वामन पुराण में भगवान विष्णु और भगवान शंकर का एक महत्वपूर्ण स्तोत्र है जिसका नाम पाप शमन स्तोत्र या हरिशंकर स्तोत्र (Harishankara stotra) है। यह स्तोत्र जब दोनों का संयुक्त स्तवन करना हो तो महत्वपूर्ण हो जाता है। हम जानते हैं कि एक यज्ञ हरिहर यज्ञ भी होता है और ऐसी अर्चना में यह स्तोत्र महत्वपूर्ण स्थान रखता है। यहां वामन पुराणोक्त पापशमनं नामक हरिशङ्कर स्तोत्र संस्कृत में दिया गया है।
पापशमनं नामक हरिशङ्कर स्तोत्र – Harishankara stotra
मत्स्यं नमस्ये देवेशं कूर्मं देवेशमेव च ।
हयशीर्षं नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥
नमस्ये माधवेशानौ हृषीकेषकुमारिलौ ।
नारायणं नमस्येऽहं नमस्ते गरुडासनम् ॥
जयेशं नरसिंहं च रूपधारं कुरुध्वजम् ।
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥
अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् ।
हरिं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥
नमस्ये शूलबाहुं च देवं चक्रधरं तथा ।
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम् ॥
नमस्ये च गदापाणिं नमस्ये च कुशेशयम् ।
अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥
गोपालं च सवैकुण्ठं नमस्ये चापधारिणम् ।
नमस्ये विष्णुरूपं च ज्येष्ठेशं पञ्चमं तथा ॥
उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् ।
नमस्ये पद्मकिरणं नमस्ये वडवामुखम् ॥
कार्त्तिकेयं नमस्येऽहं बाह्लिकं शङ्खिनं तथा ।
नमस्ये पद्मकिरणं नमस्ये च कुशेशयम् ॥
नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् ।
नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम् ॥
नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् ।
नमस्ये च त्रिसौवर्णं नमस्ये धरणीधरम् ॥
त्रिणाचिकेतं ब्रह्माणं नमस्ये शशिभूषणम् ।
कपर्दिनं नमस्ये च सर्वामयविनाशनम् ॥
नमस्ये शशिनं सूर्यं ध्रुवं रुद्रं महौजसम् ।
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥
नमस्येऽहं भीमहंसौ नमस्ये हाटकेश्वरम् ।
सदाहंसं नमस्ये च नमस्ये घ्राणतर्पणम् ॥
नमस्ये रुक्मकवचं महायोगिनमीश्वरम् ।
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥
नमस्ये च चतुर्बाहुं नमस्ये च सुधाधिपम् ।
वनस्पतिं मधुपतिं नमस्ये मनुमव्ययम् ॥
श्रीकण्ठं वासुदेवं च नीलकण्ठं सदाशिवम् ।
नमस्ये शर्वमनघं गौरीशं लकुडेश्वरम् ॥
मनोहरं च कृष्णेशं नमस्ये चक्रपाणिनम् ।
यशोधनं महाबाहुं नमस्ये च कुशप्रियम् ॥
भूधरं छादितगदं सुनेत्रं सुरशंसितम् ।
भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिनम् ॥
वृषध्वजं महेशं च विश्वामित्रं शशिप्रभम् ।
उपेन्द्रं च सगोविन्दं नमस्ये पङ्कजप्रियम् ॥
सहस्रशिरसं देवं नमस्ये कुन्दमालिनम् ।
कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥
नमस्ये छागलेशं च नमस्ये पङ्कजासनम् ।
सहस्राक्षं कोकनदं नमस्ये हरिशङ्करम् ॥
अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् ।
सनातनं च ब्रह्माणं नमस्ये ब्रह्म तत्परम् ॥
अप्रतर्क्यं चतुर्बाहुं सहस्रांशुं तपोमयम् ।
नमस्ये धर्मराजानं देवं गरुडवाहनम् ॥
सर्वभूतगतं शान्तं निर्मलं सर्वलक्षणम् ।
महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥
निरञ्जनं निराकारं निर्गुणं निलयं पदम् ।
नमस्ये पापहर्तारं शरण्यं शरणं व्रजे ॥
एतत् पवित्रं परमं पुराण
प्रोक्त त्वगस्त्येन महर्षणा च ।
धन्यं यशस्यं बहुपापनाशनं
संङ्कीर्तनात् स्मरणात् स्पर्शनाच्च ॥
॥ इति वामनपुराणे अगस्त्यप्रोक्तं पापशमनं नाम हरिशङ्करस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।