
सारात्मा विश्वसारश्च विश्वचारी विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥१४॥
वीरेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्धनः । भृङ्गिरीटी भृङ्गमाली भृङ्गकूजितनादितः ॥१५॥
विनर्तको विनेतापि विनतानन्दनोऽर्चितः । वैनतेयो विनम्राङ्गो विश्वनेता विनायकः ॥१६॥
विराटको विराटश्च विदग्धो विधिरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥१७॥
पुष्पेषुर्मथनः पुष्टो विकर्ता कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारकः ॥१८॥
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः। लिपितो लोहितो लुप्तो लोहिताक्षो विलोभकः॥१९॥
लुब्धाशयो लोभरतो लाभदोऽलङ्घ्यगात्रकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातनः ॥ २०॥
नूपुराढ्यो विभवदो नरो नारायणो रविः । विचारी वान्तदो वाग्मी वितर्की विजयेश्वरः ॥२१॥
सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो वियच्चारी विनटो नर्तको नटः ॥२२॥
नाट्यो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः। विश्वमूर्विश्वघाती च विनतास्यो विनर्तकः॥२३॥
करालः कामदः कान्तः कमनीयः कलाधरः । कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ॥२४॥
विकरालो गणश्रेष्ठः संहारो हारभूषणः । रुरू रम्यमुखो रक्तो रेवतीदयितो रसः ॥२५॥
महाकालो महादंष्ट्रो महोरगभयापहः । उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ॥२६॥
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान्। असितात्मा भैरवेशो भाग्यवान् भगवान् भगः॥२७॥
भर्गात्मजो भगावासो भगदो भगवर्धनः । शुभङ्करः शुचिः शान्तः श्रेष्यः श्रव्यः शचीपतिः ॥२८॥
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः । विद्याप्रदो वेदसारो वैदिको वेदपारगः ॥२९॥
वेदध्वनिरतो वीरो वरो वेदागमार्थवित् । तत्त्वज्ञः सवर्गः साधुः सदयः सद् असन्मयः ॥३०॥
निरामयो निराकारो निर्भयो नित्यरूपभृत् । निर्वैरो वैरिविध्वंसी मत्तवारणसन्निभः ॥३१॥
शिवङ्करः शिवसुतः शिवः सुखविवर्धनः । श्वैत्यः श्वेतः शतमुखो मुग्धो मोदकभोजनः ॥३२॥
देवदेवो दिनकरो धृतिमान् द्युतिमान् धवः । शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ॥३३॥
शरण्यः शौनकः शूरः शरदम्भोजधारकः । दारकः शिखिवाहेष्टः शीतः शङ्करवल्लभः ॥३४॥
शङ्करो निर्भवो नित्यो लयकृल्लास्यतत्परः । लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ॥३५॥
भ्रमणः शशभृत् सूर्यः शनिर्धरणिनन्दनः । बुद्धो विबुधसेव्यश्च बुधराजो बलन्धरः ॥३६॥
जीवो जीवप्रदो जैत्रः स्तुत्यो नुत्यो नतिप्रियः ।जनको जिनमार्गज्ञो जैनमार्गनिवर्तकः ॥३७॥
गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः । परं पदं परं धाम परमात्मा कविः कुजः ॥३८॥
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः । ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ॥३९॥
पर्जन्यः पीवरो पोत्री पीनवक्षाः परार्जितः । वनेचरो वनपतिर्वनवासः स्मरोपमः ॥४०॥
पुण्यं पूतः पवित्रं च परात्मा पूर्णविग्रहः। पूर्णेन्दुशकलाकारो मन्युः पूर्णमनोरथः ॥४१॥
युगात्मा युगभृद् यज्वा याज्ञिको यज्ञवत्सलः। यशस्वी यजमानेष्टो व्रजभृद् वज्रपञ्जरः॥४२॥
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः। मीनध्वजो मनोहारी योगिनां योगवर्धनः॥४३॥
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः। तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः॥४४॥
रुचको मोचको रुष्टस्तुष्टस्तोमरधारकः। दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः॥४५॥
कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः। भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥४६॥
जालन्धरो जगद्वासी हासकृद् हवनो हविः। हविष्मान् हव्यवाहाक्षो हाटको हाटकाङ्गदः॥४७॥
सुमेरुर्हिमवान् होता हरपुत्रो हलङ्कषः । हालप्रियो हृदाशान्तः कान्ताहृदयपोषणः ॥४८॥
शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः। कूवरो धीमयो ध्याता ध्येयो धीमान् दयानिधिः॥४९॥
दविष्ठो दमनो द्युस्थो दाता त्राता सितः समः। निर्गतो नैगमी गम्यो निर्जेयो जटिलोऽजरः॥५०॥
जनजीवो जितारातिर्जगद्व्यापी जगन्मयः। चामीकरनिभोऽनाद्यो नलिनायतलोचनः ॥५१॥
रोचनो मोचनो मन्त्री मन्त्रकोटिसमाश्रितः। पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः॥५२॥
पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः। कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः॥५३॥
लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्धर्म्यो धर्मी नाकिप्रियोऽनलः॥५४॥
अगस्त्यो ग्रस्तभुवनो भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः॥५५॥
सतीपतिः समरसः सनकः सरलः सुरः । सुराप्रियो वसुपतिर्वासवो वसुपूजितः ॥५६॥
वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजी राजीवनयनः स्मृतिदः कृत्तिकाम्बरः॥५७॥
आश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः। कृत्तिकासनगः कोलो रोही रोहणपादुकः॥५८॥
ऋभुवेष्टोऽरिमर्दी च रोहिणीमोहनोऽमृतम्। मृगराजो मृगशिरा माधवो मधुरध्वनिः॥५९॥
आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥६०॥
पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः । तित्तिरिस्तिमिकेतुश्च तिमिचारकघातनः ॥६१॥
तिष्यस्तुलाधरो जम्भ्यो विश्लेषोऽश्लेष एणराट्। मानदो माधवो माघो वाचालो मघवोपमः॥६२॥
मेध्यो मघाप्रियो मेघो महामुण्डो महाभुजः। पूर्वफाल्गुनिकः स्फीतः फल्गुरुत्तरफाल्गुनः॥६३॥
फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः। घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः॥६४॥
चित्राम्बरोऽर्चितपदः स्वादितः स्वातिविग्रहः। विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः॥६५॥
अणू रेणुः कलास्फारोऽनूरू रेणुसुतो नरः। अनुराधाप्रियो राध्यः श्रीमाञ्छुक्लः शुचिस्मितः॥६६॥
ज्येष्ठः श्रेष्ठार्चितपदो मूलं त्रिजगतो गुरुः । शुचिः पूर्वस्तथाषाढश्चोत्तराषाढ ईश्वरः ॥६७॥
श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः। श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः॥६८॥
शातातपः शातकुम्भः शतंज्योतिः शतम्भिषक्। पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः॥६९॥
रेणुकातनयो रामो रेवतीरमणो रमी। अश्वियुक् कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः॥७०॥
पुष्यशौर्यः फाल्गुनात्मा वसन्तश्चित्रको मधुः। राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः॥७१॥
प्रतीतः प्रोज्झितः प्रीतः परमः पारमो हितः। परहा पञ्चभूः पञ्चवायुः पूज्यः परं महः॥७२॥
पुराणागमविद् योग्यो महिषो रासभोऽग्रगः। ग्राहो मेषो वृषो मन्दो मन्मथो मिथुनार्चितः॥७३॥
कल्कभृत् कटको दीनो मर्कटः कर्कटो घृणी। कुक्कुटो वनजो हंसः परहंसः शृगालकः॥७४॥
सिंहः सिंहासनो मूषो मोह्यो मूषकवाहनः। पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः॥७५॥
अतुल्यरूपो बलदस्तुलाभृत् तुल्यसाक्षिकः। अलिचापधरो धन्वी कच्छपो मकरो मणिः॥७६॥
स्थिरः प्रभुर्महाकर्मी महाभोगी महायशाः। वसुमूर्तिधरो व्यग्रोऽसुरहारी यमान्तकः ॥७७॥
देवाग्रणीर्गणाध्यक्षो ह्यम्बुजालो महामतिः। अङ्गदी कुण्डली भक्तिप्रियो भक्तविवर्धनः॥७८॥
गाणपत्यप्रदो मायी वेदवेदान्तपारगः । कात्यायनीसुतो ब्रह्मपूजितो विघ्ननाशनः ॥७९॥
संसारभयविध्वंसी महोरस्को महीधरः। विघ्नान्तको महाग्रीवो भृशं मोदकमोदितः॥८०॥
वाराणसीप्रियो मानी गहन आखुवाहनः । गुहाश्रयो विष्णुपदीतनयः स्थानदो ध्रुवः ॥८१॥
परर्द्धिस्तुष्टो विमलो मौलिमान् वल्लभाप्रियः। चतुर्दशीप्रियो मान्यो व्यवसायो मदान्वितः॥८२॥
अचिन्त्यः सिंहयुगलनिविष्टो बालरूपधृत्। धीरः शक्तिमतां श्रेष्ठो महाबलसमन्वितः॥८३॥
सर्वात्मा हितकृद् वैद्यो महाकुक्षिर्महामतिः। करणं मृत्युहारी च पापसङ्घनिवर्तकः ॥८४॥
उद्भिद् वज्री महादैत्यसूदनो दीनरक्षकः । भूतचारी प्रेतचारी बुद्धिरूपो मनोमयः ॥८५॥
अहङ्कारवपुः साङ्ख्यपुरुषस्त्रिगुणात्मकः। तन्मात्ररूपो भूतात्मा इन्द्रियात्मा वशीकरः॥८६॥
मलत्रयबहिर्भूतो ह्यवस्थात्रयवर्जितः । नीरूपो बहुरूपश्च किन्नरो नागविक्रमः ॥८७॥
एकदन्तो महावेगः सेनानी स्त्रिदशाधिपः। विश्वकर्ता विश्वबीजं श्रीः सम्पदह्रीर्धृतिर्मतिः॥८८॥
सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः । संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः ॥८९॥
सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः। ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित्॥९०॥
शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक्। विचारवाञ्शङ्खधारी सत्यव्रतपरायणः॥९१॥
महातपा घोरतपाः सर्वदो भीमविक्रमः । सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत् ॥९२॥
समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः । शम्भुभक्तिरतो मोक्षदाता भवदवानलः ॥९३॥
सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा । समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः ॥९४॥
तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः । प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः ॥९५॥
भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः । कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः ॥९६॥
अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः। अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः॥९७॥
यज्ञहर्ता यज्ञकर्ता यज्ञानां फलदायकः । यज्ञगोप्ता यज्ञमयो दक्षयज्ञविनाशकृत् ॥९८॥
वक्रतुण्डो महाकायः कोटिसूर्यसमप्रभः। एकदंष्ट्रः कृष्णपिङ्गो विकटो धूम्रवर्णकः॥९९॥
सुवर्णवर्णो हेमाङ्गो महात्मा चन्दनच्छविः। स्वङ्गः स्वक्षः शतानन्दो लोकविल्लोकविग्रहः॥१०१॥
इन्द्रो जिष्णुर्धूमकेतुर्वह्निः पूज्यो दवान्तकः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥१०२॥
कुम्भभृत् कलशी कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥१०३॥
प्रतापी प्रतिपत्प्रेयान् द्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥१०४॥
चतुर्थीवल्लभो देवो पारगः पञ्चमीरवः । षड्रसास्वादकोऽजातः षष्ठी षष्टिकवत्सरः ॥१०५॥
सप्तार्णवगतिः सारः सप्तमीश्वर ईहितः। अष्टमीनन्दनोऽनार्तो नवमीभक्तिभावितः॥१०६॥
दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मा गणपो द्वादशीयुगचर्चितः ॥१०७॥
त्रयोदशमनुस्तुत्यश्चतुर्दशसुरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥१०८॥
दर्शादर्शो दर्शनश्च वानप्रस्थो मुनीश्वरः । मौनी मधुरवाङ्मूलं मूर्तिमान् मेघवाहनः ॥१०९॥
महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुक्मो रुद्रपुत्रोऽघतापनः ॥११०॥
भवप्रियो भवानीष्टो भारभृद् भूतभावनः। गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्णुसेवितः॥१११॥
वृत्रहा विघ्नहा सीरः समस्तदुरितापहः । मञ्जुलो मार्जनो मत्तो दुर्गापुत्रो दुरालसः ॥ ११२॥
अनन्तचित्सुधाधारो वीरो वीर्यैकसाधकः । भास्वन्मुकुटमाणिक्यः कूजत्किङ्किणिजालकः ॥११३॥
शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः। पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥११४॥
उद्गीथो नरदन्ताढ्यमालाभूषणभूषितः । नारदो वारणो लोलश्रवणः शूर्पकश्रवाः ॥११५॥
बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलः। इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकः ॥११६॥
बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः । बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकः ॥११७॥
बृहत्पादसमाक्रान्तसप्तपातालवेपितः । बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥११८॥
बृहद्धस्तधृताशेषायुधनिर्जितदानवः । स्फुरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः ॥११९॥
उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः । चलत्तोयप्रवाहाढ्यनदीजलकणाकुलः ॥१२०॥
भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः । ब्रह्माच्युतमहारुद्रपुरःसरसुरार्चितः ॥१२१॥
अशेषशेषप्रभृतिव्यालजालोपसेवितः । गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलः ॥१२२॥
हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसः । पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहः ॥१२३॥
वेदान्तशास्त्रपीयूषधाराप्लावितभूतलः । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥१२४॥
चिन्तामणिर्महामल्लो भल्लहस्तो बलिः कलिः । कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥१२५॥
द्वापरः परलोकैककर्मध्वान्तसुधाकरः । सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकः ॥१२६॥
अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः । अकाराकारप्रोद्गीततारनादनिनादितः ॥१२७॥
इकारेकारमन्त्राढ्यमालाभ्रमणलालसः । उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥१२८॥
ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलः । लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥१२९॥
एकारैकारगिरिजास्तनपानविचक्षणः । ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥१३०॥
अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः ॥१३१॥
खगेशध्वजरत्नाङ्ककिरीटारुणपादकः । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥१३२॥
घनवाहनवागीशपुरःसरसुरार्चितः । ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥१३३॥
चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहः । छत्रचामररत्नाढ्यमुकुटालङ्कृताननः ॥१३४॥
जटाबद्धमहानर्घमणिपङ्क्तिविराजितः । झाङ्कारिमधुपव्रातगाननादनिनादितः ॥१३५॥
ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गरः । टङ्कारुकफलास्वादवेपिताशेषमूर्धजः ॥१३६॥
ठकाराढ्यडकाराङ्कढकारानन्दतोषितः । णवर्णामृतपीयूषधाराधरसुधाधरः ॥१३७॥
ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छविः । थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजः ॥१३८॥
दयामयहृदम्भोजधृतत्रैलोक्यमण्डलः । धनदादिमहायक्षसंसेवितपदाम्बुजः ॥१३९॥
नमिताशेषदेवौघकिरीटमणिरञ्जितः । परवर्गापवर्गादिमार्गच्छेदनदक्षकः ॥१४०॥
फणिचक्रसमाक्रान्तगलमण्डलमण्डितः । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुरः ॥१४१॥
भवानीहृदयानन्दवर्धनैकनिशाकरः । मदिराकलशस्फीतकरालैककराम्बुजः ॥१४२॥
यज्ञान्तरायसङ्घातघातसज्जीकृतायुधः । रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनः ॥१४३॥
लम्बोदरमहाभीमवपुर्दीनीकृतासुरः । वरुणादिदिगीशानरचितार्चनचर्चितः ॥१४४॥
शङ्करैकप्रियप्रेमनयनानन्दवर्धनः । षोडशस्वरितालापगीतगानविचक्षणः ॥१४५॥
समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥१४६॥
क्षमापूरितहृत्पद्मसंरक्षितचराचरः । ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः ॥१४७॥
अकारादिक्षकारान्तविद्याभूषितविग्रहः । ॐश्रींविनायको ॐह्रींविघ्नाध्यक्षो गणाधिपः ॥१४८॥
हेरम्बो मोदकाहारो वक्त्रतुण्डो विधिस्मृतः । वेदान्तगीतो विद्यार्थी शुद्धमन्त्रः षडक्षरः ॥१४९॥
गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः । सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥१५०॥
गाङ्गेयो गणसेव्यश्च ॐश्रीन्द्वैमातुरः शिवः । ॐह्रींश्रींक्लींग्लौंगंदेवो महागणपतिः प्रभुः॥१५१॥
इदं नाम्नां सहस्रं ते महागणपतेः स्मृतम् । गुह्यं गोप्यतमं गुप्तं सर्वतन्त्रेषु गोपितम् ॥१५२॥
सर्वमन्त्रनिधिं दिव्यं सर्वविघ्नविनाशनम् । ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥१५३॥
सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम् । गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥१५४॥
यथेष्टफलदं लोके मनोरथप्रपूरणम् । अष्टसिद्धिमयं साध्यं साधकानां जयप्रदम् ॥१५५॥
विनार्चनं विना होमं विना न्यासं विना जपम् । अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥१५६॥
चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे । लिखेद्भूर्जे रवौ देवि पुण्यं नाम्नां सहस्रकम् ॥१५७॥
धारयेत्तु चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे । योषिद्वामकरे बद्ध्वा पुरुषो दक्षिणे भुजे ॥१५८॥
स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् । वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥१५९॥
उच्चाटयेच्च गीर्वाणान् शमयेच्च धनञ्जयम् । वन्ध्या पुत्रांल्लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥१६०॥
त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे । नग्नः शक्तियुतो देवि भुक्त्वा भोगान् यथेप्सितान् ॥१६१॥
प्रत्यक्षं वरदं पश्येद्गणेशं साधकोत्तमः । य एनं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥१६२॥
तस्य वित्तादिविभवो दारायुःसम्पदः सदा । रणे राजभये द्यूते पठेन्नाम्नां सहस्रकम् ॥१६३॥
सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः । इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ॥१६४॥
महागणपतेर्गुह्यं गोपनीयं स्वयोनिवत् ।
॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।