यदि हम भगवान विष्णु के नाम स्तोत्र की बात करें तो अनेकानेक नाम स्तोत्र मिलते हैं और इस आलेख की विशेषता यह है कि यहां भगवान विष्णु के अनेकों नाम स्तोत्र संकलित किये गये हैं यथा : विष्णोरष्टनामस्तोत्रम्, विष्णोरेकादशनामस्तोत्रं, विष्णु षोडश नाम स्तोत्र, श्रीविष्णुनामाष्टकं और विष्णोरष्टाविंशतिनामस्तोत्रम्। इसके अतिरिक्त नरसिंह पुराण में एक महादेवोक्त श्रीविष्णोर्नामस्तोत्रम् भी मिलता है और यहां विष्णु नाम स्तोत्र (vishnu naam stotra) भी संस्कृत में दिया गया है।
अनेकानेक विष्णु नाम स्तोत्र – vishnu naam stotra
विष्णु अष्टनाम स्तोत्र भगवान विष्णु के 8 नाम इस प्रकार कहे गये हैं : अच्युतं, केशवं, विष्णुं, हरिं, सत्यं, जनार्दनं, हंसं और नारायणं।
श्रीविष्णोरष्टनामस्तोत्रम्
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥१॥
त्रिसंध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति ।
शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥२॥
गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे ।
ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः ॥३॥
॥ इति श्रीवामनपुराणे श्रीविष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ॥
विष्णोरेकादशनामस्तोत्रं – 1
राम नारायणानन्त मुकुन्द मधुसूदन ।
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ॥१॥
इत्येकादशनामानि पठेद्वा पाठयेद्यतः ।
जन्मकोटिसहस्राणां पातकादेव मुच्यते ॥२॥
॥ इति श्रीविष्णोरेकादशनामस्तोत्रं सम्पूर्णम् ॥
विष्णोरेकादशनामस्तोत्रं – 2
हरे मुरारे मधुकैटभारे
गोपाल गोविन्द मिकुन्द शौरे ।
यज्ञेश नारायण कृष्ण विष्णो
निराश्रयं मां जगदीश रक्ष ॥
॥ इति श्रीविष्णोरेकादशनामस्तोत्रं सम्पूर्णम् ॥
विष्णु षोडश नाम स्तोत्र
औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥१॥
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥२॥
दुःस्वप्ने स्मर गोविंदं संकटे मधुसूदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥३॥
जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ॥४॥
षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् ।
सर्वपापविर्निमुक्तो विष्णुलोके महीयते ॥५॥
॥ इति श्रीविष्णोः षोडशनामस्तोत्रं सम्पूर्णम् ॥
श्रीविष्णुनामाष्टकं
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥१॥
त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति ।
शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥२॥
गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे ।
ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः ॥
॥ इति श्रीविष्णुनामाष्टकं सम्पूर्णम् ॥
विष्णोरष्टाविंशतिनामस्तोत्रम्
अर्जुन उवाच
किं नु नाम सहस्राणि जपते च पुनः पुनः ।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥१॥
श्रीभगवानुवाच मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥२॥
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥३॥
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥४॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।
गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥५॥
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ।
अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥६॥
सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च ।
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥७॥
॥ इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥
महादेवोक्त श्रीविष्णोर्नामस्तोत्रम्
श्रीमहादेव उवाच
विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः ।
प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥१॥
केशवः केशिहा कल्पः सर्वकारणकारणम् ।
कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥२॥
आदिकर्ता वराहश्च माधवो मधुसूदनः ।
नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥३॥
ज्योतिष्मान् द्युतिमान् श्रीमान् आयुष्मान् पुरुषोत्तमः ।
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥४॥
नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः ।
आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥५॥
गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ।
पद्मनाभो हृषीकेशो विभुर्दामोदरो हरिः ॥६॥
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ।
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥७॥
भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः ।
कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥८॥
संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः ।
बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः ॥९॥
भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ।
तपोवासो दमो वासः सत्यवासः सनातनः ॥१०॥
पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः ।
पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥११॥
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली ।
किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥१२॥
जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः ।
शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥१३॥
सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ।
सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥१४॥
स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः ।
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥१५॥
स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वमग्नयः ॥१६॥
त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम ।
नमो देवादिदेवाय विष्णवे शाश्वताय च ॥१७॥
अनन्तायाप्रमेयाय नमस्ते गरुडध्वज ।
मार्कण्डेय उवाच इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥१८॥
उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः ।
॥ इति श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।