श्रीगणनायकाष्टकं
एकदन्तं महाकायं तप्तकाञ्चन सन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥१॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥२॥
अम्बिका हृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥३॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥४॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥५॥
मूषकोत्तममारुह्य देवासुरमहाहवे
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥६॥
यक्षकिन्नरगन्धर्वैस्सिद्धविद्याधरैस्सदा
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥७॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धि प्रदातारं वन्देऽहं गणनायकम् ॥८॥
गणाष्टकमिदं पुण्यं यः पठे सततं नरः
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥९॥
॥ इति श्रीगणनायकाष्टकं सम्पूर्णम् ॥