७. विजया – ॐ विज्ज्यन्धनुः कपर्दिनो व्विशल्यो बाणवाँ२ ऽउत । अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधिः॥ ॐ भूर्भुवः स्वः विजये इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः विजयायै नमः॥
८. जया – ॐ बह्वीनां पिता ब्बहुरस्य पुत्रश्चिश्श्चाकृणोति समनावगत्य ।इषुधि: सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ ॐ भूर्भुवः स्वः जये इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः जयायै नमः॥
९. देवसेना – ॐ इन्द्रऽआसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुर ऽएतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ ॐ भूर्भुवः स्वः देवसेने इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः देवसेनायै नमः॥
१०. स्वधा – ॐ पितृभ्यः स्वायिब्भ्यः स्वधा नमः पितामहेभ्यः स्वायिब्भ्यः स्वधा नमः प्रपितामहेभ्यः स्वायिब्भ्यः स्वधा नमः। अक्षन्न्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः, पितरो शुन्धद्ध्वम् ॥ ॐ भूर्भुवः स्वः स्वधे इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः स्वधायै नमः॥
११. स्वाहा – ॐ स्वाहा प्राणेब्भ्यः साधिपतिकेब्भ्यः । पृथिव्यै स्वाहाग्नये स्वाहान्तरिक्षाय स्वाहा व्वायवे स्वाहा। दिवे स्वाहा सूर्याय स्वाहा॥ ॐ भूर्भुवः स्वः स्वाहे इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः स्वाहायै नमः॥
११. मातृ – ॐ आपोऽअसम्मान्मातरः शुन्धयन्तु घृतेन तो घृतप्वः पुनन्तु । विश्व ᳪ हि रिप्रं प्रवहन्ति देवीरुदिदाब्भ्यः शुचिरा पूतऽएमि । दीक्षातपसोस्तनूरसि तां त्वा शिवा ᳪ शग्मां परिदधे भद्रं व्वर्णं पुष्यन्॥ ॐ भूर्भुवः स्वः मातर इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः मातृभ्यो नमः॥
१२. लोकमातृ – ॐ रयिश्च मे रायश्च मे पुष्टंचमे पुष्टिश्च मे विभुचमे प्रभुच मे पूर्ण्णं च मे पूर्णतरं च मे कुयवं चमऽक्षितं च मेऽन्नं च मेऽक्षुच्च मे यज्ञेन कल्पन्ताम् ॥ ॐ भूर्भुवः स्वः लोकमातर इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः॥
१३. धृति – ॐ यत्प्रज्ञानमुत चेतो धृतिश्च्च यज्ज्योतिरन्तरमृतं प्रजासु ।यस्मान्नऋते किञ्च न कर्म क्रियते तन्मे मनः शिवसंकल्प्पमस्तु ॥ ॐ भूर्भुवः स्वः धृते इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः धृत्यै नमः॥
१४. पुष्टि – ॐ अङ्गान्न्यात्मन्न्भिषजा तदश्विनात्मानमङ्गैः समधात्सरस्वती ।इन्द्रस्य रूप ᳪ शतमानमायुश्चन्द्रेण ज्योतिरमृतं दधानाः॥ ॐ भूर्भुवः स्वः पुष्टे इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः पुष्टयै नमः॥
१५. तुष्टि – ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुन्दुरितात्यग्निः ॥ ॐ भूर्भुवः स्वः तुष्टे इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः तुष्टयै नमः॥
१६. आत्मनः कुलदेवता – ॐ प्राणाय स्वाहाऽपानाय स्वाहा ळ्यानाय स्वाहा ।चक्षुषे स्वाहा क्षोत्राय स्वाहा व्वाचे स्वाहा मनसे स्वाहा ॥ ॐ भूर्भुवः स्वः आत्मनः कुलदेवते इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः आत्मनः कुलदेवतायै नमः॥
प्राणप्रतिष्ठा (अक्षत पुष्प से प्राण-प्रतिष्ठा करें) : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञ ᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों ३ प्रतिष्ठ ॥ ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातरः इहागच्छत इह तिष्ठत।
पूजा मंत्र
- जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- गंध (चंदन) : इदं गन्धं ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- सिंदूर : इदं सिन्दूरं ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- पुष्प : इदं पुष्पं ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- अक्षत : इदं अक्षतं ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- धूप : एष धूपः ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- दीप : एष दीपः ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- नैवेद्य : इदं नैवेद्यं ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
- जल : इदमाचमनीयं पुनराचमनीयं ॐ भूर्भुवः स्वः गणपति दुर्गा सहिताः गौर्यादि षोडश मातृभ्यो नमः॥
फल लेकर प्रणाम करे – ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम । निर्विघ्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः ॥ फल अर्पण करे।
प्रणाम करे – गेहे वृद्धिशतानि भवंतु, उत्तरे कर्मण्यविघ्नमस्तु ॥
पुष्पाञ्जलि
ॐ गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
pdf
कैसे मिलेगी और आपकी बुक