पञ्चमोध्यायः
मायया सत्यदेवस्य न श्रुतं च तयोर्वचः । ततस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना ॥९९॥
तच्छापाच्च तयोर्गेहे भार्या च दुःखिताऽभवत् । चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥१००॥
आधिव्याधिसमायुक्ता क्षुत्पिपासातिपीडिता । अन्नचिन्तापरा भूत्वा भ्रमते च गृहे गृहे ॥१०१॥
तथा कलावती कन्या भ्रमते प्रतिवासरम् । एकस्मिन् दिवसे रात्रौ क्षुधार्ता द्विजमन्दिरम् ॥१०२॥
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च । उपविश्य कथां श्रुत्वा वरं सम्प्रार्थ्य वाञ्छितम् ॥१०३॥
प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति । ततो लीलावती कन्यां भर्त्सयामास तां भृशम् ॥१०४॥
पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते । द्विजालये व्रतं मातदृष्टं वाञ्छितसिद्धिदम् ।
तच्छ्रुत्वा कन्यकावाक्यं व्रतं कर्तुं समुद्यता ॥१०५॥
ससुता सा वणिग्भार्या सत्यनारायणस्य च । व्रतं हि कुरुते साध्वी बन्धुभिः स्वजनैः सह ॥१०६॥
भर्तृजामातरौ क्षिप्रमागच्छेतां निजाश्रमम् । इति देवं वरं याचे सत्यदेवं पुनः पुनः ॥१०७॥
अपराधं च भर्तुर्मे जामातुः क्षन्तुमर्हसि । व्रतेन तेन तुष्टोऽसौ सत्यनारायणः प्रभुः ॥१०८॥
दर्शयामास स्वप्ने हि चन्द्रकेतुं नृपोत्तमम् । बन्धनान्मोचय प्रातर्वणिजौ नृपसत्तम ॥१०९॥
देयं धनं च तत्सर्वं विधियुक्तं हृतं च यत् । नो चेत्त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ॥११०॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः । ततः प्रभातसमये राजा च स्वजनैः सह ॥१११॥
उपविश्य सभामध्ये प्राह पौरजनान् प्रति । बद्धो महाजनो शीघ्रं मोचयध्वं वणिक्सुतौ ॥११२॥
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ । समानीय नृपस्याग्रे प्रोचुस्ते विनयान्विताः ॥११३॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् । ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥११४॥
स्मरन्तो पूर्ववृत्तान्तं विस्मयाद् भयविह्वलो । राजा वणिक्सुतौ वीक्ष्य प्रोवाच सादरं वचः ॥११५॥
दैवात् प्राप्तं महद् दुःखमिदानीं नास्ति ते भयम् । इदानीं कर्तुमुचितं क्षौरकर्मादिकं च यत् ॥११६॥
ततो नृपाज्ञया सर्वं नित्यकृत्यं समाप्य च । शुक्लाम्बरधरौ शीघ्रं सभामध्ये समागतौ ॥११७॥
ततो नृपवरः श्रीमान् स्वर्णरत्नविभूषणैः । पुरस्कृत्य वणिक्पुत्रौ वचसा प्रीणयन् भृशम् ॥११८॥
पुरानीतं च यद् द्रव्यं द्विगुणीकृत्य दत्तवान् । प्रोवाच तौ ततो राजा गच्छ साधोनिजाश्रमम् ॥११९॥
राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रसादतः ॥१२०॥
[ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां पञ्चमोऽध्यायः ]
अध्याय : प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम