प्राणप्रतिष्ठा मंत्र – पुष्पाक्षत लेकर अनामिका और अंगुष्ठ अंगुलियों से देवी के हृदय का स्पर्श करते हुए यह मंत्र पढे : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञ ᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों ३ प्रतिष्ठ ॥ ॐ भूर्भुवः स्वः साङ्गसायुधसवाहनसपरिवार भगवति क्रीं कालिके इह सुप्रतिष्ठिता भव । (यदि दक्षिणकालिका की पूजा करनी हो तो कालिकायै के स्थान पर सर्व दक्षिणकालिकायै कहें)
तत्पश्चात् महाकाल की पूजा करें – ॐ बिभ्रतं दण्डखट्वाङ्गी दंष्ट्राभीममुखं शिवम् ॥ व्याघ्रचर्मावृतकटिं तुन्दिलं रक्तवाससम् । त्रिनेत्रमूर्ध्वकेशञ्च मुण्डमाला विभूषितम् । जटाभीषणसच्चन्द्रखण्डं तेजो ज्वलन्निव ॥
ध्यान करके मनोजूतिः ऋचा और मूल मंत्र “ॐ हूँ स्फों याँ रौं लां वां क्रीं महाकालभैरव सर्वविघ्नान्नाशय नाशय ह्रीं श्रीं फट् स्वाहा” से प्राण प्रतिष्ठा करके इस मूल मंत्र से ही पंचोपचार या षोडशोपचार पूजन करे । महाकाल की पूजा करने के बाद श्यामापूजन अर्थात् काली पूजन करे :-
श्यामा पूजा या काली पूजा से सम्बंधित विशेष बातें
स्वागत (फल-फूल लेकर स्वागत करे) – स्वागतं ते महामायै चण्डिके सर्वमङ्गले । पूजां गृहाण विविधां सर्वकल्याणकारिणि ॥ स्वागत का फल-फूल अर्पित कर दे।
स्थिरीकरण करबद्ध प्रार्थना करे – ॐ देवेशि भक्तिसुलभे परिवारसमन्विते । यावस्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ।।
आसन – ॐ आसनं भास्वरं तुङ्गं माङ्गल्यं सर्वमङ्गले । भजस्व जगतां मातः प्रसीद जगदीश्वरि ।। ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
पाद्य – ॐ गङ्गादिसलिलाधारं तीर्थं मन्त्राभिमन्त्रितम् । दूरयात्राश्रमहरं पाद्यं तत्प्रतिगृह्यताम् ॥ इदं पाद्यं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
उद्वर्तन (उबटन) – ॐ तिलतैलसमायुक्तं सुगन्धिद्रव्यनिर्मितम् । उद्वर्तनमिदं देवि गृहाण त्वं प्रसीद मे ॥ इदं उद्वर्तनं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
अर्घ्य – ॐ तिलतण्डुलसंयुक्तं कुशपुष्पसमन्वितम् । सुगन्धं फलकमर्घ्यं देवि गृहाण मे ॥ एषोऽर्भ्यः ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
आचमनजल – ॐ स्नानादिकं विधायापि यतः शद्धिरवाप्यते । इदमाचनीयं हि श्यामे देवि प्रगृह्यताम् ।। इदमाचमनीयं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
स्नान जल – ॐ खमापः पृथिवी चैव ज्यौतिषं वायुरेव च। लोकसंस्मृतिमात्रेण वारिणा स्नापयाम्यहम् । इदं स्नानीयम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
अष्टगार्घ्य – ॐ जगत्पूज्ये त्रिलोकेशि सर्वदानव भञ्जिनि । अष्टंगार्घ्यं गृहाण त्वं देवि विश्वार्तिहारिणि । एष अष्टगार्भ्यः ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
मधुपर्क (कास्यपात्र में दही-चीनी-घी-मधु मिलाकर और दूसरे कांस्यपात्र से ढंककर) – ॐ मधुपर्कं महादेवि ब्रह्माद्यै कल्पितं तव । मया निवेदितं भक्त्या गृहाण गिरिपुत्रिके । एष मधुपर्कः ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
पुनराचमन जल – ॐ स्नानादिकं पुरः कृत्वा पुनः शुद्धिरवाप्यते । पुनराचमनीयं च श्यामे देवि प्रगृह्यताम् ॥ इदं पुनराचमनीयं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
चन्दन – ॐ मलयाचलसम्भूतं नानागन्धसमन्वितम् । शीतलं बहुलामोदं चन्दनं गृह्यतामिदम् । इदं श्रीखण्डचन्दनं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
रक्तचन्दन – ॐ रक्तानुलेपनं देवि स्वयं देव्या प्रकाशितम् । तद् गृहाण महाभागे शुभं देहि नमोस्तु ते ॥ इदं रक्तचन्दनं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
सिन्दूर (सपुष्प) – ॐ सिन्दूरं सर्वसाध्वीनां भूषणाय विनिर्मितम् । गृहाण वरदे देवि भूषणानि प्रयच्छ मे ।। इदं सिन्दूराभरणं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
कुङ्कुम – ॐ जपापुष्पप्रभं रम्यं नारीभालविभूषणम् । भास्वरं कुङ्कुमं रक्तं देवि दत्तं प्रगृह्य मे ॥ इदं कुकुमाभरणम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
अक्षत – ॐ अक्षतं धान्यजं देवि ब्रह्मणा निर्मितं पुरा। प्राणदं सर्वभूतानां गृहाण वरदे शुभे ॥ इदमक्षतम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
पुष्प – ॐ चलत्परिमलामोदमत्तालिगणसङ्कुलम् । आनन्दनन्दनोद्भूतं श्यामायै कुसुमं नमः ॥ एतानि पुष्पाणि ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
बिल्वपत्र – ॐ अमृतोद्भवं श्रीवृक्षं शङ्करस्य सदा प्रियम् । पवित्रं ते प्रयच्छामि सर्वकार्यार्थसिद्धये ॥ इदं बिल्वपत्रम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
माला – ॐ नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभनाम् । प्रयच्छामि सदा भद्रे गृहाण परमेश्वरि ।। इदं माल्यं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
वस्त्र – ॐ तन्तुसन्तानसंयुक्तं कलाकौशल कल्पितम् । सर्वाङ्गाभरणश्रेष्ठं वसनं परिधीयताम् । इदं वस्त्रं बृहस्पतिदेवतं ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
द्वितीयवस्त्र (चुनरी आदि सहित) – ॐ यामाश्रित्य महादेवो जगत्संहारकः सदा । तस्यै तं परमेशान्ये कल्पयाम्युत्तरीयकम् । इदं द्वितीयवस्त्रम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
अलङ्करण (आभूषणादि) – ॐ सौवर्णाद्यलङ्कारं कङ्कणादिविभूषितम् । हारकेयूरयुक्तानि नूपुराणि गृहाण मे ॥ इदमलङ्करणम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
धूप – ॐ गुग्गुलं घृतसंयुक्तं नानाभक्ष्यैश्च संयुतम् । दशाङ्गं गृह्यतां धूपं श्यामं देवि नमोस्तु ते । एष धूपः ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
दीप – ॐ मार्तण्डमण्डलान्तस्थ चन्द्रबिम्बाग्नितेजसाम् । निधानं देवि दीपोऽयं निर्मितस्तव भक्तितः ॥ एष दीपः ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
सुगन्धितद्रव्य – ॐ परमानन्दसौरभ्यं परिपूर्णदिगम्बरम् । गृहाण सौरभं दिव्यं कृपया जगदम्बिके । इदं सुगन्धितद्रव्यम् । ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
कर्पूरदीप – ॐ त्वं चन्द्रसूर्यज्योतींषि विद्युदग्न्योस्तथैव च । त्वमेव जगतां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् । एष कर्पूरदीप: ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
नैवेद्य – ॐ दिव्यान्नरससंयुक्तं नानाभक्ष्यैस्तु संयुतम् । चोष्यपेयसमायुक्तमन्न देवि गृहाण मे ॥ एतानि नानाविधनैवेद्यानि ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
पायस नैवेद्य – ॐ गव्यसर्पिः पयोयुक्तं नानामधुरमिश्रितम् । निवेदितं मया भक्त्या परमान्नं प्रगृह्यताम् ॥ इदं पायसम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
मोदक (लड्डू) – ॐ मोदकं स्वादु रुचिरं कर्पूरादिभिरन्वितम् । मिश्रं नानाविधैद्रव्यैः प्रतिगृह्याशु भुज्यताम् ॥ इदं मोदकम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
अपूपादिपक्वान्न – ॐ अपूपानि च पक्कानि मण्डका वटकानि च । पायसापूपमन्नं च नैवेद्य प्रतिगृह्यताम् । एतान्यपूपादिनैवेद्यानि ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
फल (की प्रकार के फल) – ॐ फलमूलानि सर्वाणि ग्राम्याऽरण्यानि यानि च । नानाविधसुगन्धीनि गृह्ण देवि ममार्चिरम् ॥ एतानि नानाविधानि फलानि ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
पानीयजल (जलपात्र में जल भरकर) – ॐ पानीयं शीतलं स्वच्छं कर्पूरादिसुवासितम् । भोजने तृप्तिकृद्यस्मात् कृपया प्रतिगृह्यताम् ॥ इदं पानीयम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
करोद्वर्तनजल (कर्पूर–चन्दन-गुलाबजल आदि मिलाकर) – ॐ कर्पूरादीनि द्रव्याणि सुगन्धीनि महेश्वरि । गृहाण जगतां नाथे करोद्वर्तनहेतवे । इदं करोद्वर्तनजलम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
आचमन जल – ॐ आमोदवस्तुसुरभी कृतमेतदनुत्तमम् । गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ॥ इदमाचमनीयम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
ताम्बूल – ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । कर्पूरैलासमायुक्तं ताम्बूलं प्रतिगृह्यताम् । इदं ताम्बूलम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
कज्जल/काजल – ॐ स्निग्धमुष्णं हृद्यतमं दृशां शोभाकरं तव । गृहीत्वा कज्जलं सद्यो नेत्राण्यञ्जय कालिके । इदं कज्जलम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
सौवीराञ्जन – ॐ नेत्रत्रयं महामाये भूषयामलकज्जलैः । सुसौवीराञ्जनैर्दिव्यैर्जगदम्ब नमोऽस्तु ते ॥ इदं सौवीराञ्जनम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
अलक्त/अलता – ॐ त्वत्पदाम्भोजनख रद्युतिकारिमोहरम् । अलक्तकमिदं देवि मया दत्तं प्रगृह्यताम् ॥ इदम्लक्तकम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
चामर – ॐ चामरं चमरीपुच्छं हेमदण्डसमन्वितम् । मयार्पितं राजचिह्नं चामरं प्रतिगृह्यताम् । इदं चामरम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
व्यजन/पंखा — ॐ बर्हिर्बर्हकृताकारं मध्यदण्डसमन्वितम् । गृह्यतां व्यजनं श्यामे देहस्वेदापनुत्तये ॥ इदं व्यजनम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
घण्टावाद्यम् – ॐ यया भीषयसे दैत्यान् यया पूरयसेऽसुरम् । तां घण्टां सम्प्रयच्छामि महिषघ्नि प्रसीद मे ।। इदं घण्टावाद्यम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
दक्षिणाद्रव्य – ॐ काञ्चनं रजतोपेतं नानारत्नसमन्विम् । दक्षिणार्थं च देवेशि गृहाण त्वं नमोऽस्तु ते ॥ इदं दक्षिणाद्रव्यम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
पुष्पाञ्जलि – ॐ श्यामे श्यामे महामाये सर्वशक्ति स्वरूपिणि । त्वं काली कमला ब्राह्मी त्वं जया विजया शिवा ॥ त्वं लक्ष्मीविष्णुलोकेषु केलासे पार्वती तथा । सरस्वती ब्रह्मलोके चेन्द्राणी शक्रपूजिता ॥ वाराही नारसिंही च कौमारी वैष्णवी तथा । त्वमापः सर्वतोयेषु ज्योतिस्त्वं ज्योतिरूपिणी ॥ योगमाया त्वमेवाऽसि वायुरूपा नभःस्थिता । सर्वगन्धवहा पृथ्वी नानारूपा सनातनी ॥ विश्वरूपे च विश्वेशे विश्वशक्तिसमन्विते । प्रसीद परमानन्दे श्यामे देवि नमोऽस्तु ते ॥ नानापुष्पसमाकीर्णं नानासौरभसंयुतम् । पुष्पाञ्जलिञ्च विश्वेशि गृहाण भक्तवत्सले ।
एष पुष्पाञ्जलिः ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥

नीराजन (आरति) – ॐ कर्पूरवर्तिसंयुक्तं वह्निना दीपितञ्च यत् । नीराजनं च देवेशि गृह्यतां जगदम्बिके । इदं नीराजनम् ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
ततोऽच्छिद्रावधारणम् – ॐ श्यामे देवि महामाये यैषा पूजा मया कृता । अच्छिद्रास्तु शिवे साङ्गा तब देवि प्रसादतः ॥ ॐ साङ्गायै सायुधायै सवाहनायै सपरिवारायै क्रीं कालिकायै नमः॥
प्रदक्षिणा – ॐ यानि कानि च पापानि जन्मान्तर कृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणे पदे पदे ॥
साष्टाङ्ग प्रणाम : ॐ पापोऽहं पापकर्माहं पापात्मा पाप सम्भनः । त्राहिमाम् जगन्मातः सर्वपापहरा भव ॥
अन्य सप्तशती पाठ, क्षमाप्रार्थना, आदि करे ।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।