किसी भी देवता को शीघ्र प्रसन्न करने के महत्वपूर्ण उपाय में सबसे ऊपर स्तोत्र का स्थान आता है। हनुमान जी को प्रसन्न करने के लिये भी उनके स्तोत्रों की आवश्यकता होती है और इस कारण हमें हनुमान जी के अनेकों स्तोत्र की आवश्यकता होती है। यहां अनेकों हनुमान स्तोत्र (hanuman stotra) संस्कृत में दिये गये हैं और साथ ही आपदा से उद्धार करने वाला आपदुद्धारक हनुमान स्तोत्र भी दिया गया है।
श्रीहनुमत्स्तोत्रं (हनुमान स्तोत्र) – hanuman stotra
अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम् ।
सीताऽविषह्यघनदुःखनिवारकं तं
वायोः सुतं गिलितभानुमहं नमामि ॥१॥
मां पश्य पश्य दयया निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखपुञ्जात् ।
वश्यं कुरु त्रिजगतां वसुधाधिपानां
मे देहि देहि महतीं वसुधां श्रियं च ॥२॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय नमोऽस्तु ते ।
बन्धनं छेदयाभुक्तं कपिवर्य नमोऽस्तु ते ॥३॥
देहि मे सम्पदो नित्यं त्रिलोचन नमोऽस्तु ते ।
दुष्टरोगान् हन हन रामदूत नमोऽस्तु ते ॥४॥
उच्चाटय रिपून् सर्वान् मोहनं कुरु भूभुजाम् ।
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक सर्वदा ॥५॥
सञ्जीवपर्वतोद्धार मम दुःखं निवारय ।
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक ॥६॥
एवं स्तुत्वा हनुमन्तं नरः श्रद्धासमन्वितः ।
पुत्रपौत्रादिसहितः सर्वान् कामानवाप्नुयात् ॥७॥
मर्कटेश महोत्साह सर्वशोकविनाशक ।
शत्रून् संहर मां रक्ष श्रियं दत्वा च मां भर ॥८॥
विभीषणकृतं हनुमत्स्तोत्रं
नमो हनुमते तुभ्यं नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥१॥
नमो वानरवीराय सुग्रीवसख्यकारिणे ।
लङ्काविदाहनार्थाय हेलासागरतारिणे ॥२॥
सीताशोकविनाशाय राममुद्राधराय च ।
रावणान्तकुलच्छेदकारिणे ते नमो नमः ॥३॥
मेघनादमखध्वंसकारिणे ते नमो नमः ।
अशोकवनविध्वंसकारिणे भयहारिणे ॥४॥
वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेदलङ्काप्रासादभञ्जिने ॥५॥
ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥६॥
अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ॥७॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः ।
ऋक्षवानरवीरौघप्राणदाय नमो नमः ॥८॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥९॥
महाभयरिपुघ्नाय भक्तत्राणैककारिणे ।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥१०॥
पयःपाषाणतरणकारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे भवतारिणे ॥११॥
नखायुधाय भीमाय दन्तायुधधराय च ।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥१२॥
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने ।
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥१३॥
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ।
विहङ्गमाय सर्वाय वज्रदेहाय ते नमः ॥१४॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥१५॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसङ्ग्रामसङ्ख्ये सञ्जयधारिणे ॥१६॥
भक्तान्तदिव्यवादेषु सङ्ग्रामे जयदायिने ।
किल्किलाबुबुकोच्चारघोरशब्दकराय च ॥१७॥
सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे ।
सदा वनफलाहारसन्तृप्ताय विशेषतः ॥१८॥
महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।
वादे विवादे सङ्ग्रामे भये घोरे महावने ॥१९॥
सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद् भयं न हि ।
दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे ॥२०॥
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ।
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ॥२१॥
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः ।
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ॥२२॥
सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् ।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥२३॥
विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् ।
ये पठिष्यन्ति भक्त्या वै सिद्ध्यस्तत्करे स्थिताः ॥२४॥
॥ इति श्रीसुदर्शनसंहितायां विभीषणगरुडसंवादे विभीषणकृतं हनुमत्स्तोत्रं सम्पूर्णम् ॥
आपदुद्धारक श्रीहनूमत्स्तोत्रम्
॥ श्रीहनुमते नमः ॥
विनियोग : अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, विभीषण ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता । मम शत्रुमुखस्तम्भनार्थे सर्वकार्यसिद्ध्यर्थे च जपे विनियोगः ॥
॥ ध्यानम् ॥
चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं
नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् ।
हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं
बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥
मन्त्रः -ॐ नमो हनुमते रुद्राय । मम सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु ॥ मम सर्वकार्यसिद्धिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा ॥ (अष्टवारं जपेत्)
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥१॥
सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रयस्य संहारिन्नाञ्जनेय नमोऽस्तु ते ॥२॥
आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहन्त्रे दैत्यानां रामप्राणात्मने नमः ॥३॥
संसारसागरावर्तागतसम्भ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥४॥
राजद्वारे बिलद्वारे प्रवेशे भूतसङ्कुले ।
गजसिंहमहाव्याघ्रचोरभीषणकानने ॥५॥
महाभयेऽग्निसंस्थाने शत्रुसङ्गसमाश्रिते ।
शरणागतमर्त्यानां शरण्याय नमो नमः ॥६॥
प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धियशःकामान् प्राप्नुवन्ति न संशयः ॥७॥
कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत्तयः ॥८॥
वज्रदेहाय कालाग्निरुद्रायामिततेजसे ।
नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥९॥
दुष्टदैत्यमहादर्पदलनाय महात्मने ।
ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥१०॥
जप्त्वा स्तोत्रमिदं पुण्यं वसुवारं पठेन्नरः ।
राजस्थाने सभास्थाने वादे प्राप्ते जपेद्ध्रुवम् ॥११॥
विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥१२॥
हनूमत्स्तोत्रम्
शृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वसुखावहम् ।
सर्वकामप्रदं नॄणां हनुमत्स्तोत्रमुत्तमम् ॥१॥
तप्तहाटकसङ्काशं नानापुष्पविराजितम् ।
उद्यद्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥२॥
मौञ्जीकौपीनकं हेममययज्ञोपवीतिनम् ।
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥३॥
मूर्तित्रयात्मकं वीरं महाशौर्यं महाहनुम् ।
हनूमन्तं वायुसूनुं नमामि ब्रह्मचारिणम् ॥४॥
त्रिवर्णाक्षरमन्त्रस्थं जपाकुसुमसन्निभम् ।
नानाभूषणसंयुक्तमाञ्जनेयं नमाम्यहम् ॥५॥
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् ।
पूजितं सर्वदेवैस्तु राक्षसारिं नमाम्यहम् ॥६॥
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम् ।
षडक्षरयुतं देवं नमामि ब्रह्मचारिणम् ॥७॥
सप्तवर्णमयं देवं हरीशं तं सुरार्चितम् ।
सुन्दरास्याब्जसंयुक्तं त्रिनेत्रं तं नमाम्यहम् ॥८॥
अष्टादशाधिपं देवं हेमवर्णं महातनुम् ।
नमामि जगतां वन्द्यं लङ्काप्रासाददाहनम् ॥९॥
अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ।
जटाधरं चतुर्बाहुं नमामि कपिनायकम् ॥१०॥
द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ।
हेमवर्णलसत्कायं भजे सुग्रीवमन्त्रिणम् ॥११॥
मालामन्त्रात्मकं देवं त्रिवर्णं च चतुर्भुजम् ।
पाशाङ्कुशधरं देवं कपिवर्यं नमाम्यहम् ॥१२॥
त्रयोदशाक्षरहितं सीतादुःखनिवारणम् ।
सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥१३॥
हाहाकारमुखान्तनित्यदहनज्वालासमूहोज्ज्वलं
विद्वन्मण्डलजातरोषपरुषं श्रीरामदासं विभुम् ।
सञ्चूर्णीकृतधूम्रलोचनमहाह्यक्षादिरक्षोबलं
तं वन्दे रविधारणं सुरवरैर्वन्द्यं समीरात्मजम् ॥१४॥
रघुपतिपदभक्तं किङ्किणीकोत्तमाङ्गं
मुकुलितकरपद्मं मोदयानं तरङ्गे ।
पुलकितविपुलाङ्गं पुण्यलीलानुषङ्गं
वनचरकुलनाथं वायुपुत्रं नतोऽस्मि ॥१५॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।