भगवान विष्णु की स्तुति करने का सबसे महत्वपूर्ण पहलू यह है कि यह भक्त और भगवान के बीच एक सीधा और भावनात्मक संबंध स्थापित करता है। स्तुति के माध्यम से भक्त अपनी श्रद्धा, प्रेम और भक्ति को व्यक्त करते हैं। यह हृदय को शुद्ध करता है और मन को शांति प्रदान करता है। विभिन्न पुराणों में भगवान विष्णु के अनेकानेक स्तुतियां (bhagwan vishnu stuti) मिलते हैं और उनमें से कुछ विशेष महत्वपूर्ण स्तुतियों का यहां संकलन किया गया है। यहां जो स्तुतियां संकलित की गयी है वो इस प्रकार है :
- गर्गसंहितोक्त विष्णु स्तुति
- मुचुकुन्द कृत भगवत महापुराणोक्त विष्णु स्तुति
- ब्रह्मा कृत भगवत महापुराणोक्त विष्णु स्तुति
- पराशर कृत विष्णु पुराणोक्त विष्णु स्तुति
- शौनक कृत नारद पुराणोक्त विष्णु स्तुति
भगवान विष्णु स्तुति संस्कृत में – bhagwan vishnu stuti
कक्षीवानुवाच
वासुदेव नमस्तेऽस्तु गोविन्द पुरुषोत्तम ।
दीनवत्सल दीनेश द्वारकेश परेश्वर ॥१॥
ध्रुवे ध्रुवपदं दात्रे प्रह्लादस्यार्तिहारिणे ।
गजस्योद्धारिणे तुभ्यं बलेर्बलिविदे नमः ॥२॥
द्रौपदीचीरसन्तानकारिणे हरये नमः ।
गराग्निवनवासेभ्यः पाण्डवानां सहायिने ॥३॥
यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे ।
गुरुमातृद्विजानां च पुत्रदात्रे नमो नमः ॥४॥
जरासन्धनिरोधार्तनृपाणां मोक्षकारिणे ।
नृगस्योद्धारिणे साक्षात्सुदाम्नो दैन्यहारिणे ॥५॥
वासुदेवाय कृष्णाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ॥६॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥७॥
॥ इति गर्गसंहितायां द्वारकाखण्डे द्वादशाध्यायान्तर्गता त्रितमुनिशिष्येन कक्षीवता कृता विष्णुस्तुतिः सम्पूर्णा ॥
मुचुकुन्द कृत भगवत महापुराणोक्त विष्णु स्तुति
विमोहितोऽयं जन ईश मायया
त्वदीयया त्वां च भजत्यनर्थदृक् ।
सुखाय दुःखप्रभवेषु सज्जते
गृहेषु योषित्पुरुषश्च वञ्चितः ॥१॥
लब्ध्वा जनो दुर्लभमत्र मानुषं
कथञ्चिदव्यङ्गमयत्नतोऽनघ ।
पादारविन्दं न भजत्यसन्मति-
र्गृहान्धकूपे पतितो यथा पशुः ॥२॥
ममैष कालोऽजित निष्फलो गतो
राज्यश्रियोन्नद्धमदस्य भूपते ।
मर्त्यात्मबुद्धेः सुतदारकोशभू-
ष्वासज्जमानस्य दुरन्तचिन्तया ॥३॥
कलेवरेऽस्मिन् घटकुड्यसन्निभे
निरूढमानो नरदेव इत्यहम् ।
वृतो रथेभाश्वपदात्यनीकपैर्गां
पर्यटंस्त्वागणयन् सुदुर्मदः ॥४॥
प्रमत्तमुच्चैरिति कृत्यचिन्तया
प्रभुद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्तः सहसाऽभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥५॥
पुरा रथैर्हेमपरिष्कृतैश्चरन्
मतङ्गजैर्वा नरदेवसंज्ञितः ।
स एव कालेन दुरत्ययेन ते
कलेवरो विट्कृमिभस्मसंज्ञितः ॥६॥
निर्जित्य दिक्चक्रमभूतविग्रहो
वरासनस्थः समराजवन्दितः ।
गृहेषु मैथुन्यसुखेषु योषितां
क्रीडामृग पूरुष ईश नीयते ॥७॥
करोति कर्माणि तपःसु निष्ठितो
निवृत्तभोगस्तदपेक्षया ददत् ।
पुनश्च भूयेयमहं स्वराडिति
प्रबुद्धतर्षो न सुखाय कल्पते ॥८॥
भवापवर्गो भ्रमतो यदा भवे-
ज्जनस्य तर्ह्यच्युत सत्समागमः ।
सत्सङ्गमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते मतिः ॥९॥
मन्ये ममानुग्रह ईश ते कृतो
राज्यानुबन्धापगमो यदृच्छया ।
यः प्रार्थ्यते साधुभिरेकचर्यया
वनं विविक्षद्भिरखण्डभूमिपैः ॥१०॥
न कामयेऽन्यं तव पादसेवनाद्-
अकिञ्चनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वां ह्यपवर्गदं हरे
वृणीत आर्यो वरमात्मबन्धनम् ॥११॥
तस्माद्विसृज्याशिष ईश सर्वतो
रजस्तमःसत्त्वगुणानुबन्धनाः ।
निरञ्जनं निर्गुणमद्वयं परं
त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥१२॥
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैः
अवितृषषडमित्रो लब्धशान्तिः कथञ्चित् ।
शरणद समुपेतस्त्वत्पदाब्जं परात्मन्
अभयममृतमशोकं पाहि माऽऽपन्नमीश ॥१३॥
॥ इति श्रीमद्भागवतान्तर्गता मुचुकुन्दकृता श्रीविष्णुस्तुतिः सम्पूर्णा ॥
ब्रह्मा कृत भगवत महापुराणोक्त विष्णु स्तुति
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम् ।
नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
मायागुणव्यतिकराद्यदुरुर्विभासि ॥१॥
रूपं यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमसः सदनुग्रहाय ।
आदौ गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम् ॥२॥
नातः परं परम यद्भवतः स्वरूपं
आनन्दमात्रमविकल्पमविद्धवर्चः ।
पश्यामि विश्वसृजमेकमविश्वमात्मन्
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥३॥
तद्वा इदं भुवनमङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम् ।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं
योऽनादृतो नरकभाग्भिरसत्पसङ्गैः ॥४॥
ये तु त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥५॥
तावद्भयं द्रविणगेहसुहृन्निमित्तं
शोकः स्पृहा परिभवो विपुलश्च लोभः ।
तावन्ममेत्यसदवग्रह आर्तिमूलं
यावन्न तेंऽङ्घ्रिमभयं प्रवृणीत लोकः ॥६॥
दैवेन ते हतधियो भवतः प्रसङ्गात्
सवाशुभोपशमनाद्विमुखेन्द्रिया ये ।
कुर्वन्ति कामसुखलेशलवाय दीनाः
लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥७॥
क्षुत्तृट्त्रिधातुभिरिमा ग्ररर्द्यमानाः
शीतोष्णवातवर्षैरितरेतराच्च ।
कामाग्निनाऽच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मन उरुक्रम सीदते मे ॥८॥
यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ-
मायाबलं भगवतो जन ईश पश्येत् ।
तावन्न संसृतिरसौ प्रतिसङ्क्रमेत
व्यर्थापि दुःरवनिवहं वहती क्रियार्था ॥९॥
अह्न्यापृतार्तकरणा निशि निःशयाना
नानामनोरथधिया क्षणभग्रनिद्राः ।
दैवाहताथर्रचना त्रदषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥१०॥
त्वं भावयोगपरिभावितहृत्सरोजः
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
यद्यद्धिया त उरुगाय विभावयन्ति
तत्तद्वपुः प्रणयसे सदनुग्रहाय ॥११॥
नातिप्रसीदति तथोपचितोपचारैः
आराधितः सुरगणैर्हृदि बद्धकामैः ।
यत्सर्वभूतदययाऽसदलभ्ययैको
नानाजनेष्ववहितः सुहृदन्तरात्मा ॥१२॥
पुंसामतो विविधकर्मभिरध्वराद्यैः
दानेन चोग्रतपसा व्रतचर्यया च ।
आराधनं भगवतस्तव सत्क्रियार्थो
धर्मोऽर्पितः कर्हिचिद्ध्रियते न यत्र ॥१३॥
शश्वत्स्वरूपमहसैव निपीतभेद-
मोहाय बोधधिषणाय नमः परस्मै ।
विश्वोद्भवस्थितिलयेषु निमित्तलीला-
रासाय ते नम इदं चकृमेश्वराय ॥१४॥
यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
तेनैकजन्मशमलं सहसैव हित्वा
सयान्त्यपावृतमृतं तमजं प्रपद्ये ॥१५॥
यो वा अहं च गिरिशश्च विभुः स्वयं च
स्थित्युद्भवप्रलयहेतव आत्ममूलम् ।
भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहः
तस्मै नमो भगवते भुवनद्रुमाय ॥१६॥
लोको विकर्मनिरतः कुशले प्रमत्तः
कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥१७॥
यस्माद्विभेम्यहमपि द्विपरार्धधिष्ण्य-
मध्यासितः सकललोकनमस्कृतं यत् ।
तेपे तपो बहुसवोऽवरुरुत्समानः
तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥१८॥
तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-
ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः ।
रेमे निरस्तरतिरप्यवरुद्धदेहः
तस्मै नमो भगवते पुरुषोत्तमाय ॥१९॥
योऽविद्ययाऽनुपहतोऽपि दशार्धवृत्त्या
निद्रामुवाह जठरीकृतलोकयात्रः ।
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां
भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥२०॥
यन्नाभिपद्मभवनादहमासमीड्य
लोकत्रयोपकरणो यदनुग्रहेण ।
तस्मै नमस्त उदरस्थभवाय योग-
निद्रावसानविकसन्नलिनेक्षणाय ॥२१॥
सोऽयं समस्तजगतां सुहृदेक आत्मा
सत्त्वेन यन्मृडयते भगवान्भगेन ।
तेनैव मे दृशमनुस्पृशताद्यथाहं
स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥२२॥
एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या
यद्यत्करिष्यति गृहीतगुणावतारः ।
तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो
युञ्जीत कर्मशमलं च यथा विजह्याम् ॥२३॥
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो
विज्ञानशक्तिरहमासमनन्तशक्तेः ।
रूपं विचित्रमिदमस्य विवृण्वतो मे
मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥२४॥
सोऽसावदभ्रकरुणो भगवान् विवृद्ध-
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिराऽपनयतात् पुरुषः पुराणः ॥२५॥
॥ इति श्रीमद्भागवतान्तर्गता ब्रह्मकृता श्रीविष्णुस्तुतिः सम्पूर्णा ॥
पराशर कृत विष्णु पुराणोक्त विष्णु स्तुति
पराशर उवाच
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने
विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यस्स्थितोऽमलधियां पुंसां ददात्यव्ययः
किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्त्तिते ॥
यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो
यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ।
यं सञ्चिन्त्य न जायते न म्रियते नो वर्द्धते हीयते
नैवासन्न च सद्भवत्यति ततः किं वा हरेश्श्रूयताम् ॥
कव्यं यः पितृरूपधृग्विधिहुतं हव्यं च भुङ्क्ते विभुः
देवत्वे भगवाननादिनिधनस्स्वाहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां
विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥
नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु
यस्तं नतोऽस्मि पुरुषोत्तममीशमीड्यम् ॥
तस्यैव योऽनु गुमभुग्बहुधैक एव शुद्धो-
अप्यशुद्ध इव भाति हि मूर्त्तिभेदैः ।
ज्ञानान्वितस्सकलसत्त्वविभूतिकर्त्ता
तस्मै नमोऽस्तु पुरुषाय सदाऽव्ययाय ॥
ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो
भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवभावनकारणाय
वन्दे स्वरूपभवनाय सदाऽजराय ॥
व्योमानिलाग्निजलभूरचनामयाय
शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसस्समस्तकरणैरुपकारकाय
व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥
इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां स सिद्धिम् ॥
॥ इति श्रीविष्णुमहापुराणे षष्ठांशे अष्टमाध्यायान्तर्गता पराशरमुनिप्रोक्ता विष्णुस्तुतिः सम्पूर्णा ॥
शौनक कृत नारद पुराणोक्त विष्णु स्तुति
ऋषय ऊचुः
कथं सनत्कुमारस्तु नारदाय महात्मने ।
प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥१॥
कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ ।
हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥२॥
सूत उवाच
सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः ।
निर्ममा निरहङ्काराः सर्वे ते ह्यूर्ध्वरेतसः ॥३॥
तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः ।
सनत्कुमारश्च विभुः सनातन इति स्मृताः ॥४॥
विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ।
सहस्रसूर्यसङ्काशाः सत्यसन्धा मुमुक्षवः ॥५॥
एकदा मेरुशृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् ।
इष्टां मार्गेऽथ ददृशुः गङ्गां विष्णुपदीं द्विजाः ॥६॥
तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् ।
एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥७॥
आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रातॄन्स्वकाग्रजान् ।
तान्दृष्ट्वा स्नातुमुद्युक्तान्नमस्कृत्य कृताञ्जिलिः ॥८॥
गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः ।
नारायणाच्युतानन्त वासुदेव जनार्दन ॥९॥
यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ॥
पद्माक्ष कमलाकान्त गङ्गाजनक केशव ।
क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ॥१०॥
श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसङ्कर्षण वासुदेव ।
अजानिरुद्धामलरुङ्मुरारे त्वं पाहि नः सर्वभयादजस्रम् ॥११॥
इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् ।
उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥१२॥
तेषां चापि तु सीताया जले लोकमलापहे ।
स्नात्वा सन्तर्प्य देवर्षिपितॄन्विगतकल्मषाः ॥१३॥
उत्तीर्य्य सन्ध्योपास्यादि कृत्वाऽऽचारं स्वकं द्विजाः ।
कथां प्रचक्रुर्विविधाः नारायणगुणाश्रिताः ॥१४॥
कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे ।
चकार नारदः प्रश्नं नानाख्यानकथान्तरे ॥१५॥
नारद उवाच
सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः ।
यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥१६॥
लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् ।
पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥१७॥
येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ।
गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥१८॥
कथं च त्रिविधं कर्म सफलं जायते नृणाम् ।
ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ॥१९॥
अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ॥
एवमादीनि गुह्यानि हरितुष्टिकराणि च ।
अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥२०॥
शौनक उवाच
नमः पराय देवाय परस्मात्परमाय च ।
परावरनिवासाय सगुणायागुणाय च ॥२१॥
अमायायाऽऽत्मसंज्ञाय मायिने विश्वरूपिणे ।
योगीश्वराय योगाय योगगम्याय विष्णवे ॥२२॥
ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ।
ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसम्पदे ॥२३॥
ध्यानाय ध्यानगम्याय ध्यातृपापहराय च ।
ध्यानेश्वराय सुधिये ध्येयध्यातृस्वरूपिणे ॥२४॥
आदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः ।
यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥२५॥
यो ब्रह्मरूपी जगतां विधाता स एव पाता द्विजविष्णुरूपी ।
कल्पान्तरुद्राख्यतनुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ॥२६॥
यन्नामसङ्कीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः ।
विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥२७॥
शिवस्वरूपी शिवभक्तिभाजां यो विष्णुरूपी हरिभावितानाम् ।
सङ्कल्पपूर्वात्मकदेहहेतुस्तमेव नित्यं शरणं प्रपद्ये ॥२८॥
यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् ।
देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥२९॥
लेभेऽवतीर्योग्रनृसिंहरूपी यो दैत्यवक्षः कठिनं शिलावत् ।
विदार्य संरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥३०॥
व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् ।
जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ॥३१॥
ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसङ्घैः ।
स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मानमहं भजामि ॥३२॥
यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै ।
यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः ॥३३॥
यः स्थितो विश्वरूपेण सङ्गीवात्र प्रतीयते ।
असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥३४॥
हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् ।
न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥३५॥
सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् ।
सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥३६॥
दधार मन्दरं पृष्ठे नीरोदेऽमृतमन्थने ।
देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥३७॥
दंष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् ।
तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥३८॥
प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् ।
विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ॥३९॥
लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः ।
आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ॥४०॥
हैहयस्यापराधेन ह्येकविंशतिसङ्ख्यया ।
क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥४१॥
आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ।
घ्नतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥४२॥
मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च ।
सञ्जहार कुलं स्वं यस्तं श्रीकृष्णमहं भजे ॥४३॥
भूम्यादिलोकत्रितयं सन्तृप्तात्मानमात्मनि ।
पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥४४॥
युगान्ते पापिनोऽशुद्धान्भित्त्वा तीक्ष्णसुधारया ।
स्थापयामास यो धर्मं कृतादौ तं नमाम्यहम् ॥४५॥
एवमादीन्यनेकानि यस्य रूपाणि पाण्डवाः ।
न शक्यं तेन सङ्ख्यातुं कोट्यब्दैरपि तं भजे ॥४६॥
महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः ।
देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥४७॥
यन्नामश्रवणेनापि महापातकिनो नराः ।
पवित्रतां प्रपद्यन्ते तं कथं स्तौमि चाल्पधीः ॥४८॥
यथाकथञ्चिद्यन्नाम्नि कीर्तिते वा श्रुतेऽपि वा ।
पापिनस्तु विशुद्धाः स्युः शुद्धा मोक्षमवाप्नुयुः ॥४९॥
आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः ।
पश्यन्ति यं ज्ञानरूपं तमस्मि शरणं गतः ॥५०॥
साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिम् ।
तमादिदेवमजरं ज्ञानरूपं भजाम्यहम् ॥५१॥
सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् ।
सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥५२॥
यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् ।
दशाङ्गुलं योऽत्यतिष्ठत्तमीशमजरं भजे ॥५३॥
अणोरणीयांसमजं महतश्च महत्तरम् ।
गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥५४॥
ध्यातः स्मृतः पूजितो वा श्रितः प्रणमितोऽपि वा ।
स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥५५॥
इति स्तुवन्तं परमं परेशं हर्षाम्बुसंरुद्धविलोचनास्ते ।
मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रमुदं प्रजग्मुः ॥५६॥
य इदं प्रातरुत्थाय पठेद्वै पौरुषं स्तवम् ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥५७॥
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदाय शौनककृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।