कालिका रहस्य में हनुमान जी का जो अष्टोत्तरशतनाम स्तोत्र मिलता है उसका नाम आञ्जनेय अष्टोत्तर शतनाम स्तोत्र (anjaneya ashtottara shatanama stotram) है। यहां संस्कृत में आञ्जनेय अष्टोत्तर शतनाम स्तोत्र और पुनः आञ्जनेय अष्टोत्तर शतनामावली दिया गया है।
आञ्जनेय अष्टोत्तर शतनाम स्तोत्र – anjaneya ashtottara shatanama stotram
ॐ मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥
ॐ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः ।
तत्त्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥१॥
अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः ।
सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥२॥
परविद्यापरीहारः परशौर्यविनाशनः ।
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥३॥
सर्वग्रहविनाशी च भीमसेनसहायकृत् ।
सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥४॥
पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् ।
सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥५॥
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः ।
बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥६॥
कपिसेनानायकश्च भविष्यच्चतुराननः ।
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥७॥
सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः ।
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥८॥
कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः ।
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥९॥
वानरः केसरिसुतः सीताशोकनिवारकः ।
अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥१०॥
विभीषणप्रियकरो दशग्रीवकुलान्तकः ।
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥११॥
चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः ।
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥१२॥
लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः ।
गन्धमादनशैलस्थो लङ्कापुरविदाहकः ॥१३॥
सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः ।
सुरार्चितो महातेजा रामचूडामणिप्रदः ॥१४॥
कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः ।
कबलीकृतमार्तण्डमण्डलो विजितेन्द्रियः ॥१५॥
रामसुग्रीवसन्धाता महारावणमर्दनः ।
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥१६॥
चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः ।
सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥१७॥
कालनेमिप्रमथनो हरिमर्कटमर्कटः ।
दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत् ॥१८॥
योगी रामकथालोलः सीतान्वेषणपण्डितः ।
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥१९॥
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः ।
पार्थध्वजाग्रसंवासी शरपञ्जरभेदकः ॥२०॥
दशबाहुलोर्कपूज्यो जाम्बवत्प्रीति वर्धनः ।
सीतासमेत श्रीरामभद्रपूजाधुरन्धरः ॥२१॥
इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ॥
यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥२२॥
॥ इति श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
श्रीमदाञ्जनेयाष्टोत्तरशतनामावली
- ॐ आञ्जनेयाय नमः ॥
- ॐ महावीराय नमः ॥
- ॐ हनूमते नमः ॥
- ॐ मारुतात्मजाय नमः ॥
- ॐ तत्त्वज्ञानप्रदाय नमः ॥
- ॐ सीतादेवीमुद्राप्रदायकाय नमः ॥
- ॐ अशोकवनिकाच्छेत्रे नमः ॥
- ॐ सर्वमायाविभञ्जनाय नमः ॥
- ॐ सर्वबन्धविमोक्त्रे नमः ॥
- ॐ रक्षोविध्वंसकारकाय नमः ॥
- ॐ परविद्यापरिहर्त्रे नमः ॥
- ॐ परशौर्यविनाशनाय नमः ॥
- ॐ परमन्त्रनिराकर्त्रे नमः ॥
- ॐ परयंत्रप्रभेदकाय नमः ॥
- ॐ सर्वग्रहविनाशकाय नमः ॥
- ॐ भीमसेनसहाय्यकृते नमः ॥
- ॐ सर्वदुःखहराय नमः ॥
- ॐ सर्वलोकचारिणे नमः ॥
- ॐ मनोजवाय नमः ॥
- ॐ पारिजातद्रुमूलस्थाय नमः ॥
- ॐ सर्वमंत्रस्वरूपवते नमः ॥
- ॐ सर्वतंत्रस्वरूपिणे नमः ॥
- ॐ सर्वयन्त्रात्मिकाय नमः ॥
- ॐ कपीश्वराय नमः ॥
- ॐ महाकायाय नमः ॥
- ॐ सर्वरोगहराय नमः ॥
- ॐ प्रभवे नमः ॥
- ॐ बलसिद्धिकराय नमः ॥
- ॐ सर्वविद्यासम्पत्प्रदायकाय नमः ॥
- ॐ कपिसेनानायकाय नमः ॥
- ॐ भविष्यच्चतुराननाय नमः ॥
- ॐ कुमारब्रह्मचारिणे नमः ॥
- ॐ रत्नकुण्डलदीप्तिमते नमः ॥
- ॐ चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलाय नमः ॥
- ॐ गन्धर्वविद्यातत्त्वज्ञाय नमः ॥
- ॐ महाबलपराक्रमाय नमः ॥
- ॐ कारागृहविमोक्त्रे नमः ॥
- ॐ शृंखलाबन्धमोचकाय नमः ॥
- ॐ सागरोत्तारकाय नमः ॥
- ॐ प्राज्ञाय नमः ॥
- ॐ रामदूताय नमः ॥
- ॐ प्रतापवते नमः ॥
- ॐ वानराय नमः ॥
- ॐ केसरीसूनवे नमः ॥
- ॐ सीताशोकनिवारणाय नमः ॥
- ॐ अञ्जनागर्भसंभूताय नमः ॥
- ॐ बालार्कसदृशाननाय नमः ॥
- ॐ विभीषणप्रियकराय नमः ॥
- ॐ दशग्रीवकुलांतकाय नमः ॥
- ॐ लक्ष्मणप्राणदात्रे नमः ॥
- ॐ वज्रकायाय नमः ॥
- ॐ महाद्युतये नमः ॥
- ॐ चिरञ्जीविने नमः ॥
- ॐ रामभक्ताय नमः ॥
- ॐ दैत्यकार्यविघातकाय नमः ॥
- ॐ अक्षहन्त्रे नमः ॥
- ॐ काञ्चनाभाय नमः ॥
- ॐ पञ्चवक्त्राय नमः ॥
- ॐ महातपसे नमः ॥
- ॐ लंकिणीभञ्जनाय नमः ॥
- ॐ श्रीमते नमः ॥
- ॐ सिंहिकाप्राणभञ्जनाय नमः ॥
- ॐ गन्धमादनशैलस्थाय नमः ॥
- ॐ लंकापुरविदाहकाय नमः ॥
- ॐ सुग्रीवसचिवाय नमः ॥
- ॐ धीराय नमः ॥
- ॐ शूराय नमः ॥
- ॐ दैत्यकुलान्तकाय नमः ॥
- ॐ सुरार्चिताय नमः ॥
- ॐ महातेजसे नमः ॥
- ॐ रामचूडामणिप्रदाय नमः ॥
- ॐ कामरूपिणे नमः ॥
- ॐ पिङ्गलाक्षाय नमः ॥
- ॐ वर्धिमैनाकपूजिताय नमः ॥
- ॐ कबलीकृतमार्ताण्डमण्डलाय नमः ॥
- ॐ विजितेन्द्रियाय नमः ॥
- ॐ रामसुग्रीवसंधात्रे नमः ॥
- ॐ महिरावणमर्दनाय नमः ॥
- ॐ स्फटिकाभाय नमः ॥
- ॐ वागधीशाय नमः ॥
- ॐ नवव्याकृतिपण्डिताय नमः ॥
- ॐ चतुर्बाहवे नमः ॥
- ॐ दीनबन्धवे नमः ॥
- ॐ महात्मने नमः ॥
- ॐ भक्तवत्सलाय नमः ॥
- ॐ संजीवननगाहर्त्रे नमः ॥
- ॐ शुचये नमः ॥
- ॐ वाग्मिने नमः ॥
- ॐ धृतव्रताय नमः ॥
- ॐ कालनेमिप्रमथनाय नमः ॥
- ॐ हरिर्मर्कट मर्कटाय नमः ॥
- ॐ दान्ताय नमः ॥
- ॐ शान्ताय नमः ॥
- ॐ प्रसन्नात्मने नमः ॥
- ॐ दशकण्ठमदापहाय नमः ॥
- ॐ योगिने नमः ॥
- ॐ रामकथालोलाय नमः ॥
- ॐ सीतान्वेषणपण्डिताय नमः ॥
- ॐ वज्रदंष्ट्राय नमः ॥
- ॐ वज्रनखाय नमः ॥
- ॐ रुद्रवीर्यसमुद्भवाय नमः ॥
- ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकाय नमः ॥
- ॐ पार्थध्वजाग्रसंवासाय नमः ॥
- ॐ शरपञ्जरहेलकाय नमः ॥
- ॐ दशबाहवे नमः ॥
- ॐ लोकपूज्याय नमः ॥
- ॐ जाम्बवत्प्रीतिवर्धनाय नमः ॥
- ॐ सीतासमेतश्रीरामपादसेवाधुरंधराय नमः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।