“वृद्ध केवल सफेद बालों से नहीं, ज्ञान से होता है”
प्रस्तुत लेख विभिन्न स्मृति ग्रंथों के आधार पर सनातन धर्म में वर्णाश्रम व्यवस्था के महत्व और उसकी शास्त्रीय प्रामाणिकता का प्रतिपादन करता है। वर्ण का निर्धारण जन्म से होता है, न कि केवल वर्तमान कर्मों के आधार पर, और यह ईश्वरीय विधान है जो शास्त्रों में वर्णित है । यहां मनुस्मृति, अत्रि संहिता, याज्ञवल्क्य स्मृति व अन्यान्य स्मृतियों से उद्धरण देकर चारों वर्णों के विशिष्ट कर्तव्यों और संस्कारों का विवरण दिया गया है।
साथ ही, यह उन लोगों की आलोचना करता है जो बिना गहन अध्ययन के शास्त्रों की मनमानी व्याख्या करते हैं।
अंततः, यह संकलन धर्म की रक्षा के लिए शास्त्रीय मर्यादाओं के पालन और जन्मजात वर्ण व्यवस्था को स्थापित करता है। इन प्रमाणों के पश्चात् वर्णव्यवस्था के जन्मना होने का खंडन नहीं हो सकता तो दुस्साहसी और अधर्मी प्रमाणों को ही प्रक्षिप्त कह देते हैं जिससे यह सिद्ध होता है कि वो अधर्मी हैं और शास्त्रों में उनकी कोई आस्था नहीं है। जिसके शास्त्रों में आस्था ही नहीं वो धर्म विषयक चर्चा करने का अधिकारी ही नहीं है।
वर्ण व्यवस्था – स्मृति प्रमाण संकलन
सनातन धर्म के मूल में वर्णाश्रम व्यवस्था ही है। यदि वर्णाश्रम व्यवस्था को हटा दें तो सनातन धर्म में ढांचा मात्र भी अवशेष नहीं बचेगा किन्तु ऐसा किया ही नहीं जा सकता है। जब कभी आवश्यकता होती है तो भगवान स्वयं ही अवतरित होकर पुनः धर्म की स्थापना करते हैं। धर्म की स्थापना का मुख्य तात्पर्य वर्णाश्रम व्यवस्था को सुदृढ़ करना ही है। यहां वर्णव्यवस्था संबंधी शास्त्रीय प्रमाणों का संकलन किया गया है।
शास्त्रों में वर्ण व्यवस्था विषयक प्रमाणों की कोई कमी नहीं है और हम यह घोषणा नहीं कर सकते कि वर्णव्यवस्था विषयक सभी प्रमाणों को संकलित किया गया है। यह विशाल संकलन भी सागर हेतु एक बूंद की भांति ही है। किन्तु यह एक बूंद मात्र भी वर्णव्यवस्था की चर्चा करने वालों के पास नहीं होता है।
चाय-पान की दुकानों पर होने वाले चर्चा की भांति ही वर्णव्यवस्था पर भी चर्चा की जाती है जो कि सर्वथा अनुचित है। जिसके पास रत्तीभर भी शास्त्रज्ञान नहीं है वह भी भगवा धारण करके दूरदर्शनों पर या सोशल मीडिया पर प्रवचन देते दिखता है। वर्त्तमान में भी वर्णव्यवस्था जन्मना स्थापित है किन्तु दुराग्रहियों के दुस्साहस को देखिये वो चौड़ा होकर कर्मणा-कर्मणा चिल्लाते रहते हैं। धर्म में आस्था रखने वालों के लिये तो यह संकलन महत्वपूर्ण है कि साथ कर्मणा-कर्मणा चिल्लाने वालों के लिये भी जूते के समान है।
हम देखते हैं कि कभी कोई अधिवक्ता तो कभी कोई अन्य विषय का ज्ञाता भी शास्त्र के विषयों पर विशेषज्ञ की भांति मनगढंत तथ्यों को परोसते हुये जनमानस को दिग्भ्रमित करते रहते हैं। इस आलेख में संकलित प्रमाण इस तथ्य को भी पूर्णतः सिद्ध करते हैं कि वर्णव्यवस्था कर्मणा न होकर जन्मना ही है क्योंकि यहां वर्ण के कर्म से सम्बंधित प्रमाणों को भी संकलित किया गया है। इन प्रमाणों के भंडार होते हुये भी कर्मणा-कर्मणा चिल्लाने वाले दुस्साहसी अधर्मी पीछे नहीं हटेंगे अपितु इसके लिये उन्होंने प्रक्षिप्त होने का कुतर्क गढ़ लिया है।

किन्तु उन धूर्त पाखंडियों को यह भी स्पष्ट कर दूँ कि यदि सब प्रक्षिप्त ही है तो तुमको ऐसा दिव्य ज्ञान कहां से प्राप्त हो गया कि सब प्रक्षिप्त है। यदि सब प्रक्षिप्त भी है तो भी हमें स्वीकार है किन्तु तुम्हारा पाखंड अस्वीकार है, तुम्हारा कुतर्क अस्वीकार है। एक बात और स्पष्ट कर दूँ कि हमने वर्णव्यवस्था के विषय में जो संकलन किया है वो केवल स्मृति के प्रमाणों का ही संकलन किया है पुराणों से नहीं। पुराणों से भी संकलन करेंगे किन्तु अन्यत्र पृथक आलेख में।
एवं आस्थावानों से भी अपेक्षा रखता हूं कि इन दुस्साहसियों को प्रमाणों के आधार पर जूते-ही-जूते मारे जायें। जूते का तात्पर्य भौतिक न होकर शाब्दिक है। ये दुस्साहसी इसी के योग्य हैं। ये दुस्साहसी चाहे भगवा धारण किये हों या काला कोट इनकी पर्याप्त चिकित्सा अपेक्षित है। आप देखते होंगे कि कई अधिवक्ता (वकील) भी सनातन, राष्ट्रवाद आदि का राग लगाते हैं और वर्णव्यवस्था पर, धर्म पर भी ज्ञान बांटने लगते हैं जबकि अधिकारी नहीं हैं। अर्थात अनधिकृत रूप से धर्म-शास्त्र के विषयों पर ज्ञान बांटने का काम करते हैं इस कारण ये वाग्दंड के अधिकारी हैं।
मनुस्मृति
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥
अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥
प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥
पशूनां रक्षणं दानमिज्याध्ययनमेव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥
उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्राह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥
तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतमधिकं ततः ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥
सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतम् । श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥
मनु स्मृति/१/८७ – १०१
लौकिकंवैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥
सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥
मनुस्मृति/२/११७ – ११८
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥
मनुस्मृति/२/१२६ – १२७
ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥
तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥
उपनीय तु यः शिष्यं वेदं अध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थं उपाध्यायः स उच्यते ॥
निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदाचन ॥
उपाध्यायान्दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥
मनुस्मृति/२/१३५ – १४५
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ॥
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तं अपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥
अध्यापयामास पितॄन्शिशुराङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥
ते तं अर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान्समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् ॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥
मनुस्मृति/२/१४८ – १५७
अत्रि संहिता
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपिमानवाः । प्रिया भवन्ति लोकस्य स्वेस्वेकर्मण्यवस्थिताः ॥
कर्म विप्रस्य यजनं दानमध्ययनं तपः । प्रतिग्रहोऽध्यापनं च याजनं चेति वृत्तयः ॥
क्षत्रियस्यापि यजनं दानमध्ययनं तपः। शस्त्रोपजीवनं भूतरक्षणं चेति वृत्तयः॥
दानमध्ययनं वार्ता यजनं चेति वै विशः । शूद्रस्य वार्ता शुश्रूषा द्विजानां कारुकर्म चः ॥
मयैष धर्मोऽभिहितः संस्थिता यत्र वर्णिनः । बहुमानमिह प्राप्य प्रयान्ति परमां गतिम् ॥
ये व्यपेताः स्वधर्मेभ्यः परधर्मे व्यवस्थिताः । तेषां शास्तिकरो राजा स्वर्गलोके महीयते ॥
आत्मीये संस्थितो धर्मे शूद्रोऽपि स्वर्गमश्नुते । परधर्मी भवेत्त्याज्यः सुरूपपरदारवत् ॥
वध्यो राज्ञा स वै शूद्रो जपहोमपरश्च यः । ततो राष्ट्रस्य हन्ताऽसौ यथा वह्नेश्च वै जलम् ॥
प्रतिग्रहोऽध्यापनं च तथाऽविक्रेयविक्रयः । याज्यं चतुर्भिरप्येतैः क्षत्रविट्पतनं स्मृतं ॥
सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥
अव्रताश्चानधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चौरेभक्तप्रदं बुधैः ॥
अत्रि संहिता १२ – २२
य एवं कुरुते राजा गुणदोषपरीक्षणम् । यशः स्वर्ग नृपत्वं च पुनः कोशं संमृद्धयेत् ॥
दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः ।
अपक्षपातोऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥
यत्प्रजापालने पुण्यं प्राप्नुवन्तीह पार्थिवाः । न तु क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ॥
अत्रि संहिता २७ – २९
शौचं मङ्गलमायासश्चानसूयाऽस्पृहा दमः । लक्षणानि च विप्रस्य तथा दानं दयाऽपि च ॥
न गुणान्गुणिनो हन्ति स्तौति चान्यान्गुणानपि । न हसेच्चान्यदोषांश्च साऽनसूया प्रकीर्तिता ॥
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । आचारेषु व्यवस्थानं शौचमित्यभिधीयते ॥
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिर्मिंर्धर्मदर्शिभिः ॥
शरीरं पीड्यते येन शुभेन त्वशुभेन वा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ॥
यथोत्पन्नेन कर्तव्यः संतोषः सर्ववस्तुषु । न स्पृहेत्परदारेषु साऽस्पृहा परिकीर्तिता ॥
बाह्यमाध्यात्मिकं वाऽपि दुःखमुत्पाद्यते परैः । न कुप्यति न वा हन्ति दम इत्यभिधीयते ॥
अहन्यहनि दातव्यमदीनेनान्तरात्मना । स्तोकादपि प्रयत्नेन दानमित्यभिधीयते ॥
परस्मिन्बन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा । आत्मवद्वर्तितव्यं हि दयैषा परिकीर्तिता॥
यथैतैर्लक्षणैर्युक्तो गृहस्थोऽपि भवेद्विजः। स गच्छति परं स्थानं जायते नेह वै पुनः॥
अत्रि संहिता ३३ – ४२
चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्राः ॥४॥
तेषां पूर्वस्पूर्वो जन्मतः श्रेयान् ॥५॥
अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि ॥६॥
शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ॥७॥
पूर्वस्मिन्पूर्वस्मिन्वर्णे निःश्रेयसम्भूयः ॥८॥
आपस्तम्ब स्मृति १/१/१/४ – ८
शूद्रोऽपि द्विविधो ज्ञेयः श्राद्धी चैवेतरस्तथा । श्राद्धी भोज्यस्तयोरुक्तो ह्यभोज्यो हीतरः स्मृतः ॥
प्राणानर्थांस्तथा दारान्ब्राह्मणाय निवेदयेत् । स शूद्रजातिर्भोज्यः स्यादभोज्यः शेष उच्यते ॥
कुर्याच्छूद्रस्तु शुश्रूषां ब्रह्मक्षत्रविशां क्रमात् । कुर्यादुत्तरयोर्वैश्यः क्षत्रियो ब्राह्मणस्य तु ॥
लघु विष्णु स्मृति ५/१०-१२
त्रयो वर्णा ब्राह्मणस्य वशे वर्तेरन् ॥
तेषां ब्राह्मणो धर्मान्प्रब्रूयात् ॥
तं राजा चानुशिष्यात् ॥
राजा तु धर्मेणानुशासत्पष्ठं पष्ठं धनस्य हरेत् ॥ अन्यत्र ब्राह्मणात् ॥
वशिष्ठ स्मृति १/४० – ४४
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ १ ॥
त्रयो वर्णा द्विजातयो ब्राह्मणक्षत्रियवैश्याः ॥ २ ॥
तेषां मातुरग्रेऽधिजननं द्वितीयं मौञ्जीबन्धने ॥ ३ ॥
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ४ ॥
वेदप्रदानात्पितेत्याचार्यमा चक्षते ॥ ५ ॥
न ह्यस्य विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् । वृत्त्या शुद्रसमौ ज्ञेयो यावद्वेदेन जायत इति ॥ १२ ॥
अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ॥ १३ ॥
वशिष्ठ स्मृति २
अश्रोत्रिया अननुवाक्या अनग्नयो वा शुद्रसधर्माणौ भवन्ति ॥
मानवं चात्र श्लोकमुदाहरन्ति ॥
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमः । स जीवन्नेव शुद्रत्वमाशु गच्छति सान्वयः ॥
नानृग्ब्राह्मणो भवति न वणिङ्न कुशीलवः । न शुद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः ॥
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः। तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥
वशिष्ठ स्मृति ३/१ – ५
प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च ॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत,
इति निगमो भवति॥
गायत्र्या छन्दसा ब्राह्मणमसृजत्रिष्टुभा राजन्यं, जगत्या वैश्यं, न केनचिच्छन्दसा शुद्रमित्यसंस्कार्यों विज्ञायते ॥
सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥
पितृदेवतातिथिपूजायां पशुं हिंस्यात् ॥
वशिष्ठ स्मृति ४/२ – ५
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । श्रुतिस्मृतिपुराणोक्तधर्मयोग्यास्तु ते नराः ॥
शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥
विप्रवद्विप्रविन्नासु क्षत्रविन्नासु विप्रवत् । जातकर्माणि कुर्वीत ततः शुद्रासु शुद्रवत् ॥
वैश्यासु विप्रक्षत्राभ्यां ततः शूद्रासु शूद्रवत् । अधमादुत्तमायां तु जातः शूद्राधमः स्मृतः ॥
वेदव्यास स्मृति १/५ – ८
यजनं याजनं दानं तथैवाध्यापनक्रिया । प्रतिग्रहं चाध्ययनं विप्रकर्माणि निर्दिशेत् ॥
दानं चाध्ययनं चैव यजनं च यथाविधि । क्षत्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥
क्षत्रियस्थ विशेषेण प्रजानां परिपालनम् । कृषिगोरक्ष्यवाणिज्यं विशश्च परिकीर्तितम् ॥
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ । क्षमा सत्यं दमः शौचं सर्वेषामविशेषतः ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । तेषां जन्म द्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥
आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा । ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि ॥
वृत्त्या शूद्रसमास्तावद्विज्ञेयास्ते विचक्षणैः । यावद्वेदेन जायन्ते द्विजा ज्ञेयास्ततः परम् ॥
शङ्ख स्मृति/१/२ – ८
आशौचे च व्यतिक्रान्ते नामकर्म विधीयते। नामधेयं च कर्तव्यं वर्णानां च समाक्षरम् ॥
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम्। वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥
शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । धनान्तं चैव वैश्यस्य दासान्तं चान्त्यजन्मनः ॥
चतुर्थे मासि कर्तव्यं बालस्याऽऽदित्यदर्शनम् । पष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥
षोडशाब्दानि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः सचतुष्का तु वैशस्य परिकीर्तिता ॥
नातिवर्तेत सावित्रीमत ऊर्ध्वं निवर्तते। विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ॥
सावित्रीपतिता व्रात्याः सर्वधर्मबहिष्कृताः। मौञ्जीज्याबन्धनानां तु क्रमान्मौञ्ज्यः प्रकीर्तिताः ॥
मार्गवैयाघ्रवास्तानि कर्माणि ब्रह्मचारिणाम्। पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः॥
केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु। अवक्राः सत्वचः सर्वे नाग्नि दग्धास्तथैव च ॥
वस्त्रोपवीते कार्पासक्षौमोर्णानां यथाक्रमम्। आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ॥
भैक्षस्य वरणं प्रोक्तं वर्णानामनुपूर्वशः ॥
शङ्ख स्मृति/२/२ – १२
यजनं याजनं दानं तथैवाध्यापनक्रिया । प्रतिग्रहं चाध्ययनं विप्रकर्माणि निर्दिशेत् ॥
दानं चाध्ययनं चैव यजनं च यथाविधि । क्षत्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥
क्षत्रियस्थ विशेषेण प्रजानां परिपालनम् । कृषिगोरक्ष्यवाणिज्यं विशश्च परिकीर्तितम् ॥
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ । क्षमा सत्यं दमः शौचं सर्वेषामविशेषतः ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । तेषां जन्म द्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥
आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा । ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि ॥
वृत्या शूद्रसमास्तावद्विज्ञेयास्ते विचक्षणैः । यावद्वेदेन जायन्ते द्विजा ज्ञेयास्ततः परम् ॥
शङ्ख स्मृति/१/२ – ८
आशौचे च व्यतिक्रान्ते नामकर्म विधीयते। नामधेयं च कर्तव्यं वर्णानां च समाक्षरम् ॥
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम्। वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥
शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । धनान्तं चैव वैश्यस्य दासान्तं चान्त्यजन्मनः ॥
चतुर्थे मासि कर्तव्यं बालस्याऽऽदित्यदर्शनम् । पष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥
षोडशाब्दानि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः सचतुष्का तु वैशस्य परिकीर्तिता ॥
नातिवर्तेत सावित्रीमत ऊर्ध्वं निवर्तते ॥
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्याः सर्वधर्मबहिष्कृताः ॥
मौञ्जीज्याबन्धनानां तु क्रमान्मौञ्ज्यः प्रकीर्तिताः । मार्गवैयाघवास्तानि कर्माणि ब्रह्मचारिणाम् ॥
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः। केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु ॥
अवक्राः सत्वचः सर्वे नाग्नि दग्धास्तथैव च । वस्त्रोपवीते कार्पासक्षौमोर्णानां यथाक्रमम् ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् । भैक्षस्य वरणं प्रोक्तं वर्णानामनुपूर्वशः ॥
शङ्ख स्मृति/२/२ -१२
नास्य कर्म नियच्छन्ति किंचिदा मौञ्जिवन्धनात् । वृत्या शूद्रसमो ह्येष यावद्वेदेन जायत इति ॥
गर्भादि संख्या वर्षाणां तदष्टमेषु ब्राह्मणमुपनयीत ॥ त्र्यधिकेषु राजन्यम् ॥
तस्मादेकाधिकेषु वैश्यम् ॥ वसन्तो ग्रीष्मः शरदित्यृतवो वर्णानुपूर्व्येण ॥
गायत्रीत्रिष्टुब्जगतीभिर्यथाक्रमम् ॥
आ षोडशादाद्वाविंशादा चतुर्विंशादित्यनात्यय एषां क्रमेण ॥
मौञ्जी धनुर्ज्या शाणीति मेखलाः ॥ कृष्णरुरुवस्ताजिनान्यजिनानि ॥
मूर्धललाटनासाग्रप्रमाणा याज्ञिकस्य वृक्षस्य दण्डा विशेषाः पूर्वोक्ताः ॥
भवत्पूर्वां भिक्षामध्यां याच्ञान्तां भिक्षां चरेत्सप्ताक्षरां क्षां च हिं च न वर्धयेत् ॥
भवत्पूर्वां ब्राह्मणो भिक्षेत भवन्मध्यां राजन्यो भवदन्त्यां वैश्यः सर्वेषु वर्णेषु॥
ते ब्राह्मणाद्याः स्वकर्मस्थाः ॥
बौधायन स्मृति/१/२/६ – १८
चतुर्णामपि वर्णानामाचारो धर्मपालकः । आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥
षट्कर्माभिरतो नित्यं देवतातिथिपूजकः । हुतशेषं तु भुञ्जानो ब्राह्मणो नाऽवसीदति ॥
संध्यास्नानं जपो होमो देवताऽतिथिपूजनम् । आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ॥
पाराशरस्मृति/१/३७ – ३९
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥
क्षत्रियो हि प्रजा रक्षञ्शस्त्रपाणिः प्रदण्डवान् । निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥
पाराशरस्मृति/१/६० – ६१
पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥
पाराशरस्मृति/१/६२
लाभकर्म तथा रत्नं गवां च परिपालनम् । कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता ॥
पाराशरस्मृति/१/६३
शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते । अन्यथा कुरुते किंचित्तद्भवेत्तस्य निष्फलं ॥
लवणं मधुतैलं च दधितक्रं घृतं पयः । न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयं ॥
विक्रीणन्मध्यमांसानि ह्यभक्षस्य च भक्षणम् । कुर्वन्नगम्या गमनं शूद्रः पतति तत्क्षणात् ॥
पाराशरस्मृति/१/६४ – ६६
चत्वारो वर्णा ब्राह्मणक्षत्रियविट्शूद्राः ॥
तेषां वर्णानुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥
तिस्रो राजन्यस्य ॥ द्वे वैश्यस्य ॥ एका शूद्रस्य ॥
तासु पुत्राः सवर्णानन्तरासु सवर्णाः ॥
बौधायन स्मृति/१/८/१ – ६
ब्रह्म वै स्वं महिमानं ब्राह्मणेष्वद ध्ययनाध्यापनयजनयाजनदानप्रतिग्रहसंयुक्तं वेदानां गुप्त्यै ॥
क्षत्रे बलमध्ययनयजनदान शस्त्रकोश भूतरक्षणसंयुक्तं क्षत्रस्य वृद्ध्यै ॥
विट्स्वध्ययनयजनदान कृषिवाणिज्य पशुपालनसंयुक्तं कर्मणां वृद्ध्यै ॥
शूद्रेषु पूर्वेषां परिचर्या ॥
बौधायन स्मृति/१/१०/२ – ५
ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥
याज्ञवल्क्यस्मृति/१/१०
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्यां यथाक्रमम् ॥
याज्ञवल्क्यस्मृति/१/३०
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥
याज्ञवल्क्यस्मृति/१/३४ – ३५
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ॥
शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ॥
भार्यारतिः शुचिर्भृत्य भर्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥
याज्ञवल्क्यस्मृति/१/११८ – १२१
अहिंसासत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥
याज्ञवल्क्यस्मृति/१/१२२
निष्कर्ष
उपर्युक्त शास्त्रीय प्रमाणों के सूक्ष्म विश्लेषण से यह पूर्णतः सिद्ध होता है कि सनातन धर्म में वर्णाश्रम व्यवस्था कोई वैयक्तिक विचार नहीं, बल्कि ईश्वरीय विधान है। मनुस्मृति, अत्रि संहिता, आपस्तम्ब, वशिष्ठ, शंख और याज्ञवल्क्य आदि ऋषियों की स्मृतियां एक स्वर में उद्घोष करती हैं कि वर्ण का निर्धारण जन्म के आधार पर ही होता है।
कर्मणा-कर्मणा का अलाप करने वाले लोग प्रायः शास्त्रों के उस पक्ष को विस्मृत कर देते हैं जहाँ वर्ण के अनुसार विशिष्ट कर्मों का विधान किया गया है। यदि वर्ण केवल कर्म से होता, तो शास्त्रों में ‘जन्मना ब्राह्मण’ या ‘संस्कारहीन द्विज’ जैसे शब्दों का प्रयोग ही न होता। यह संकलन उन लोगों के लिए एक दर्पण है जो बिना किसी आधिकारिक शास्त्रीय ज्ञान के धर्म की मनमानी व्याख्या करते हैं। अतः धर्म की रक्षा हेतु वर्णाश्रम धर्म का सम्यक् पालन और उसकी रक्षा अनिवार्य है।
F&Q :
FAQ
प्रश्न : क्या वर्ण व्यवस्था केवल कर्म पर आधारित है?
उत्तर : शास्त्रों के अनुसार वर्ण व्यवस्था जन्म पर आधारित है, और प्रत्येक जन्मना वर्ण के लिए विशिष्ट कर्म निर्धारित हैं।
प्रश्न : मनुस्मृति वर्ण व्यवस्था के बारे में क्या कहती है?
उत्तर : मनुस्मृति स्पष्ट करती है कि ब्रह्मा जी ने मुख, बाहु, ऊरु और पैरों से चारों वर्णों की उत्पत्ति और उनके अलग-अलग कर्म निश्चित किए हैं।
प्रश्न : क्या शूद्रों के लिए वेदमंत्रों का विधान है?
उत्तर : स्मृति के अनुसार, शूद्र धर्म का पालन कर सकते हैं परंतु वेदमंत्र, स्वधा और स्वाहा के बिना।
प्रश्न : क्या वर्ण बदला जा सकता है?
उत्तर : शास्त्रीय प्रमाणों के अनुसार इस जन्म में वर्ण जन्मना ही रहता है, कर्मों के आधार पर अगले जन्मों में गति प्राप्त होती है।
प्रश्न: ‘जन्मना जायते शूद्रः’ का वास्तविक अर्थ क्या है?
उत्तर : इसका अर्थ है कि जन्म के समय संस्कार रहित होने के कारण सभी शूद्र तुल्य होते हैं, संस्कार के बाद ही द्विजत्व प्राप्त होता है।
डिस्क्लेमर (Disclaimer)
अस्वीकरण: इस आलेख में प्रस्तुत विचार और संकलित श्लोक प्राचीन धर्मशास्त्रों (स्मृतियों) पर आधारित हैं। यह सामग्री केवल धार्मिक एवं शैक्षणिक उद्देश्य हेतु साझा की गई है। इसका उद्देश्य किसी भी व्यक्ति, समुदाय या जाति की भावनाओं को आहत करना नहीं, अपितु शास्त्रसम्मत तथ्यों को यथावत प्रस्तुत करना है। लेखक और प्रकाशक शास्त्रों के वास्तविक स्वरूप को जनमानस तक पहुँचाने के लिए प्रतिबद्ध हैं।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।








