सप्तमोऽध्यायः
आसीद् वंशध्वजो राजा प्रजापालनतत्परः । प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ॥१६३॥
एकदा स वनं गत्वा हत्वा बहुविधान् मृगान् । आगत्य वटमूले च दृष्ट्वा सत्यस्य पूजनम् ॥१६४॥
गोपाः कुर्वन्ति सन्तुष्टाः नृत्य-गीतपरायणाः (राजा दृष्ट्वा तु दर्पेण नाऽऽगतो न ननाम सः) ॥१६५॥
ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ । संस्थाप्य पुनरागत्य भुक्त्वा सर्वेर्यथेप्सितम् ॥१६६॥
तत्प्रसादं परित्यज्य राजा दुःखमवाप्तवान् । तस्य पुत्रशतं नष्टं धनधान्यादिकञ्च यत् ॥१६७॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह । भक्ति-श्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥१६८॥
तद्व्रत्तस्य प्रभावेण धनपुत्रान्वितोऽभवत् । इह लोके सुखं भुक्त्वा पश्चात् सत्यपुरं ययौ ॥१७९॥
माहात्म्य –
य इदं कुरुते सत्यव्रतं परमदुर्लभम् । शृणोति च कथां पुण्यां भक्तियुक्तेन चेतसा ॥१॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः । दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥२॥
भीतो भयात् प्रमुच्येत सत्यमेव न संशयः । ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं व्रजेत् ॥३॥
इति वः कथितं विप्राः सत्यनारायणव्रतम् । यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥४॥
विशेषतः कलियुगे सत्यपूजा फलप्रदा । केचित् कालं वदिष्यन्ति सत्यमीशं तमेव हि ॥५॥
सत्यनारायणं केचित् सत्यदेवं तथाऽपरे । नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥७॥
य इदं पठते नित्यं शृणोति मुनिसत्तमाः । तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥८॥
[ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां सप्तमोऽध्यायः ]
विशेष आग्रह : उपरोक्त श्री सत्यनारायण व्रत कथा में कहीं कोई अशुद्धि दृष्टिगत हो तो टिपण्णी करके …. अवश्य सूचित करें।
अध्याय : प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।