Headlines

अशौच विधान – प्रमाण संकलन

अशौच विधान - प्रमाण संकलन अशौच विधान - प्रमाण संकलन

“अशुद्धदेहेन संपादिते अर्चने प्रायश्चित्तम्”

अशौच विधान का धर्म और कर्मकांड में बहुत ही महत्व है। अशौच का तात्पर्य होता है किसी विशेष कालखण्ड में शुद्धता का अभाव। धर्माचरण का मुख्य तात्पर्य कर्मकांड ही है और अशौच में कर्मकांड का अभाव हो जाता है जिसका अपवाद प्रेतकर्म (दशगात्रादि) और संध्या (मानसिक) है और यह भी शास्त्रप्रमाण से ही है मनमुखी विचार नहीं। इसके अतिरिक्त सभी प्रकार के देवकर्म, पितृकर्म में अधिकाराभाव हो जाता है।

इस कारण धर्म में जिसकी रति हो उसके लिये अशौच विधान का ज्ञान अत्यावश्यक है। धर्म विषयक किसी भी विषय का ज्ञान शास्त्र से ही प्राप्त कर सकते हैं अस्तु अशौच के विषय में भी शास्त्रों के प्रमाणों का संकलन बहुत ही महत्वपूर्ण है। यहां अशौच से सम्बंधित विभिन्न शास्त्रों के प्रमाणों का विस्तृत संकलन किया गया है जो कि स्वयं में अद्वितीय है।

“अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति । अहिंसया च भूतात्मा मनः सत्येन शुध्यति”

अशौच विधान – प्रमाण संकलन

“सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् । योऽन्ने शुचिर्हि स शुचिर्नमृद्वारिशुचिः शुचिः”

अशौच निर्णय के विषय में बड़ी विचित्र सी स्थिति देखने को मिलती है, निर्णय वो लोग करते हैं जो पंचांगों में कुछ संक्षिप्त अशौच विचार (प्रमाण रहित) वर्णित होता है; केवल उसका अध्ययन-अवलोकन किये होते हैं। यदि बात अशौच निर्णय से संबंधित प्रमाणों की करें तो उन्हें किसी प्रकार के कोई प्रमाण न तो ज्ञात होते है और न ही ये ज्ञात होता है कि अशौच निर्णय हेतु किन ग्रंथों का अवलोकन करें।

जिनका ज्ञान पञ्चाङ्गोपलब्ध संक्षिप्त निर्णय के अध्ययन तक सीमित होता है; वास्तव में वो अशौच निर्णय करने के अधिकारी ही नहीं हैं। किन्तु करें तो क्या करें ये पीढ़ी एक ऐसे दलदल में फंसी हुयी है जो उपलब्ध कराने पर भी अध्ययन नहीं करती। अस्तु हमारा यह संकलन अगली पीढ़ी के कर्मकांडियों हेतु उपयोगी है जिनकी जिज्ञासा जागृत होती प्रतीत होती है। यहां ढेरों ग्रंथों के बहुशः प्रमाण संकलित हैं जिनका अध्ययन – मनन करके अशौच निर्णय का अधिकारी बना जा सकता है।

अशौच विधान
अशौच विधान

यहां अशौच से संबंधित इतने प्रमाण संग्रह किये गए हैं कि अशौच के संबंध में उत्पन्न होने वाले सभी प्रश्नों के उत्तर प्राप्त हो जाते हैं। किसी भी निर्णयकर्त्ता के लिये यह आवश्यक हो जाता है कि वो इन प्रमाणों से भिज्ञ हो, क्योंकि बिना प्रमाण के जो निर्णय देता है वह ब्रह्मघात दोष का भागी बनता है।

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे त्वपराह्णिकम् । न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम ॥
विष्णुधर्मोत्तर पुराण/२/७८/२१

मनु स्मृति

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णां अपि वर्णानां यथावदनुपूर्वशः ॥
दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्संचयनादस्थ्नां त्र्यहं एकाहं एव वा ॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥
यथेदं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवं एव स्यान्निपुणं शुद्धिं इच्छताम् ॥
सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥

निरस्य तु पुमाञ् शुक्रं उपस्पृस्यैव शुध्यति । बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ॥
अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः । शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥
नृणां अकृतचूडानां विशुद्धिर्नैशिकी स्मृता । निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥

नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहं एव तु ॥
नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति ॥
सब्रह्मचारिण्येकाहं अतीते क्षपणं स्मृतम् । जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥
स्त्रीणां असंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ ॥
संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः । असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः ॥

विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलं आप्लुत्य शुद्धो भवति मानवः ॥
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । सवासा जलं आप्लुत्य सद्य एव विशुध्यति ॥
अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥
त्रिरात्रंमाहुराशौचं आचार्ये संस्थिते सति । तस्य पुत्रे च पत्न्यां च दिवारात्रं इति स्थितिः ॥

श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः । अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥
शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥
न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः । न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥
दिवाकीर्तिं उदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः ॥

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निःस्नेहं गां आलभ्यार्कं ईक्ष्य वा ॥
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥
वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् । आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥
पाषण्डं आश्रितानां च चरन्तीनां च कामतः । गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥

न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् । ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥
राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थं आसनं चात्र कारणम् ॥
डिम्भाहवहतानां च विद्युता पार्थिवेन च । गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः ॥
लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते यज्ञस्तथाशौचं इति स्थितिः ॥

विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः ॥
एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥

मनुस्मृति/५/५७ – १०२

पराशर स्मृति

अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा । दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके ॥
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः । शूद्रः शुध्यति मासेन पराशरवचो यथा ॥
उपासने तु विप्राणां अङ्गशुद्धिश्च जायते । ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते ॥
जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥
एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥

जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः । नामधारकविप्रस्तु दशाहं सूतकी भवेत् ॥
एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः । जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत् ॥
तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेण तु । दायाद्विच्छेदं आप्नोति पञ्चमो वात्मवंशजः ॥
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् ॥
भृग्वग्निमरणे चैव देशान्तरमृते तथा । बाले प्रेते च संन्यस्ते सद्यः शौचं विधीयते ॥

देशान्तरमृतः कश्चित्सगोत्रः श्रूयते यदि । न त्रिरात्रं अहोरात्रं सद्यः स्नात्वा शुचिर्भवेत् ॥
देशान्तरगतो विप्रः प्रयासात्कालकारितात् । देहनाशं अनुप्राप्तस्तिथिर्न ज्ञायते यदि ॥
कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या । उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥
अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः । न तेषां अग्निसंस्कारो नाशौचं नोदकक्रिया ॥
यदि गर्भो विपद्येत स्रवते वापि योषितः । यावन्मासं स्थितो गर्भो दिनं तावत्तु सूतकम् ॥

आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥
दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अग्निसंस्करणे तेषां त्रिरात्रं अशुचिर्भवेत् ॥
आ दन्तजन्मनः सद्य आ चूडान्नैषिकी स्मृता । त्रिरात्रं आ व्रतादेशाद्दशरात्रं अतः परं ॥
ब्रह्मचारी गृहे येषां हूयते च हुताशनः । संपर्कं न च कुर्वन्ति न तेषां सूतकं भवेत् ॥
संपर्काद्दुष्यते विप्रो जनने मरणे तथा । संपर्काच्च निवृत्तस्य न प्रेतं नैव सूतकं ॥

शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः । राजानः श्रोत्रियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥
सव्रतः सत्रपूतश्च आहिताग्निश्च यो द्विजः । राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥
उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः । तदैव ऋषिभिर्दृष्टं यथा कालेन शुध्यति ॥
प्रसवे गृहमेधी तु न कुर्यात्संकरं यदि । दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः ॥
सर्वेषां शावं आशौचं माता पित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥

यदि पत्न्यां प्रसूतायां संपर्कं कुरुते द्विजः । सूतकं तु भवेत्तस्य यदि विप्रः षडङ्गवित् ॥
संपर्काज्जायते दोषो नान्यो दोषोऽस्ति वै द्विजे । तस्मात्सर्वप्रयत्नेन संपर्कं वर्जयेद्बुधः ॥
विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ॥
अन्तरा दशाहस्य पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशं ॥
ब्राह्मणार्थे विपन्नानां बन्दिगोग्रहणे तथा । आहवेषु विपन्नानां एकरात्रं अशौचकं ॥

पराशरस्मृति/३/१ – २९

दक्षस्मृति

सूतकं तु प्रवक्ष्यामि जन्ममृत्युनिमित्तकम् । यावज्जीवं तृतीयं तु यथावदनुपूर्वशः ॥
सद्यः शौचं तथैकाहस्त्र्यहश्चतुरहस्तथा । षड्दशद्वादशाहश्च पक्षो मासस्तथैव च ॥
मरणान्तं तथा चान्यद्दशपक्षास्तु सूतके । उपन्यासक्रमेणैव तन्मे निगदतः शृणु ॥
ग्रन्थार्थं यो विजानाति वेदमङ्गैः समन्वितम् । सकल्पं सरहस्यञ्च क्रियावांश्चेन्न सूतकं ॥
राजर्त्विग्दीक्षितानाञ्च बाले देशान्तरे तथा । व्रतिनां सत्रिणां चैव सद्यः शौचं विधीयते ॥

एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदेस्तु द्विहीनो दशभिर्दिनैः ॥
शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥
अस्नात्वा चाप्यहुत्वा च ह्यदत्त्वा ये तु भुञ्जते । एवंविधानां सर्वेषां यावज्जीवं तु सूतकम् ॥
व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥
व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः । श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत् ॥
सूतकं न कदाचित्स्याद्यावज्जीवं तु सूतकं । एवंगुणविशेषेण सूतकं समुदाहृतम् ॥

सूतके मृतके चैव तथा च मृतसूतके । एतत् संहतशौचानां मृतशौचेन शुध्यति ॥
वर्णानामानुलोम्येन स्त्रीणामेको यदा पतिः । दशाहषट्त्र्यहैकाहं प्रसवे सूतकं भवेत् ॥
यज्ञे प्रवर्त्तमाने तु जायते म्रियतेऽपि वा। पूर्वसंकल्पितार्थानां न दोषस्तत्र विद्यते ॥
यज्ञकाले विवाहे च देवयागे तथैव च । हूयमाने तथा चाग्नौ नाशौचं नैव सूतकम् ॥
स्वस्थकाले तथा सर्वमशौचं परिकीर्तितम् । आपद्गतस्य सर्वस्य सूतकेऽपि न सूतकम् ॥

दक्षस्मृति/६/१ – १५

याज्ञवल्क्य स्मृति

त्रिरात्रं दशरात्रं वा शावं आशौचं इष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥
पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्ध्रुवम् । तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥
अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति । गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । प्रोषिते कालशेषः स्यात्पूर्णे दत्त्वोदकं शुचिः ॥

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥
आदन्तजन्मनः सद्या अचूडान्नैशिकी स्मृता । त्रिरात्रं आव्रतादेशाद्दशरात्रं अतः परम् ॥
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुर्वन्तेवास्यनूचानं आतुलश्रोत्रियेषु च ॥
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् । अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक्शुचिः ॥
महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारि दातृब्रह्मविदां तथा ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥

याज्ञवल्क्यस्मृति/प्रायश्चित्ताध्याय/अशौचप्रकरण/१८ – २९

शंख स्मृति

जनने मरणे चैव सपिण्डानां द्विजोत्तमाः । त्र्यहाच्छुद्धिमवाप्नोति योऽग्निवेदसमन्वितः ॥
सपिण्डता तु पुरूषे सप्तमे विनिवर्त्तते । नामधारक विप्रस्तु दशाहेन विशुध्यति ॥
क्षत्रियो द्वादशाहेन वैश्यः पक्षेण शुध्यति । मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा ॥
रात्रिभिर्म्मासतुल्याभिर्गर्भस्रावे विशुद्धति । अजातदन्तवाले तु सद्यः शौचं बिधीयते ॥
अहोरात्रात्तथा शुद्धिर्बाले त्वकृतचूडके । तथैवानुपनीते तु त्र्यहाच्छुध्यन्ति मानवाः ॥
अनूढानां कन्यकानां तथैव शूद्रजन्मनां । अनूढ़भार्य्यः शूद्रस्तु षोडशाद्वत्सरात्परम् ॥

मृत्युं समवगच्छेत्तु मासं तस्यापि बान्धवाः । शुद्धिं समवगच्छन्ति नात्र कार्य्या विचारणा ॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥
हीनवर्णा तु या नारी प्रमादात् प्रसवं व्रजेत् । प्रसवे मरणे तज्जन्माशौचं नोपशाम्यति ॥
समानं खल्वशौचन्तु प्रथमे तु समापयेत् । असमानं द्वितीयेन धर्म्मराजवचो यथा ॥
देशान्तरगतः श्रुत्वा कुल्यानां मरणोद्भवौ । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥
अतीते दशरात्रे तु तावदेव शुचिर्भवेत् । तथा संवत्सरेऽतीते स्नात एव विशुध्यति ॥

अनौरसेषु पुत्रेषु भार्य्यास्वन्यगतासु च । परपूर्व्वासु च स्त्रीषु त्र्यहाच्छुद्धिरिहेष्यते ॥
मातामहे व्यतीते तु आचार्य्ये च तथा मृते । गृहे कन्यासु दत्तासु मृतासु च त्र्यहं तथा ॥
निवास राजनि प्रेते जाते दौहित्रके गृहे । आचार्य्यपत्नीपुत्रेषु प्रेतेषु दिवसेन च ॥
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्वान्धवेषु च । सब्रह्मचारिण्येकाहमनूचाने तथा मृते ॥
एकरात्रं त्रिरात्रं वा षड़्‌रात्रं मासमेव च । शूद्राः सपिण्डवर्णानामाशौचं क्रमशः स्मृतम् ॥
सपिण्डे क्षत्रिये शुद्धिः षड़्‌रात्रं ब्राह्मणस्य च । वर्णानां परिशिष्टानां द्वादशेऽह्नि विनिर्द्दिशेत् ॥

सपिण्डे ब्राह्मणा वर्णाः सर्व्व एवाविशेषतः । दशरात्रेण शुध्येयुरित्याह भगवान् यमः ॥
भृग्वग्न्यशनाम्भोभिर्मृतानामात्मघातिनाम् । पतितानां च नाशौचं शस्त्रविद्युद्धताश्चये ॥
यति व्रती ब्रह्मचारी नृपकारुक दीक्षिताः । नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ॥
यस्तु भुङ्‌क्ते पराशौचे वर्णी सोऽप्यशुचिर्भवेत् । आशौचशुद्धौ शुद्धिश्च तस्याप्युक्ता मनीषिभिः ॥
पराशौचे नरो भुक्त्वा कृमियोनौ प्रजायते । भुक्त्वान्नं म्रियते यस्य तस्य योनौ प्रजातये ॥
दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म्म च । प्रेतपिण्डक्रियावर्ज्जमाशौचे विनिवर्त्तते ॥

शंख स्मृति १५/१ – २४

कूर्मपुराण (उत्तरभाग) २३

दशाहं प्राहुराशौचं सपिण्डेषु विधीयते । मृतेषु वाऽथ जातेषु ब्राह्मणानां द्विजोत्तमाः॥
नित्यानि चैव कर्माणि काम्यानि च विशेषतः । नकुर्याद्विहितं किञ्चित् स्वाध्यायं मनसाऽपिच ॥
शुचीनक्रोधनान्भूम्यान् शालाग्नौ भावयेद्द्विजान् । शुष्कान्नेन फलैर्वापि वैतानान् जुहुयात् तथा ॥
न स्पृशेदुरिमानन्ये न च तेभ्यः समाहरेत् । चतुर्थे पञ्चमे वाऽह्नि संस्पर्शः कथितो बुधैः ॥
सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति । सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥

अधीयानस्तथा वेदान् वेदविच्च पिता भवेत् । संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥
दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे । एकद्वित्रिगुणैर्युक्तः चतुस्त्र्येकदिनैः शुचिः ॥
दशाह्नादपरं सम्यगधीयीत जुहोति च । चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥
क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्येह मरणान्तमशौचकम् ॥
त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् । प्राक्संवत्सरात्त्रिरात्रंस्यात् तस्मादूर्ध्वंदशाहकम् ॥

ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते । त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः॥
अदन्तजातमरणे पित्रोरेकाहमिष्यते । जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥
आदन्तजननात् सद्य आचौलादेकरात्रकम् । त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥
जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः । मातुश्च सूतकं तत्स्यात् पिता स्यात्स्पृश्य एव च ॥

सदाशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च । ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥
अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् । एकरात्रं निर्गुणानां चौलादूर्ध्वं त्रिरात्रकम् ॥
अदन्तजातमरणं संभवेद् यदि सत्तमाः । एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ॥
व्रतादेशात् सपिण्डानां गर्भस्रावात् स्वपाततः ।

(सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः । अर्वाक् षण्मासतः स्त्रीणां यदि स्याद् गर्भसंस्रवः ॥
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् । तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् ॥
सद्यः शौचं सपिण्डानां गर्भस्रावाच्च धातुतः । गर्भच्युतादहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ॥)

यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥
यदि स्यात्सूतके सूतिर्मरणे वा मृतिर्भवेत् । शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥
मरणोत्पत्तियोगेन मरणेन समाप्यते। अघ्यंवृद्धिमदाशौचमूर्घ्वं चेत्तु न शुध्यति ॥
अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ॥
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु । तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥

अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ॥
(अथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि । वेदान्तविच्चाधीयानो योऽग्निमान् वृत्तिकर्षितः ॥
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा । स्त्रीणामसंस्कृतानां तु प्रदानात् परतः सदा ॥
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्त्तुरेव हि । अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ॥
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् । आदन्तात् सोदरे सद्य आचौलादेकरात्रकम् ॥)

आप्रदानात् त्रिरात्रं स्याद् दशरात्रम् ततः परम् ॥
मातामहानां मरणे त्रिरात्रं स्यादशौचकम् । एकोदकानां मरणे सूतके चैतदेव हि ॥
पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च । एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥
प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितिः । गृहे मृतासु सर्वासु कन्यासु त्र्यहं पितुः ॥
परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च । त्रिरात्रं स्यात्तथाचार्यास्वभार्यास्वन्यगासु च ॥
आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् । एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ॥

त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च । एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥
त्रिरात्रं श्वश्रूमरणात् श्वशुरे चै तदेव हि । सद्यः शौचं समुद्दिष्टं स्वगोत्रे संस्थिते सति ॥
शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ॥
क्षत्रविट्‌शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः । तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥
राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु । तमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥

सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः । तद्‌वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥
षड्‌रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि । वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥
अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुंगवाः । शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥
षड्‌रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः । अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुंगवाः ॥
शूद्रविट्‌क्षत्रियाणां तु ब्राह्मणे संस्थिते सति । दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्धृत्य बन्धुवत् । अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥
यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः । अन्नदंस्त्वन्नमह्ना तु न च तस्मिन् गृहे वसेत् ॥
सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु । दशाहेन शवस्पर्शी सपिण्डश्चैव शुध्यति ॥
यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः । दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्धृत्य बन्धुवत् । अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥
यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः । अन्नदंस्त्वन्नमह्ना तु न च तस्मिन् गृहे वसेत् ॥
सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु । दशाहेन शवस्पर्शी सपिण्डश्चैव शुध्यति ॥
यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः । दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ॥
अर्द्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति । षड्‌रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥

अनाथं चैव निर्धृत्य ब्राह्मणं धनवर्जितम् । स्नात्वा संप्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥
अपरश्चेद्परं वर्णमपरं वा परो यदि । अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ॥
प्रेतीभूतं द्विजं विप्रो हि अनुगच्छेत कामतः । स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥
एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥
अनस्थिसंचिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः । त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥

अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः । अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥
अनस्थिसंचित् विप्रो ब्राह्मणो रौति चेत् तदा । स्नानेनैव भवेच्छुद्धिः सचैलेनात्र संशयः ॥
यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि । बान्धवो वाऽपरो वाऽपि स दशाहेन शुध्यति ॥
यस्तेषां सममश्नाति सकृदेवापि कामतः । तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥
यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः । तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥

दाहाद्यशौचं कर्त्तव्यं द्विजानामग्निहोत्रिणाम् । सपिण्डानां तु मरणे मरणादितरेषु च ॥
सपिण्डता च पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥
पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजस्रयो ज्ञेयाः सापिण्ड्यं साप्तपौरुषण् ॥
अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् । तासान्तु भर्त्तुसापिण्ड्यं प्राह देवः पितामहः ॥
ये चैकजाता बहवो भिन्नयोनय एव च । भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥

कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । दातारो नियमाच्चैव ब्रह्मविद्‌ब्रह्मचारिणौ ॥
सत्रिणो व्रतिनस्तावत् सद्यः शौचम् उदाहृतम्। राजा चैवाभिषिक्तश्च अन्नसत्रिण एव च ॥
यज्ञे विवाहकाले च दैवयागे तथैव च । सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ॥
डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः । सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥
अग्निमरुत्प्रपतने वीराध्वन्यप्यनाशके । गोब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥

नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसंचयः । ना श्रुपातो नपिण्डौ वा कार्यं श्राद्धादि कंक्वचित् ॥
व्यापादयेत् तथात्मानं स्वयं योऽग्निविषादिभिः । विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥
अथ किंचित् प्रमादेन म्रियतेऽग्निविषादिभिः । तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥

कूर्मपुराण/उत्तरभाग/२३/१ – ६४

लिङ्गपुराण (पूर्वभाग) ८९

सूतिकाशौचसंयुक्तः शावाशौचसमन्वितः। संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुध्यति॥
नैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम्। नैष्ठिकानां नृपाणां च मंडलीनां च सुव्रताः॥
ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत्। वैखानसानां विप्राणां पतितानामसंभवात्॥
असंचयद्विजानां च स्नानमात्रेण नान्यथा। तथा संनिहितानां च यज्ञार्थं दीक्षितस्य च॥
एकाहाद्यज्ञयाजीनां शुद्धिरुक्ता स्वयंभुवा। ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम्॥

सूतकं प्रेतकं नास्तित्र्यहादूर्ध्वममुत्र वै। अवार्गेकादशाहांतं बांधवानां द्विजोत्तमाः॥
स्नानमात्रेण वै शुद्धिर्मरणे समुपस्थिते। तत ऋतुत्रयादर्वागेकाहः परिगीयते॥
सप्तवर्षात्ततश्चार्वाक् त्रिरात्रं हि ततः परम्। दशाहं ब्राह्मणानां वै प्रथमेऽहनि वा पितुः॥
दशाहं सूतिकाशौचं मातुरप्येवमव्ययाः। अर्वाक् त्रिवर्षात्स्नानेन बांधवानां पितुः सदा॥
अष्टब्दादेकरात्रेण शुद्धिः स्याद्बांधवस्य तु। द्वादशाब्दात्ततश्चार्वाक् त्रिरात्रं स्त्रीषु सुव्रताः॥

\सपिंडता च पुरुषे सप्तमे विनिवर्तते। अतिक्रांते दशाहे तु त्रिरात्रमशुचिर्भवेत्॥
ततः सन्निहितो विप्रश्चार्वाक् पूर्वं तदेव वै। संवत्सरे व्यतीते तु स्नानमात्रेण शुध्यति॥
स्पृष्ट्वा प्रेतंत्रिरात्रेण धर्मार्थं स्नानमुच्यते। दाहकानां च नेतॄणां स्नानमात्रमबांधवे॥
अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुध्यति। आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते॥
पक्षिणी मातुलानां च सोदराणां च वा द्विजाः। भूपानां मंडलीनां च सद्यो नीराष्ट्रवासिनाम्॥

केवलं द्वादशाहेन क्षत्त्रियाणां द्विजोत्तमाः। नाभिषिक्तस्य चाशौचं संप्रमादेषु वै रणे॥
वैश्यः पंचदशाहेन शूद्रो मासेन शुध्यति। इति संक्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा ॥

लिङ्गपुराण/पूर्वभाग/८९/७६ – ९२

गरुडपुराण

अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् । दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः ॥
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम । आदन्तजननात् सद्य आचूडादेकरात्रकम् ॥
त्रिरात्रमौपनयनाद्दशरात्रमतः परम् । क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः ॥
शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् । रात्रिभिर्मासतुल्याभिर्गर्भस्रावेषु शौचकम् ॥

गरुडपुराण/आचारकाण्ड/५०/८३ – ५६

मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् । चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥
उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत् । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥
देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् । उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत् ॥
गुहावह्निप्रवेसे च देशान्तरमृतेषु च । स्नानं सचैलं कर्तव्यं सद्यः शौचं विधीयते ॥
आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥
शिल्पिनः कारवो वैद्या दासीदासास्तथैव च । राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥

सत्री च मन्त्रपूतश्च आहिताग्निर्नृपस्तथा । एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः ॥
प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः । दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः ॥
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके । पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत् ॥
सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम् । सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः ॥
अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥
उदिते नियमे दाने आर्ते विप्रे निवेदयेत् । तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति ॥

गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/३९/२ – १३

अग्निपुराण

प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुद्धिमेव च । दशाहं शावमाशौचं सपिण्देषु विधीयते ॥
जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम । द्वादशाहेन राजन्यः पक्षाद्वैश्योऽथ मासतः ॥
शूद्रोऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं । षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥
ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च । विट्शूद्रयोनेः शुद्धिः स्यात्क्रमात्परशुरामक ॥
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः । आदन्तजननात्सद्य आचूडान्नैशिकी श्रुतिः ॥

त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं । ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥
द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये । गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥
स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता । तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥
विवाहितासु नाशौचं पितृपक्षे विधीयते । पितुर्गृहे प्रसूतानां विशुद्धिर्नैशिकी स्मृता ॥
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा । विवाहिता हि चेत्कन्या म्रियते पितृवेश्मनि ॥
तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः । समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥

असमानं द्वितीयेन धर्मराजवचो यथा । देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥
यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् । अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥
तथा संवत्सरेऽतीते स्नात एव विशुद्ध्यति । मातामहे तथातीते आचार्ये च तथा मृते ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं । सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥
दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः । वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥

अग्निपुराण/१५७/१ – १६

स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं । रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या ॥
चातुर्मासिकपातान्ते दशाहं पञ्चमासतः । राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च ॥
अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं । स्त्रीणां विशुद्धिरुदिता स्नानमात्रेण वै पितुः ॥
न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः । सद्यः शौचं सपिण्डानामादन्तजननात्तथा ॥
आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं । दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं ॥
अजातदन्ते तु मृते कृतचूडेऽर्भके तथा । प्रेते न्यूने त्रिभिर्वर्षैर्मृते शुद्धिस्तु नैशिकी ॥

द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा । शुद्धिः शूद्रे पञ्चभिः स्यात्प्राग्विवाहद्द्विषट्त्वहः॥
यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते । तत्र शूद्रे द्वादशाहः षन्नव क्षत्रवैशय्योः ॥
द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद्भुवि । न चोदकक्रिया तस्य नाम्नि चापि कृते सति ॥
जातदन्तस्य वा कार्या स्यादुपनयनाद्दश । एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः ॥
हीने हीनतरे चैव त्र्यहश्चतुरहस्तथा । पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः ॥
क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर्युतः । दशाहात्सगुणो वैश्यो विंशाहाच्छूद्र एव च ॥

दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥
गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे । एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् ॥
दासान्तेवासिभृतकाः शिष्याश्चैवात्र वासिनः । स्वामितुल्यमशौचंस्यान्मृते पृथक्पृथग्भवेत् ॥
मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः । दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥
सर्वेषामेव वर्णानान्त्रिभागात्स्पर्शनम्भवेत् । त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु ॥
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा । अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः ॥

अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् । पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते ॥
पितृगोत्रं कुमारीणां व्यूढानां भर्तृगोत्रता । जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु ॥
दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं । सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज ॥
एकाहतो ह्याविविहादूर्ध्वं हस्तोदकात्त्र्यहं । पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः ॥
दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु । षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु ॥
एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु । अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥

परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते । वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ॥
आत्मनस्त्यागिनाञ्चैव निवर्तेतोदकक्रिया । मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ ॥
एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्। सपिण्डानामशौचं हि समानोदकतां वदे ॥
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥
दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके । त्रिरात्रेण सुकुल्यास्तु स्नानात्शुद्ध्यन्ति गोत्रिणः ॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥

जन्मनामस्मृते वैतत्तत्परं गोत्रमुच्यते । विगतन्तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशं ॥
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति । मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च ॥
मृते जामातरि प्रेते दैहित्रे भगिनीसुते । श्यालके तत्सुते चैव स्नानमात्रं विधीयते ॥
मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं । दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि ॥
उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा । सत्रिव्रति ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे ॥

दाने यज्ञे विवाहे च सद्यः शौचं विधीयते । विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां ॥
असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च । प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं ॥
अपमानात्तथा क्रोधात्स्नेहात्परिभवाद्भयात् । उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन ॥
आत्मघाती चैकलक्षं वसेत्स नरके शुचौ । वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् ॥
त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं । तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत् ॥
विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डिके। पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः ॥
पितृमात्रादिपाते तु आर्द्रवासा ह्युपोषितः ॥

अग्निपुराण/१५८/१ – ४३

यथेदं शावमाशौचं सपिण्डेषु विधीयते । जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां ॥
सर्वेषां शावमाशौचं मातापित्रोश्च सूतकं । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥
पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं । तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां ॥
मरणं मरणेनैव सूतकं सूतकेन तु । उभयोरपि यत्पूर्वं तेनाशौचेन शुद्ध्यति ॥

सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकं । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं ॥
समानं लघ्वशौचन्तु प्रथमेन समापयेत् । असमानं द्वितीयेन धर्मराजवचो यथा ॥
शावान्तः शाव आयाते पूर्वाशौचेन शुद्ध्यति । गुरुणा लघु बाध्येत लघुना नैव तद्गुरु ॥
मृतके सूतके वापि रात्रिमध्येऽन्यदापतेत् । तच्छेषेणैव सुद्ध्येरन्रात्रिशेषे द्व्यहाधिकात् ॥
प्रभाते यद्यशौचं स्याच्छुद्धेरंश्च त्रिभिर्दिनैः ॥

अग्निपुराण/१५८/६० – ६८

विष्णुधर्मोत्तरपुराण

दशाहं शावमाशौचं सपिण्डेषु विधीयते । जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ॥
द्वादशाहेन राजन्यः पक्षाद्वैश्यो विशुध्यति । मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ॥
आनुलोम्येन पत्नीनां दासीनां च भृगूत्तम । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौतुकम् ॥
षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु । ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ॥
विट्शूद्रयोनौ शुद्धिः स्यात्क्षत्त्रियस्य तथैव च । षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ॥

अदन्तजातबाले तु सद्यः शौचं विधीयते । बाले त्वकृतचूडे च विशुद्धिर्नैशिकी स्मृता ॥
तथा चानुपनीते तु त्रिरात्राच्छुद्धिरिष्यते। ततः परं दशाहेन शुद्धेयुस्तस्य बान्धवाः॥
ऊनत्रिवार्षिके शुद्धे पञ्चाहा शुद्धिरिष्यते। द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये॥
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता। स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता॥
तथा हि कृतचूडानां त्र्यहाच्छुध्यन्ति बान्धवाः। विवाहितासु नाशौचं पितृपक्षे विधीयते ॥

पितृगृहे प्रसूतायां विशुद्धिर्नैशिकी स्मृता। सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥
विवाहिताऽपि चेत्कन्या म्रियते पितृवेश्मनि। तस्यास्त्रिरात्राच्छुध्यन्ति बान्धवा नात्र संशयः ॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता। तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥
सस्नानं खलु शौचं च प्रथमेन समापयेत्। असमानं द्वितीयेन धर्मराजवचो यथा ॥
देशान्तरस्था: श्रुत्वा तु कुल्यानां मरणोद्भवौ। यच्छेषं दशरात्रस्य तावदेव शुचिर्भवेत् ॥

अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्। तथा संवत्सरेऽतीते स्नात एव च शुद्ध्यति ॥
मातामहे तथातीते आचार्ये च तथा मृते। अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥
परपूर्वासु भार्यासु त्रिरात्राच्छुद्धिरिष्यते। निवासे राजनि प्रेते मातुले श्वशुरे तथा ॥
आचार्यपत्नीपुत्रेषु शिष्ये सब्रह्मचारिणि। एकरात्रमशौचं स्यादन्नदाने तथा मृते ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम्। सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥

दशरात्रेण शुद्धयन्ति द्वादशाहेन भूमिपाः। वैश्यः पञ्चदशाहेन शूद्रो मासेन भार्गव ॥
भृग्वग्न्यनाशनांभोभिर्मृतानामात्मघातिनाम्। पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥
सती व्रती ब्रह्मचारी नृपकारकदीक्षिताः। नाशौचभाजः कथिता राजकार्यकराश्च ये ॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा। सवासा जलमाप्लुत्य घृतं प्राश्य विशुध्यति॥
मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥

विष्णुधर्मोत्तरपुराण/ खण्डः २/७५/२ – २५

आरब्धायां तु पूजायामन्तरा म्रियते यदि। तन्त्रेण सकलं कृत्वा देवदेवे समापयेत् ॥
न स्नानादिक्रिया तत्र न होमो न बलिर्महः। नैवेद्यमेकं कुर्वीत तत्तन्त्रमिति कथ्यते ॥

भार्गव तन्त्र/२२/१८-१९

आशौच परिहारार्थं योग्यतापादराय च। स्वर्णेकृत सूत्राणि धारयेयुः पृथक् पृथक् ॥
पुरुषोत्तम संहिता/२४/९०

निष्कर्ष

“शास्त्र विमुख निर्णय अधर्म की जननी है, अतः प्रमाण ही सर्वोपरि है।”

अशौच विधान केवल सूतक या पातक की गणना नहीं है, अपितु यह व्यक्ति की आध्यात्मिक और सामाजिक शुचिता के संरक्षण का शास्त्रोक्त मार्ग है। इस संकलन से यह सिद्ध होता है कि अशौच का निर्णय पंचांगों के संक्षिप्त पृष्ठों से नहीं, बल्कि स्मृतियों और पुराणों के गहन अध्ययन से होना चाहिए। “अज्ञाते पातकं नाद्ये” जैसे सूत्र बताते हैं कि धर्म सूक्ष्म है और अज्ञानता में किए गए दोष की भी व्यवस्था शास्त्रों ने दी है। यह आलेख भावी पीढ़ी के कर्मकांडियों के लिए एक प्रामाणिक संदर्भ ग्रंथ (Reference Manual) के रूप में कार्य करेगा, जिससे वे समाज को शास्त्रसम्मत और निर्भ्रांत निर्णय देने में सक्षम होंगे।

अशौच विधान
अशौच विधान

F&Q :

FAQ

प्रश्न: ‘सद्य:शौच’ (तत्काल शुद्धि) किनके लिए है?

उत्तर: राजा, व्रती (जो व्रत में दीक्षित हों), यज्ञकर्ता, चिकित्सक, शिल्पी और सरकारी कार्य में नियुक्त व्यक्तियों के लिए लोकहित में सद्य:शौच का विधान है।

प्रश्न: सपिण्डता कहाँ समाप्त होती है?

उत्तर: शास्त्रानुसार सपिण्डता सातवीं पीढ़ी (पुरुष) के पश्चात समाप्त हो जाती है।

प्रश्न: ब्राह्मण, क्षत्रिय, वैश्य और शूद्र हेतु अशौच अवधि क्या है?

उत्तर: सामान्यतः ब्राह्मण हेतु १०, क्षत्रिय हेतु १२, वैश्य हेतु १५ और शूद्र हेतु ३० दिन का विधान है।

प्रश्न: ‘पक्षिणी’ अशौच का क्या अर्थ है?

उत्तर: दो रातों के बीच का दिन या दो दिनों के बीच की रात (अर्थात १.५ दिन) की अवधि को पक्षिणी कहते हैं।

प्रश्न: देशान्तर (विदेश) में मृत्यु का समाचार मिलने पर क्या नियम है?

उत्तर: यदि १० दिन के भीतर सूचना मिले तो शेष दिनों का अशौच, और १० दिन बाद सूचना मिले तो ३ दिन का अशौच लगता है। १ वर्ष बाद मात्र स्नान से शुद्धि होती है।

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply