नवग्रह शांति उपाय – navagrah : 1st

नवग्रह शांति उपाय – navagrah

नवग्रहों के वैदिक मंत्र छन्दोगी

  1. सूर्य – ॐ उदुत्यञ्जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
  2. चन्द्र – ॐ सन्ते पयांसि समयन्तुवाजाः संवृष्ण्यान्यभिमातिषाहः आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानिधिष्व॥
  3. मङ्गल – ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥
  4. बुध – ॐ अग्ने विवश्वदुषसश्चित्रां राध्नो अमर्त्य आदाशुषे । जातवेदो वहात्वमद्या देवो उषर्बुधः ॥
  5. बृहस्पति – ॐ बृहस्पते परिदीयारथेन रक्षोहामित्राँ अपबाधमानः प्रभञ्जत्सेना: प्रमृणो युधाजयन्नस्माकं मेध्यविता रथानाम् ॥
  6. शुक्र – ॐ शुक्रन्ते अन्यद्यजन्ते अन्यद्विषुरूपे अहनी द्यौरिवासि विश्वाहि माया। अवासि स्वधावन् भद्रा ते पूषन्निह रातिरस्तु ॥
  7. शनि – ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये संयोरभिस्रवन्तु नः ॥
  8. राहु – ॐ कयानचित्र आभुवदूती सदावृधः सखा। कया शचिष्ठ्या वृता ॥
  9. केतु – ॐ केतु कृण्वन्न केतवे पेशोमर्या अपेशसे। समुषद्भिरजायथाः ॥

नवग्रहों के पौराणिक मंत्र

  1. सूर्य : जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥
  2. चन्द्र : दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥
  3. मङ्गल : धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥
  4. बुध : प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥
  5. गुरु : देवानाञ्च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥
  6. शुक्र : हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥
  7. शनि : नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥
  8. राहु : अर्द्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥
  9. केतु : पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥

नवग्रहों के तांत्रिक मंत्र

  1. सूर्य : ॐ ह्रां ह्रीं हौं सः सूर्याय नमः॥
  2. चन्द्र : ॐ श्रां श्रीं श्रौं सः चन्द्रमसे नमः॥
  3. मङ्गल : ॐ क्रां क्रीं क्रौं सः भौमाय नमः॥
  4. बुध : ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः॥
  5. गुरु : ॐ ग्रां ग्रीं ग्रौं सः गुरवे नमः॥
  6. शुक्र : ॐ द्रां द्रीं द्रौं सः शुक्राय नमः॥
  7. शनि : ॐ प्रां प्रीं प्रौं सः शनये नमः॥
  8. राहु : ॐ भ्रां भ्रीं भ्रों सः राहवे नमः॥
  9. केतु : ॐ स्रां स्रीं स्रों सः केतवे नमः॥

Leave a Reply