भक्त प्रह्लाद की भक्ति अद्वितीय थी जिसका शास्त्रों में वर्णन मिलता है सभी पुराणों में कथा मिलती है। भक्त प्रह्लाद को भगवान विष्णु के अनन्य भक्त थे और ऐसे भक्त थे कि जब हिरण्यकशिपु ने पूछा क्या स्तम्भ में तुम्हारा भगवान है तो प्रह्लाद ने कहा हां और भगवान विष्णु ने नरसिंह रूप धारण किया और स्तम्भ से प्रकट हो गये। ऐसे भगवान नरसिंह की कृपा प्राप्ति हो जाये तो क्या कहना ? भगवान नरसिंह की कृपा प्राप्ति हेतु उनकी प्रसन्नता अपेक्षित होगी और इसके लिये उनके स्तुतियों की। यहां तीन महत्वपूर्ण नरसिंह स्तुति (narsingh stuti) दी गयी है।
नरसिंह स्तुति संस्कृत में – narsingh stuti
ॐ श्री नृसिंहः केशवः सौरी गोविन्दो गरुडध्वजः ।
माधवश्चक्रपाणिश्च विष्वक्सेनो हलायुधः ॥१॥
शाश्वतः शङ्करः शूली हयग्रीवोच्युताग्रजः ।
डमरुशूलहस्त्यैश्च नागाभरणभूषितः ॥२॥
कृपयानन्दसम्पूर्णौ वृषाख्यो वृषभध्वजः ।
नारायणः परं ज्योतिः सुज्योतिर्ज्योतिषां पतिः ॥३॥
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ।
नररूपोऽथ सिंहश्च षोडशायुधधारिणः ॥४॥
शुक्तिकर्णौ विरूपाक्षो नखायुधविभूषणः ।
दंष्ट्राकरालमत्युग्रः श्रीशः श्रीधरशाश्वतः ॥५॥
नीलो नीलस्युरागिनश्च शुन्यमाकशभूध्रुतः ।
त्वं ज्योतिर्ब्रह्मैन्द्रश्च विष्णुरीशं परं गुरुः ॥६॥
शनिकृत नृसिंह स्तुति
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् ।
अनन्यगतिकानां च प्रभुर्भक्तैक वत्सलः ॥ १॥
शनैश्चरस्तत्र नृसिंहदेवस्तुतिं चकारामल चित्तवृत्तिः ।
प्रणम्य साष्टाङ्गमशेषलोक किरीट नीराजित पादपद्मम् ॥२॥
श्रीशनिरुवाच
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मष राशिनाशम् ।
कल्याणकारकमशेशनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥३॥
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्य सेवि ।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥४॥
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताखिल दोष सङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥५॥
प्रह्लाद भक्तवचसा हरिराविरास
स्तम्भे हिरण्यकशिपुं य उदारभावः ।
उर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥६॥
यो नैजभक्तमनलां बुधि भूधरोग्र-
शृङ्गप्रपात विषदन्ति सरीसृपेभ्यः ।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥७॥
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः ।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥८॥
यद्रूपमुग्र परिमर्दन भावशालि
सञ्चिन्तनेन सकलाघ विनाशकारी ।
भूतज्वरग्रहसमुद्भवभीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥९॥
यस्योत्तमं यश उमापति पद्मजन्म
शक्रादि दैवत सभासु समस्तगीतम् ।
शक्त्यैव सर्वशमल प्रशमैक दक्षं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥१०॥
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः ।
उवाच ब्रह्मवृन्दस्थं शनिं तं भक्तवत्सलः ॥११॥
श्रीनृसिंह उवाच
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् ।
यं वाञ्छसि तमेव त्वं सर्वलोकहितावहम् ॥१२॥
श्रीशनिरुवाच
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे ।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥१३॥
मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च ।
सर्वान्कामान्पूरयेथाः तेषां त्वं लोकभावन ॥१४॥
श्रीनृसिंह उवाच
तथैवास्तु शनेऽहं वै रक्षोभुवनसंस्थितः ।
भक्त कामान्पूरयिष्ये त्वं ममैकं वचः शृणु ॥१५॥
त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः ।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥१६॥
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह ।
ततः परमसन्तुष्टाः जयेति मुनयोवदन् ॥१७॥
श्रीकृष्ण उवाच
इदं शनैश्चरस्याथ नृसिंहदेव
संवादमेतत् स्तवनं च मानवः ।
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥१८॥
॥ इति श्रीशनैश्चरविरचिता श्रीनृसिंहस्तुतिः सम्पूर्णा ॥
ब्रह्मकृत नृसिंह स्तुति
ब्रह्मोवाच
भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः ।
भवान्कर्ता विकर्ता च लोकानां प्रभवोऽव्ययः ॥
परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च ।
परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् ।
परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम् ॥
एवं परस्यापि परं पदं यत्परं परस्यापि परं च देवम् ।
परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम् ।
परं परस्यापि परं महद्यत्त्वामाहुरग्र्यं पुरुषं पुराणम् ॥
परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् ।
परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥
एवमुक्त्वा तु भगवान्सर्वलोकपितामहः ।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥
ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च ।
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् ।
पौराणं रूपमास्थाय प्रययौ गरुडध्वजः ॥
अष्टचक्रेण यानेन भूतयुक्तेन भास्वता ।
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥
॥ इति मत्स्यपुराणे त्रिषष्ट्यधिकशततमाध्यायान्तर्गता ब्रह्मकृता नरसिंहस्तुतिः सम्पूर्णा ॥