चतुर्थोऽध्यायः
आसीदुल्कामुखो नाम नृपतिर्बलिनां वरः । जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति ॥
दिने दिने धनं दत्त्वा द्विजान् सन्तोषयन् सुधीः ॥७०॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती । सत्यव्रतं भद्रशीला सिन्धुतीरेऽकरोन्मुने ॥७१॥
एतस्मिन्नन्तरे तत्र साधुरेकः समागतः । वाणिज्यार्थं बहुधनैः रत्नाद्यैः परिपूरिताम् ॥७२॥
नावं संस्थाप्य तत्तीरे जगाम तत्तटं प्रति । दृष्ट्वा तत्र व्रतं सम्यक् पप्रच्छ विनयान्वितः ॥७३॥
साधुरुवाच
किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा । प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥७४॥
राजोवाच
पूजनं क्रियते साधो विष्णोरतुलतेजसः । व्रतं च स्वजनैः सार्द्धं पुत्रादि प्राप्स्यते मया ॥७५॥
प्रत्युवाच ततो नत्वा राजानं मधुरं वचः । साङ्गं कथय मे राजन् व्रतमेतत् करोम्यहम् ॥७६॥
ममापि सन्ततिर्नास्ति सत्यमेतद् ब्रवीम्यहम् । ततो विधानतो राजा कथयामास तद् व्रतम् ॥७७॥
राज्ञो मुखाद् व्रतं श्रुत्वा परं हर्षमवाप्तवान् । ततो निवर्त्य वाणिज्यात् सानन्दो गृहमागतः ॥७८॥
भार्यायै कथितं सर्वं व्रतं च सन्ततिप्रदम् । तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥७९॥
कस्मिश्चित् दिवसे तस्य भार्या लीलावती सती । गर्भयुक्ताऽऽनन्दचित्ताऽभवद्धर्म परायणा ॥८०॥
पूर्ण गर्भे ततो जाता बालिका चातिनिर्मला । दिने दिने वर्द्धमाना शुक्लपक्षे यथा शशी ॥८१॥
ततो वणिक् सुतायाश्च जातकर्मादिकं चरन् । नाम्ना कलावती चेति सन्नामकरणं कृतम् ॥८२॥
ततो लीलावती प्राह स्वामिनं मधुरं वचः । न करोषि किमर्थं वा पुरा यच्च प्रतिश्रुतम् ॥८३॥
विवाहसमयेऽप्यस्याः करिष्यामि व्रतं प्रिये । इति भार्यां समाश्वास्य जगाम नगरं प्रति ॥८४॥
ततः कलावती कन्या वर्द्धिता पितृवेश्मनि । दृष्ट्वा कन्यां ततः साधुर्नगरे बन्धुभिः सह ॥८५॥
मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् । विवाहार्थं च कन्याया वरं श्रेष्ठं विचारयन् ॥८६॥
तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ । तस्मादेकं वणिक्पुत्रं समादायागतो हि सः ॥८७॥
दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रं गुणान्वितम् । ज्ञातिभिर्बन्धुभिः सार्द्धं परितुष्टेन चेतसा ॥८८॥
दत्तवान् साधुपुत्राय कन्यां विधिविधानतः । ततोऽभाग्यवशात् तेन विस्मृतं व्रतमुत्तमम् ॥८९॥
विवाहसमयेऽप्यस्यास्तेन रुष्टोऽभवद्विभुः ॥९०॥ ततः कालेन क्रियता निजकर्म विशारदः ॥९१॥
( वाणिज्यार्थं गतः शीघ्रं जामात्रा सहितो वणिक् । रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपतः ॥)
वाणिज्यं कुरुते साधुर्जामात्रा श्रीमता सह । पुरीन्निर्माय नगरे चन्द्रकेतोर्नृपस्य च ॥९२॥
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः । भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ।
श्वः प्रभृति कियत्कालं महद् दुःखं भविष्यति ॥९३॥
तस्मिन्नेव दिने राज्ञो धनमादाय तस्करः । तेनैव वर्त्मना यातः पृष्ठदेशं विलोकयन् ॥९४॥
(तेन दूतान् समाहूय निजमाज्ञां च दत्तवान् ।)
तत्पश्चाद्धावकान् दूतान् दृष्ट्वा भीतेन चेतसा । धनं संस्थाप्य तत्रैव गतः शीघ्रमलक्षितः ॥९५॥
ततो दूताः समायाता यत्रास्ते सज्जनो वणिक् । दृष्ट्वा नृपधनं तत्र बद्ध्वा दूता वणिक्सुतौ ॥९६॥
हर्षयुक्ता धावमाना ऊचुर्नृपसमीपतः । तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥९७॥
तेनाज्ञप्तस्ततः शीघ्रं दृढं बद्ध्वा तु तावुभौ । स्थापितव्यौ महादुर्गे कारागारेऽविचारयन् ॥९८॥
[ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां चतुर्थोऽध्यायः ]
अध्याय : प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम