श्रीवराहपुराणे त्र्यशीतितमोऽध्यायः
रुद्र उवाच निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितम् ।
नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते ।
तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषां
सप्तकुलपर्वतानां कोटिशः प्रसूतिः । तन्निवासिनो जनपदास्तन्नामान एव द्रष्टव्याः ।
तद्यथा सौरग्रामान्तऋः सातपो कृतसुराश्रवणकम्बल-
माहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीय-
समुद्रान्तककुरकुञ्चसुवर्णतटककुहश्वेताङ्ग कृष्णपादविदकपिलकर्णिक-
महिषकुब्जकरनाटमहोत्कटशुकनाकसजभूमककुरञ्जन
महानाहकिङ्किसपर्णभौमकचोरकधूमजन्माङ्गारजतीवनजीव-
लौकिता वाचां सहाङ्गमधुरेयशुकेयचकेयश्रवणमत्त
काशिकगोदावामकुलपञ्जाबवर्जहमोदशालक एते जनपदा-
स्तत्पर्वतोत्था नदीः पिबन्ति ।
तद्यथा प्लक्षा महाकदम्बा मानसी श्यामा सुमेधा बहुला विवर्णा
पुङ्खा माला दर्भवती भद्रानदी शुकनदी पल्लवा भीमा प्रभञ्जना
काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदा चन्द्रावती सुमूलावती
ककुद्मिनी विशाला करण्टका पीवरी महामाया महिषी मानुषी चण्डा
एता नदीः प्रधानाः । शेषाः क्षुद्रनद्यः सहस्रशश्चेति ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्र्यशीतितमोऽध्यायः ॥८३॥