हनुमान जी की माता का नाम अंजना है और अञ्जना के पुत्र होने से हनुमान जी का ही एक नाम आञ्जनेय है। आञ्जनेय नाम से हनुमान जी के अनेकानेक स्तोत्र (anjaneya stotra) मिलते हैं और यहां संग्रह करने का प्रयास किया गया है। सर्वप्रथम आंजनेय द्वादश नाम स्तोत्रम्, तदनंदर नीलकृत आञ्जनेय स्तोत्रम्, पुनः एक अन्य आंजनेय स्तोत्र और अंत में श्री आञ्जनेयमङ्गलाष्टकम् दिया गया है। सभी स्तोत्र संस्कृत में हैं।
आंजनेय स्तोत्र – anjaneya stotra
॥ आंजनेय द्वादश नाम स्तोत्रम् ॥
हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥
उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥
द्वादशैतानि नामानि कपींद्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥
॥ नीलकृत आञ्जनेय स्तोत्रम् ॥
ॐ जय जय । श्रीआञ्जनेय । केसरीप्रियनन्दन । वायुकुमार । ईश्वरपुत्र ।
पार्वतीगर्भसम्भूत । वानरनायक । सकलवेदशास्त्रपारग ।
सञ्जीवनीपर्वतोत्पाटन । लक्ष्मणप्राणरक्षक । गुहप्राणदायक ।
सीतादुःखनिवारक । धान्यमाली शापविमोचन । दुर्दण्डीबन्धविमोचन ।
नीलमेघराज्यदायक । सुग्रीवराज्यदायक । भीमसेनाग्रज ।
धनञ्जयध्वजवाहन । कालनेमिसंहार । मैरावणमर्दन ।
वृत्रासुरभञ्जन । सप्तमन्त्रिसुतध्वंसन । इन्द्रजिद्वधकारण ।
अक्षकुमारसंहार । लङ्किणीभञ्जन । रावणमर्दन ।
कुम्भकर्णवधपरायण । जम्बुमालिनिषूदन । वालिनिबर्हण ।
राक्षसकुलदाहन । अशोकवनविदारण । लङ्कादाहक ।
शतमुखवधकारण । सप्तसागरवालसेतुबन्धन ।
निराकार-निर्गुण-सगुणस्वरूप । हेमवर्णपीताम्बरधर ।
सुवर्चलाप्राणनायक । त्रिंशत्कोट्यर्बुदरुद्रगणपोषक ।
भक्तपालनचतुर । कनककुण्डलाभरण ।
रत्नकिरीटहारनूपुरशोभित । रामभक्तितत्पर ।
हेमरम्भावनविहार वक्षताङ्कितमेघवाहक ।
नीलमेघश्याम । सूक्ष्मकाय । महाकाय । बालसूर्यग्रसन ।
ऋष्यमूकगिरिनिवासक । मेरुपीठकार्चन । द्वात्रिशदायुधधर ।
चित्रवर्ण । विचित्रसृष्टिनिर्माणकर्त्रे । अनन्तनाम ।
दशावतार । अघटनघटनासमर्थ । अनन्तब्रह्मन् ।
नायक । दुर्जनसंहार । सुजनरक्षक । देवेन्द्रवन्दित ।
सकललोकाराध्य । सत्यसङ्कल्प । भक्तसङ्कल्पपूरक ।
अतिसुकुमारदेह । अकर्दमविनोदलेपन । कोटिमन्मथाकार ।
रणकेलिमर्दन । विजृम्भमाणसकललोककुक्षिम्भर ।
सप्तकोटिमहामन्त्रतन्त्रस्वरूप ।
भूतप्रेतपिशाचशाकिनीडाकिनीविध्वंसन ।
शिवलिङ्गप्रतिष्ठापनकारण । दुष्कर्मविमोचन ।
दौर्भाग्यनाशन । ज्वरादिसकलरोगहर । भुक्तिमुक्तिदायक ।
कपटनाटकसूत्रधारिन् । तलाविनोदाङ्कित । कल्याणपरिपूर्ण ।
मङ्गलप्रद । गानलोल । गानप्रिय । अष्टाङ्गयोगनिपुण ।
सकलविद्यापारीण । आदिमध्यान्तरहित । यज्ञकर्त्रे ।
यज्ञभोक्त्रे । षण्मतवैभवसानुभूतिचतुर । सकललोकातीत ।
विश्वम्भर । विश्वमूर्ते । विश्वाकार । दयास्वरूप ।
दासजनहृदयकमलविहार । मनोवेगगमन । भावज्ञनिपुण ।
ऋषिगणगेय । भक्तमनोरथदायक । भक्तवत्सल ।
दीनपोषक । दीनमन्दार । सर्वस्वतन्त्र । शरणागतरक्षक ।
आर्तत्राणपरायण । एक असहायवीर । हनुमन् विजयीभव ।
दिग्विजयीभव । दिग्विजयीभव ।
॥ इति नीलकृतं श्रीआञ्जनेयस्तोत्रम् ॥
॥ श्री आञ्जनेय स्तोत्रम् ॥
रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं
रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादिवक्त्रम् ।
रं रं रं राजयोगं सकलशुभनिथिं सप्तभेतालभेद्यं
रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि ॥१॥
खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं
खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाश ।
खं खं खं कल्पवृक्षं मणिमयमकुटं मायमायास्वरूपं
खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥२॥
इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं
इं इं इं सिद्धयोगं नतजनसदयं आर्यपूजार्चिताङ्गम् ।
इं इं इं सिंहनादं अमृतकरतलं आदि अन्त्यप्रकाशं
इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥३॥
सं सं सं साक्षिरूपं विकसितवदनं पिङ्गालाक्षं सुरक्षं
सं सं सं सत्यगीतं सकल मुनिस्तुतं शास्त्रसम्पत्करीयम् ।
सं सं सं सामवेदं निपुणसुललितं नित्यतत्त्वं स्वरूपं
सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥४॥
हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं
हं हं हं अन्तरात्मं रविशशिनयनं रम्यगम्भीरभीमम् ।
हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं
हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥५॥
॥ इति आञ्जनेयस्तोत्रं सम्पूर्णम् ॥
॥ श्री आञ्जनेयमङ्गलाष्टकम् ॥
कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे ।
जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥१॥
मनोवेगाय उग्राय कालनेमिविदारिणे ।
लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥२॥
महाबलाय शान्ताय दुर्दण्डीबन्धमोचन ।
मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥३॥
पर्वतायुधहस्ताय राक्षःकुलविनाशिने ।
श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥४॥
विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे ।
ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥५॥
दीर्घबालाय कालाय लङ्कापुरविदारिणे ।
लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥६॥
नमस्ते ब्रह्मचर्याय नमस्ते वायुनन्दन ।
नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥७॥
प्रभवाय सुरेशाय शुभदाय शुभात्मने ।
वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥८॥
आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥९॥
॥ इति श्रीआञ्जनेयमङ्गलाष्टकं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।