यदि हम हनुमान कवच की बात करें तो हनुमान जी के भी विभिन्न पुराणों में अनेकानेक कवच स्तोत्र हैं जिनमें से दो प्रमुख स्तोत्र श्रीबृहन्नारदीय पुराणोक्त और सुदर्शन संहितोक्त हनुमान कवच (hanuman kavach) अर्थात श्रीहनुमत्कवचम् यहां संस्कृत में दिया गया है।
हनुमान कवच – hanuman kavach
सनत्कुमार उवाच
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ।
मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु ॥१॥
यस्य सन्धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः ।
भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥२॥
एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ।
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥३॥
तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ।
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥४॥
तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् ।
पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥५॥
ततः कथान्ते भगवान्मारुतेः कवचं ददौ ।
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥६॥
भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद ।
श्रीरामेणाञ्जनासूनोर्भुक्तिमुक्तिप्रदायकम् ॥७॥
॥ अथ कवचम् ॥
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥८॥
ऊर्ध्वं पातु कपिश्रेष्ठः केसरिप्रियनन्दनः ।
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥९॥
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ।
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥१०॥
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥११॥
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ।
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥१२॥
पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् ।
भुजौ पातु महातेजाः करौ च चरणायुधः ॥१३॥
नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः ।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥१४॥
लङ्कानिभर्जनः पातु पृष्ठदेशे निरन्तरम् ।
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥१५॥
गुह्यं पातु महाप्राज्ञः सक्थिनी अतिथिप्रियः ।
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥१६॥
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥१७॥
अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा ।
मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥१८॥
दिवारात्रौ त्रिलोकेषु सदागतिसुतोऽवतु ।
स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥१९॥
लोकोत्तरगुणः श्रीमान् पातु त्र्यम्बकसम्भवः ।
प्रमत्तमप्रमत्तं वा शयानं गहनेऽम्बुनि ॥२०॥
स्थलेऽन्तरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे ।
सङ्ग्रामे सङ्कटे घोरे विराड्रूपधरोऽवतु ॥२१॥
डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ।
शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥२२॥
दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः ।
साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥२३॥
यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः ।
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥२४॥
स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ।
सूर्यमण्डलगः श्रीदः पातु कालत्रयेऽपि माम् ॥२५॥
यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ।
देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥२६॥
सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः ।
यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥२७॥
सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः ।
वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यतेऽत्यलम् ॥२८॥
विद्धि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् ।
यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ॥२९॥
ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः ।
तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥३०॥
अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ।
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥३१॥
नमो हनुमते तस्मै नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामाय महते नमः ॥३२॥
नमो वानरवीराय सुग्रीवसख्यकारिणे ।
लङ्काविदहनायाथ महासागरतारिणे ॥३३॥
सीताशोकविनाशाय राममुद्राधराय च ।
रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥३४॥
मेघनादमखध्वंसकारणाय नमो नमः ।
अशोकवनविध्वंसकारिणे जयदायिने ॥३५॥
वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥३६॥
ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥३७॥
अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥३८॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमो नमः ।
ऋक्षवानरवीरौघप्रासादाय नमो नमः ॥३९॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः ॥४०॥
महारिपुभयघ्नाय भक्तत्राणैककारिणे ।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥४१॥
पयःपाषाणतरणकारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥४२॥
नखायुधाय भीमाय दन्तायुधधराय च ।
विहङ्गमाय शर्वाय वज्रदेहाय ते नमः ॥४३॥
प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ।
करस्थशैलशस्त्राय रामशस्त्राय ते नमः ॥४४॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥४५॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसङ्ग्रामसख्यसञ्जयकारिणे ॥४६॥
भक्तानां दिव्यवादेषु सङ्ग्रामे जयकारिणे ।
किल्किलाबुबुकाराय घोरशब्दकराय च ॥४७॥
सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे ।
सदा वनफलाहारसन्तृप्ताय विशेषतः ॥४८॥
महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।
॥ फलश्रुतिः ॥
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥४९॥
यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ।
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥५०॥
कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ।
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥५१॥
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥५२॥
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ॥
सुदर्शन संहितोक्त हनुमान कवच
गन्धमादनशैलस्य पुण्यस्योपरिसंस्थितम् ।
सुखासीनं ब्रह्मपुत्रं वसिष्ठमिष्टुमिच्छति ॥१॥
वालखिल्यादयो देवा सदेवौघा महर्षयः ।
आभ्यागम्य वसिष्ठं तं नमस्कृत्य यथाक्रमम् ॥२॥
पूजिता ऋषयः सर्वे तमूचुः प्रियपूर्वकम् ।
हे ब्रह्मन्याचितोऽस्माकं तमेवार्थं शुभप्रदम् ॥३॥
अस्मिन्पूर्वं हनुमते विक्रमं जगदुत्तमम् ।
त्वामृते कः समर्थोऽत्र हनुमत्कवचं शुभम् ॥४॥
विख्यातानि सहस्राणि नामानि विविधानि च ।
कवचं रामचन्द्रो वै अजपत्परमादरात् ॥५॥
एवं ब्रह्मात्मजं ब्रह्मन्नेतावत्कथयस्व नः ।
कानि नामानि किं छन्दः को ऋषिः किं च देवता ॥६॥
को मन्त्रः केन दिग्बन्धः को विधिः किं फलं शुभम् ।
सर्वं कथय मे ब्रह्मन्कवचेन समन्वितम् ॥७॥
इत्युक्तो मुनिवाक्यं तु सावधानेन सर्वतः ।
श्रुत्वा वचो वसिष्ठस्तु विस्मितः परमो ऋषिः ॥८॥
भवन्त एव सर्वज्ञास्त्रिकालज्ञा जगत्त्रये ।
मदनुग्रह एवैष यां ब्रूहि परमर्षयः ॥९॥
एतत्प्रश्नं महापुण्यं रहस्यं परमाद्भुतम् ।
कथयामि मुनिश्रेष्ठ तत्पृष्टोऽहमशेषतः ॥१०॥
शृणुध्वं हि यथा पूर्वं यथा पूर्वं सुविस्तरात् ।
वसिष्ठ उवाच
॥ हरिः ॐ ॥
विनियोग : अस्य श्रीहनुमद्दिव्यकवचस्तोत्रमन्त्रस्य अनुष्टुप्छन्दः श्रीराम ऋषिः श्रीहनुमान्देवता आञ्जनेयेतिशक्तिः वातात्मजेति दैवतं बीजम् श्रीहनुमानिति मन्त्रः मर्कटराडिति कीलकम् वज्रकायेति कवचम् बलवानिति योनिः दंष्ट्रायुधेति अस्त्रम् श्रीहनुमद्दिव्यकवचस्तोत्रमन्त्र जपे विनियोगः॥
॥ हृदयादि न्यासः ॥
अञ्जनासूनवे नमः इति हृदये ॥
रुद्ररूपाय नमः शिरसे स्वाहा ॥
वायुसुतायेति शिखायै वषट् ॥
अग्निगर्भाय नमः कवचाय हुं ॥
रामदूताय नमः नेत्रत्रयाय वौषट् ॥
ब्रह्मास्त्रस्तम्भनायेति अस्त्राय फट् ॥
॥ अथ ध्यानम् ॥
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पाऽपहं
देवेन्द्रप्रमुखं समस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादि समस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥११॥
॥ अथ कवचम् ॥
प्राच्यां वज्रतनुः पातु आग्नेय्यामग्निनाजितः ।
याम्यां पात्वञ्जनीपुत्रो शोकघ्नः पिङ्गलेक्षणः ॥१२॥
नैरृत्यां पातु दैत्यघ्नो वारुण्यामब्धिलङ्घनः ।
वायव्यां वायुजः पातु प्रयत्नेनोत्तरादिशः ॥१३॥
पातु लक्ष्मणशोकघ्नो गमनः सर्वदा महान्।
ऐशान्यामीशसं पातु पातु यत्नेन नान्यथा ॥१४॥
ऊर्ध्वमूर्धाऽऽत्मनः पातु अधः पातालसाधकः ॥१५॥
(हनुमान कवच मंत्र – hanuman kavach mantra)
ॐ श्रीहनुमते महापराक्रमाय सर्वकार्याणि इमानि मम साधय ह्रूं ह्रूं फट् स्वहा ॥
त्रिशिरोघ्नः शिरः पातु भालं भालेक्षणः प्रभुः ।
कर्णौ पात्विप्रकर्णस्यास्तथाक्षिण्यक्षसंहरः ॥१६॥
हनुमान्मे हनू पातु नासिकाङ्घ्रमनासिजित् ।
चतुर्वक्त्रहरो वक्त्रं पातु दन्तानि सर्वदा ॥१७॥
शूलदंष्ट्राजितः पातु जिह्वायां दैत्यजिह्वहा ।
भुजौ भुजायुधः पातु स्कन्धौ मे सन्धिकारकः ॥१८॥
अङ्गुलीः पातु रामस्य वर्णाङ्गुलियधारकः ।
नखान्नखायुधः पातु कङ्किनीभञ्जतस्तनौ ॥१९॥
वक्षः पात्वश्मवक्षःघ्नो महोदरहरोदरम् ।
केसरीनन्दनो मध्यं पातु पूर्वं प्रयत्नतः ॥२०॥
नाभिं पातु सदा पद्मनाभश्च निजशक्तिमान्।
पृष्ठं पातु रणे पृष्ठं नादेयः सर्वदा हितः ॥२१॥
गुदं रक्तगुदः पातु गुह्यं गुह्यस्त्वलिङ्गकः ।
ऊरू पात्वहितस्योरुभञ्जनो ग्रामसत्वरः ॥२२॥
स्थूलं जङ्घाख्यसंहारः पातु मे जङ्घयोर्द्वयोः ।
दैत्यानां शीर्षविन्यस्तपादः पात्वनिशं पदौ ॥२३॥
यत्नेन सर्वकर्माणि मर्मज्ञः पातु सर्वदा ।
रक्तरोमाह्वयध्वंसी रोमकूपानि पातु मे ॥२४॥
अन्हि पात्वहितावध्यः रात्रौ रात्रिजयाधिकः ।
सन्ध्यां सन्धानकारण्यां रामायानीय दत्तवान्।
सङ्ग्रामे तु महामोहान्सर्वदा सर्वतो जय ॥२५॥
जले ग्रहहरः पातु वने लङ्कावनान्तकृत् ।
स्थले भीमाग्रजः पातु गिरौ गिरिवनेश्वरः ॥२६॥
सङ्ग्रामे बलवान्पातु अग्नौ लङ्काविदाहकः ।
गृहे मां पातु सर्वत्र कदलीवनमन्दिरः ॥२७॥
हनुमत्कवचं यस्तु पठेद्विद्वान्विचक्षणः ।
तत्फलं पुरतः सर्वं वक्ष्यामीह मुनीश्वर ॥२८॥
॥ इति श्रीसुदर्शनसंहितायां हनुमन्कवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।