बलि देने के बाद आचमन करके आचार्य पुनः मण्डप में प्रवेश करके देवता के सामने बैठे और दशदिशाओं में पीली सरसों छिड़क कर रक्षाविधान रक्षा विधि करे :
- इन्द्र – ॐ त्रातारमिन्द्रमवितारमिन्द्रᳪ हवे हवे सुहव ᳪ शूरमिन्द्रम्, ह्वायामि शक्रम्पुरुहूतमिन्द्र ᳪ स्वस्ति नो मघवा धात्विन्द्रः॥ भो इन्द्र प्राची रक्ष ॥
- अग्नि – ॐ त्वन्नोऽअग्ने तव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य। त्राता तोकस्य तनये गवामस्य निमेष ᳪ रक्षमाणस्तवव्व्रते ॥ भो अग्नि आग्नेयी रक्ष ॥
- यम – ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा धर्माय स्वाहा धर्मः पित्रे ॥ भो यम याम्ये रक्ष ॥
- निर्ऋति – ॐ असुन्नवन्तमयजमानमिच्छस्तेनस्येत्यामन्विहितस्करस्य अन्यमस्मदिच्छसात ऽइत्यानमो देवि निर्ऋते तुभ्यमस्तु ॥ भो निऋते नैऋतं रक्ष ॥
- वरुण – ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणेह बोध्युरुश ᳪ समानऽआयुः प्रमोषीः ॥ भो वरुण प्रतीची रक्ष ॥
- वायु – ॐ आ नो नियुद्भिः शतिनीभिरध्वर ᳪ सहश्रिणीभिरुपयाहि यज्ञम्, वायो ऽअस्मिन्त्सवने मादयस्व यूयम्पात स्वस्तिभिः सदा नः ॥ भो वायो वायवी रक्ष ॥
- कुबेर – ॐ वय ᳪ सोमव्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि ॥ भो कुबेर उदीची रक्ष ॥
- ईशान – ॐ तमीशानञ्जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयं। पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ भो ईशान ईशाने रक्ष ॥
- ब्रह्मा – ॐ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतो सजोषाः यः श ᳪ स तेस्तुवते धायि वज्रऽइन्द्र ज्येष्ठाऽअस्माँ२ऽअवन्तु देवाः॥ भो ब्रह्मन् अन्तरिक्षं रक्ष ॥
- अनन्त – ॐ स्योना पृथिवि नो भवानृक्षरानिवेशनी यच्छा नः सर्मसप्रथाः॥ भो अनन्त अधो रक्ष ॥
फिर चार ब्राह्मण देवता के आगे बैठकर स्वस्तिवाचन करें।
संक्षिप्त पुण्याहवाचन :
- यजमान (तिलजलादि ग्रहण करके संकल्प करे) : ॐ आसां प्रतिमानां अर्चाशुद्धि देवकलासान्निध्य हेतवे स्नपनविध्यभ्युदयार्थं प्रैषात्मक पुण्याहवाचनं करिष्ये॥
- यजमान : भो ब्राह्मणाः …. देवार्चाशुद्धिस्नपन नेत्रोन्मीलन कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥
- ब्राह्मण : ॐ पुण्याहं ॥३॥ ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः। पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा॥
- यजमान : भो ब्राह्मणाः …. देवार्चाशुद्धिस्नपन नेत्रोन्मीलन कर्मणः कल्याणम् भवन्तो ब्रुवन्तु ॥
- ब्राह्मण : ॐ कल्याणम् ॥३॥ ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः। ब्रह्मराजन्या ᳪ शूद्राय चार्याय च स्वाय चारणाय च। प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुपमादो नमतु ॥
- यजमान : भो ब्राह्मणाः …. देवार्चाशुद्धिस्नपन नेत्रोन्मीलन कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ॥
- ब्राह्मण : ॐ ऋद्ध्यताम् ॥३॥ ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्याऽअध्याऽरुहामाविदाम देवान् स्वर्ज्योतिः ॥
- यजमान : अस्मै ….. अर्चाशुद्धिस्नपनाय नेत्रोन्मीलनकर्मणे च स्वस्ति इति वदेयुः॥
- ब्राह्मण : ॐ आयुष्मते स्वस्ति ॥३॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
- पुण्याहवाचन दक्षिणा : ॐ कृतस्य पुण्याहवाचनकर्मणः साङ्गता सिद्ध्यर्थं एतावत् दक्षिणाद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दक्षिणां दातुमहमुत्सृजे ॥
ब्राह्मणपूजन करके सबको दक्षिणा प्रदान करे और आशीर्वाद ग्रहण करे।