जिस प्रकार हनुमान जी का एक स्वरूप पंचमुखी है और वो इसलिये कि भगवान शिव के पांच मुख हैं और हनुमान रुद्रावतार ही हैं। उसी प्रकार से रुद्रों की संख्या ११ है और इसलिये हनुमान का एक स्वरूप एकादश मुखी हनुमान वाला भी है। यहां दो एकादश मुखी हनुमान कवच (ekadash mukhi hanuman kavach) संस्कृत में दिया गया है जिसमें से प्रथम कवच रुद्रयामलोक्त है जो शिव पार्वती संवाद में है एवं द्वितीय कवच अगस्त्य संहितोक्त है जो अगस्त्य लोपामुद्रा संवाद रूप में है।
एकादश मुखी हनुमान कवच – ekadash mukhi hanuman kavach
श्रीदेव्युवाच
शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।
कवचानि च सौराणि यानि चान्यानि तानि च ॥१॥
श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च ।
किञ्चिदन्यत्तु देवानां कवचं यदि कथ्यते ॥२॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि सावधानावधारय ।
हनुमत्कवचं पुण्यं महापातकनाशनम् ॥३॥
एतद्गुह्यतमं लोके शीघ्रं सिद्धिकरं परम् ।
जयो यस्य प्रगानेन लोकत्रयजितो भवेत् ॥४॥
ॐ अस्य श्रीएकादशवक्त्रहनुमत्कवचमालामन्त्रस्य वीररामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीमहावीरहनुमान् रुद्रो देवता । ह्रीं बीजम् । ह्रौं शक्तिः । स्फें कीलकम् । सर्वदूतस्तम्भनार्थं जिह्वाकीलनार्थं, मोहनार्थं राजमुखीदेवता वश्यार्थं ब्रह्मराक्षसशाकिनीडाकिनीभूतप्रेतादिबाधापरिहारार्थं श्रीहनुमद्दिव्यकवचाख्यमालामन्त्रजपे विनियोगः ॥
ॐ ह्रौं आञ्जनेयाय अङ्गुष्ठभ्यां नमः ॥
ॐ स्फें रुद्रमूर्तये तर्जनीभ्यां नमः ॥
ॐ स्फें वायुपुत्राय मध्यमाभ्यां नमः ॥
ॐ स्फें अञ्जनीगर्भाय अनामिकाभ्यां नमः ॥
ॐ स्फें रामदूताय कनिष्ठिकाभ्यां नमः ॥
ॐ ह्रौं ब्रह्मास्त्रादिनिवारणाय करतलकरपृष्ठाभ्यां नमः ॥
ॐ ह्रौं आञ्जनेयाय हृदयाय नमः ॥
ॐ स्फें रुद्रमूर्तये शिरसे स्वाहा ॥
ॐ स्फें वायुपुत्राय शिखायै वषट् ॥
ॐ ह्रौं अञ्जनीगर्भाय कवचाय हुम् ॥
ॐ स्फें रामदूताय नेत्रत्रयाय वौषट् ॥
ॐ ह्रौं ब्रह्मास्त्रादिनिवारणाय अस्त्राय फट् ॥
॥ इति न्यासः ॥
॥ अथ ध्यानम् ॥
ॐ ध्यायेद्रणे हनुमन्तमेकादशमुखाम्बुजम् ।
ध्यायेत्तं रावणोपेतं दशबाहुं त्रिलोचनं
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।
ब्रह्मादिवन्दितं देवं कपिकोटिसमन्वितं
एवं ध्यात्वा जपेद्देवि कवचं परमाद्भुतम् ॥
॥ दिग्बन्धाः ॥
ॐ इन्द्रदिग्भागे गजारूढहनुमते ब्रह्मास्त्रशक्तिसहिताय
चौरव्याघ्रपिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ अग्निदिग्भागे मेषारुढहनुमते अस्त्रशक्तिसहिताय चौरव्याघ्र-
पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ यमदिग्भागे महिषारूढहनुमते खड्गशक्तिसहिताय चौरव्याघ्र-
पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ निऋर्तिदिग्भागे नरारूढहनुमते खड्गशक्तिसहिताय चौरव्याघ्र-
पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ वरुणदिग्भागे मकरारूढहनुमते प्राणशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ वायुदिग्भागे मृगारूढहनुमते अङ्कुशशक्तिसहिताय
चौरव्याघ्रपिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ कुबेरदिग्भागे अश्वारूढहनुमते गदाशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ ईशानदिग्भागे राक्षसारूढहनुमते पर्वतशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ अन्तरिक्षदिग्भागे वर्तुलहनुमते मुद्गरशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ भूमिदिग्भागे वृश्चिकारूढहनुमते वज्रशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
ॐ वज्रमण्डले हंसारूढहनुमते वज्रशक्तिसहिताय चौरव्याघ्र-
पिशाचब्रह्मराक्षसशाकिनीडाकिनीवेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥
॥ मालामन्त्रः॥
ॐ ह्रीं यीं यं प्रचण्डपराक्रमाय एकादशमुखहनुमतेहंसयतिबन्ध-मतिबन्ध-वाग्बन्ध-भैरुण्डबन्ध-भूतबन्ध-प्रेतबन्ध-पिशाचबन्ध-ज्वरबन्ध-शूलबन्ध-सर्वदेवताबन्ध-रागबन्ध-मुखबन्ध-राजसभाबन्ध-घोरवीर प्रताप रौद्र भीषण हनुमद्वज्रदंष्ट्राननाय वज्रकुण्डलकौपीनतुलसीवनमालाधराय सर्वग्रहोच्चाटनोच्चाटनाय ब्रह्मराक्षस समूहोच्चाटानाय ज्वरसमूहोच्चाटनाय राजसमूहोच्चाटनाय चौरसमूहोच्चाटनाय शत्रुसमूहोच्चाटनाय दुष्टसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ॥१॥
ॐ वीरहनुमते नमः ॥
ॐ नमो भगवते वीरहनुमते पीताम्बरधराय कर्णकुण्डलाद्याभरणालङ्कृतभूषणाय किरीट बिल्ववनमाला विभूषिताय कनकयज्ञोपवीतिने कौपीनकटिसूत्रविराजिताय श्रीवीररामचन्द्र मनोभिलषिताय लङ्कादिदहन कारणाय घनकुलगिरिवज्रदण्डाय अक्षकुमारसंहारकारणाय ॐ यं ॐ नमो भगवते रामदूताय फट् स्वाहा ॥
ॐ ऐं ह्रीं ह्रौं हनुमते सीतारामदूताय सहस्रमुखराजविध्वंसकाय अञ्जनीगर्भसम्भूताय शाकिनी डाकिनी विध्वंसनाय किलिकिलिचुचु कारेण विभीषणाय वीरहनुमद्देवाय ॐ ह्रीं श्रीं ह्रौ ह्रां फट् स्वाहा ॥
ॐ श्रीवीरहनुमते हौं ह्रूं फट् स्वाहा ॥
ॐ श्रीवीरहनुमते स्फ्रूं ह्रूं फट् स्वाहा ॥
ॐ श्रीवीरहनुमते ह्रौं ह्रूं फट् स्वाहा ॥
ॐ श्रीवीरहनुमते स्फ्रूं फट् स्वाहा ॥
ॐ ह्रां श्रीवीरहनुमते ह्रौं हूं फट् स्वाहा ॥
ॐ श्रीवीरहनुमते ह्रैं हुं फट् स्वाहा ॥
ॐ ह्रां पूर्वमुखे वानरमुखहनुमते लं सकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ आग्नेयमुखे मत्स्यमुखहनुमते रं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ दक्षिणमुखे कूर्ममुखहनुमते मं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ नैरृतिमुखे वराहमुखहनुमते क्षं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ पश्चिममुखे नारसिंहमुखहनुमते वं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ वायव्यमुखे गरुडमुखहनुमते यं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ उत्तरमुखे शरभमुखहनुमते सं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ ईशानमुखे वृषभमुखहनुमते हूं आं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ ऊर्ध्वमुखे ज्वालामुखहनुमते आं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ अधोमुखे मार्जारमुखहनुमते ह्रीं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ सर्वत्र जगन्मुखे हनुमते स्फ्रूं सकलशत्रुसकलशत्रुसंहारकाय हुं फट् स्वाहा ॥
ॐ श्रीसीतारामपादुकाधराय महावीराय वायुपुत्राय कनिष्ठाय
ब्रह्मनिष्ठाय एकादशरुद्रमूर्तये महाबलपराक्रमाय
भानुमण्डलग्रसनग्रहाय चतुर्मुखवरप्रसादाय महाभयरक्षकाय यं हौम् ।
ॐ हस्फें हस्फें हस्फें श्रीवीरहनुमते नमः एकादशवीरहनुमन्
मां रक्ष रक्ष शान्तिं कुरु कुरु तुष्टिं कुरु करु पुष्टिं कुरु कुरु
महारोग्यं कुरु कुरु अभयं कुरु कुरु अविघ्नं कुरु कुरु
महाविजयं कुरु कुरु सौभाग्यं कुरु कुरु सर्वत्र विजयं कुरु कुरु
महालक्ष्मीं देहि हुं फट् स्वाहा ॥
॥ फलश्रुतिः ॥
इत्येतत्कवचं दिव्यं शिवेन परिकीर्तितम् ।
यः पठेत्प्रयतो भूत्वा सर्वान्कामानवाप्नुयात् ॥
द्विकालमेककालं वा त्रिवारं यः पठेन्नरः ।
रोगान् पुनः क्षणात् जित्वा स पुमान् लभते श्रियम् ॥
मध्याह्ने च जले स्थित्वा चतुर्वारं पठेद्यदि ।
क्षयापस्मारकुष्ठादितापत्रयनिवारणम् ॥
यः पठेत्कवचं दिव्यं हनुमद्ध्यानतत्परः ।
त्रिःसकृद्वा यथाज्ञानं सोऽपि पुण्यवतां वरः ॥
देवमभ्यर्च्य विधिवत्पुरश्चर्यां समारभेत् ।
एकादशशतं जाप्यं दशांशहवनादिकम् ॥
यः करोति नरो भक्त्या कवचस्य समादरम् ।
ततः सिद्धिर्भवेत्तस्य परिचर्याविधानतः ॥
गद्यपद्यमया वाणी तस्य वक्त्रे प्रजायते ।
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ॥
॥ इति रुद्रयामलान्तर्गते एकादशमुखहनुमत्कवचं सम्पूर्णम् ॥
अगस्त्य संहितोक्त एकादशमुखी हनुमान कवच
लोपामुद्रा उवाच
कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।
यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥१॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥२॥
इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥३॥
अगस्त्य उवाच
नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम् ॥४॥
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥५॥
सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥६॥
हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः ।
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥७॥
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥८॥
सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥९॥
क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।
क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥१०॥
ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।
वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥११॥
ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।
वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥१२॥
ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।
ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥१३॥
ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ॥१४॥
सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥१५॥
आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥
दक्षिणे नारसिंहस्तु नैरृत्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥१७॥
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥१८॥
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥१९॥
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥२०॥
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥२१॥
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥२२॥
चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।
एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥२४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥२५॥
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥२६॥
इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥२७॥
॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।