द्वितीयोऽध्यायः
एकदा नारदो योगी नरानुग्रहङ्काङ्क्षया । पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥२२॥
तत्र दृष्ट्वा जनाः सर्वे नानादुःखसमन्विताः । नानायोनिसमुत्पन्नाः क्लिश्यन्ते पापकर्मभिः ॥२३॥
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम् । इति संचिन्त्य मनसा विष्णुलोकं गतस्तदा ॥२४॥
तत्र नारायणंदेवं शुक्लवर्णं चतुर्भुजम् । शंख चक्र गदा पद्म वनमाला विभूषितम् ॥२५॥
नारद उवाच
नमस्ते वाङंगमनोतीत रूपायाऽनंतशक्तये । आदिमध्यांतहीनाय निर्गुणाय गुणात्मने ॥२६॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने । श्रुत्वा स्तोत्रंततो विष्णुर्नारदं प्रत्यभाषत् ॥२७॥
श्रीभगवानुवाच
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते । कथयस्व महाभाग तत्सर्वं कथायमि ते ॥२८॥
नारद उवाच
मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः । ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥२९॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद् । श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥३०॥
श्रीभगवानुवाच
साधु पृष्टं त्वया वत्स लोकानुग्रहकांक्षया । यत्कृत्वा मुच्यते मोहत्तच्छृणुष्व वदामि ते ॥३१॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् । तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥३२॥
सत्यनारायणस्यैवं व्रतं सम्यग्विधानतः । कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्युयात् ॥३३॥
तच्छ्रुत्वा भगवद्वाक्यं नारदः पुनरब्रवीत् ।
नारद उवाच
किं फलं किं विधानं च कृतं केनैव तद्व्रतम् ॥३४॥
तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं हि तद्व्रतम् ॥३५॥
श्रीभगवानुवाच
दुःखशोकादिशमनं धनधान्यप्रवर्धनम् । सौभाग्यसन्ततिकरं सर्वत्रविजयप्रदम् ॥३६॥
यस्मिन्कस्मिन्दिने मर्त्यो भक्ति श्रद्धासमन्वितः । सत्यनारायणं देवं यजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥३७॥
नैवेद्यं भक्तितो दद्यात्सपादं भक्ष्यमुत्तमम् । रंभाफलं घृतं क्षीरं गोधूममस्य च चूर्णकम् ॥३८॥
अभावे शालिचूर्णं वा शर्करा वा गुडस्तथा । सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥३९॥
विप्राय दक्षिणां दद्यात्कथां श्रुत्वाजनैः सह । ततश्चबन्धुमिः सार्धं विप्रांश्च प्रतिपादयेत् ॥४०॥
प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् । ततश्च स्वगृहं गच्छेत्सत्यनारायणं स्मरन् ॥४१॥
एवंकृते मनुष्याणां वाञ्छासिद्धिर्भवेद्ध्रुवम् । विशेषतः कलियुगे नान्योपायोऽस्ति भूतले ।
कथां सम्यक् प्रवक्ष्यामि कृतं येन पुरा द्विज ॥४२॥
कश्चित् काशीपुरीवासी विप्र आसीच्च निर्द्धनः । क्षुघा तृष्णाकुलो भूत्वा सततं भ्रमते महीम् ॥४३॥
दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः । वृद्धब्राह्मणरूपः सन् पप्रच्छ द्विजमादरात् ॥४४॥
किमर्थं भ्रमसे विप्र महीं कृत्स्नां सुदुःखितः । तत्सर्वं श्रोतुमिच्छामि कथ्यतां यदि रोचते ॥४५॥
विप्र उवाच
ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं भ्रमते महीम् । उपायं यदि जानासि कृपया कथय प्रभो ॥४६॥
वृद्धबाह्मण उवाच
सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः । तस्य त्वं द्विजशार्दूल कुरुष्व व्रतमुत्तमम् ।
यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥४७॥
विधानं च व्रतस्याऽस्य विप्रायाऽभाष्य सङ्गतम् । सत्यनारायणो देवस्तत्रैवान्तरधीयत ॥४८॥
ततः प्रातः करिष्यामि व्रतं मनसि चिन्तितम् । इति संचिन्त्य विप्रोऽसौ रात्रौ निद्रां न चाऽलभत् ॥४९॥
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् । करिष्येऽहञ्च संकल्प्य भिक्षार्थमगद् द्विजः ॥५०॥
तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् । तेनैव बन्धुभिः सार्द्धं सत्यस्य व्रतमाचरत् ॥५१॥
सर्वदुःखविनिर्मुक्तः सर्वसंपत्समन्वितः । बभूव स द्विजश्रेष्ठो व्रतस्याऽस्य प्रभावतः ।
ततः प्रभृति कालञ्च मासि मासि व्रतं कृतम् ॥५२॥
सूत उवाच
एवं नारायणाद् देवाद् व्रतं ज्ञात्वा द्विजोत्तमः । सर्वपापविनिर्मुक्तो दुर्लभ मोक्षमाप्नुयात् ॥५३॥
व्रतं चैतद् यदा विप्र पृथिव्यां सञ्चरिष्यति । तदैव सर्वदुःखं हि नराणाञ्च विनश्यति । एवं नारायणे नोक्तं नारदाय महात्मने ॥५४॥
[ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणन्त्रतकथायां द्वितीयोऽध्यायः ]
अध्याय : प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम